२६ नानाजनोद्धरणम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् ।
गाणपत्यप्रियोऽत्यन्तं सदा सत्सङ्गलालसः ॥ १ ॥

स कदाचिन् महाभागो माघव्रतपरोऽभवत् ।
गाणेशपञ्चकं नित्यमसेवद्भक्तिसंयुतः ॥ २ ॥

प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम् ।
तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥ ३ ॥

विकरालमुखीं तां स दृष्ट्वा भयसमन्वितः ।
गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥ ४ ॥

दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने ।
तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥ ५ ॥

राक्षस्युवाच ।
अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात् ।
तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥ ६ ॥

[[५८]]

तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् ।
उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥ ७ ॥

विश्वसह उवाच ।

काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् ।
कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥ ८ ॥

राक्षस्युवाच ।
पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी ।
पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥ ९ ॥

यथेष्टं विषये सक्ताऽऽचरं पापपरायणा ।
मृता यामैर्हृता तत्र यातनायां स्थिताऽभवम् ॥ १० ॥

भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः ।
सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥ ११ ॥

नीचोच्चमांसमत्यन्तमभक्षं नित्यमेव च ।
तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥ १२ ॥

अपारं भक्षयाम्येव तथापि क्षुधया युता ।
विप्रजन्मन आरभ्य न तृप्ताहं कदाऽभवम् ॥ १३ ॥

अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता ।
जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥ १४ ॥

तारयस्व महाभाग त्वं समर्थो न संशयः ।
नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ॥ १५ ॥

तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः ।
विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥ १६ ॥

विश्वसह उवाच ।

गणेशनाममाहात्म्यं कथयितुं न शक्यते ।
मया श्रुतं पुराणेषु सत्यमेव तदञ्जसा ॥ १७ ॥

दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना ।
अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥ १८ ॥

माघस्नानभवं पुण्यमेकाहेन समुद्भवम् ।
ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥ १९ ॥

एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः ।
एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥ २० ॥

ततो गणेश्वरस्यैव दूतास्तत्र समाययुः ।
तां विमाने विनिक्षिप्य ययुः स्वानन्दकं पुरम् ॥ २१ ॥

तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः ।
स्नानं कृत्वा ययौ स्नानमभजद्गणनायकम् ॥ २२ ॥

समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः ।
वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥ २३ ॥

समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् ।
सम्भ्रमेण समायुक्तो ननर्त प्रेमविह्वलः ॥ २४ ॥

तं तादृशं समालोक्य जगाद द्विरदाननः ।
वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥ २५ ॥

गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः ।
जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥ २६ ॥

विश्वसह उवाच ।

धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च ।
धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥ २७ ॥

त्वां वेदाः सोपनिषदो न जानन्ति गणेश्वर ।
योगिनः शङ्कराद्याः स कथं त्वं स्वयमागतः ॥ २८ ॥

कृतकृत्योऽहमत्यन्तं त्वदङ्घ्रियुगदर्शनात् ।
किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥ २९ ॥

विघ्नेशाय नमस्तुभ्यं परात्परतमाय च ।
हेरम्बाय गणेशाय गणानां पतये नमः ॥ ३० ॥

मायाकारशरीराय मायिकशिरसे नमः ।
तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ ३१ ॥

[[५९]]

राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे ।
सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ ३२ ॥

तामसाय जनानां तु संहर्त्रे कालरूपिणे ।
कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ ३३ ॥

चालकाय महामोहदायिने शक्तिरूपिणे ।
गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ ३४ ॥

बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने ।
बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ ३५ ॥

विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते ।
अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ ३६ ॥

किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् ।
तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ ३७ ॥

एवमुक्त्वा विश्वसहो ननामैव गजाननम् ।
तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ ३८ ॥

श्रीगणेश उवाच ।

त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् ।
पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ ३९ ॥

यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ ४० ॥

मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा ।
यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ ४१ ॥

एवमुक्त्वा गणाधीशोऽन्तर्दधे तस्य पश्यतः ।
विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ ४२ ॥

गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः ।
सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ ४३ ॥

अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् ।
सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ ४४ ॥

चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् ।
माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ ४५ ॥

स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् ।
रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ ४६ ॥

एवं गीतं माघमासे गणेशं देवमन्दिरे ।
गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ ४७ ॥

एकदा कार्यसंस्थः स माघमासे बभूव ह ।
याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ ४८ ॥

प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् ।
जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ ४९ ॥

दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् ।
गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ ५० ॥

ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् ।
अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ ५१ ॥

जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः ।
तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ ५२ ॥

तव दर्शनमात्रेण शुद्धा जाता वयं किल ।
तव गानफलं देहि तेन मुक्ता भवामहे ॥ ५३ ॥

तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् ।
नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥ ५४ ॥

नील उवाच ।

गणेशगीतसम्भूतं फलं वो न ददाम्यहम् ।
एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥ ५५ ॥

अत एकस्य पादस्य फलं दास्यामि शाश्वतम् ।
तेन मुक्ता भवन्तोऽपि भविष्यन्ति न संशयः ॥ ५६ ॥

एवमुक्त्वा ददौ तेभ्य एकगीतस्य पादजम् ।
फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥ ५७ ॥

[[६०]]

विमानेषु समारुह्य गताः स्वानन्दके पुरे ।
चाण्डालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥ ५८ ॥

ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने ।
अन्ते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥ ५९ ॥

एवमेकात्मकेनैव नियमेन विशेषतः ।
माघमासे गणेशानं प्रापुश्चानन्तजन्तवः ॥ ६० ॥

माघमासभवं चित्रं व्रतजं कथितं मया ।
माहात्म्यं श्रवणान्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥ ६१ ॥

धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् ।
नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥ ६२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥