२५ विरोचनवधः

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् ।
न तृप्यामि कथां शृण्वन् गाणेशीं सर्वसिद्धिदाम् ॥ १ ॥

सूत उवाच ।

प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः ।
विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥ २ ॥

स शुक्रमुपसङ्गम्य प्रणम्य मुनिसत्तमम् ।
जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥ ३ ॥

विरोचन उवाच ।

दैत्या देवार्दिताः स्वामिंस्तिष्ठन्ति भयसङ्कुलाः ।
पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥ ४ ॥

शुक्र उवाच ।

आकृष्णेनेति मन्त्रेण सूर्यमाराधय प्रभुम् ।
तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥ ५ ॥

तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् ।
कामं वनं समाश्रित्य तताप परमं तपः ॥ ६ ॥

ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह ।
उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥ ७ ॥

दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ ।
वरं दातुं महातेजा विरोचनाश्रमं मुने ॥ ८ ॥

तमागतं समालोक्य ननाम ह विरोचनः ।
पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥ ९ ॥

तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः ।
वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥ १० ॥

विरोचन उवाच ।

सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर ।
चराचरमयेभ्यश्च राज्यं देहि त्रिलोकजम् ॥ ११ ॥

विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् ।
जगाद भावगम्भीरो वचनं जगदीश्वरः ॥ १२ ॥

भानुरुवाच ।
मस्तके धारयस्वैनं तेन मृत्युविवर्जितः ।
भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥ १३ ॥

परहस्तः स्पृशेद्दैत्य मस्तके चेन् मरिष्यसि ।
यदा मुकुटहीने ते सावधानस्ततो भव ॥ १४ ॥

राज्यं त्रैलोक्यसम्भूतं दत्तं तुभ्यं मयाऽधुना ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ १५ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ भानुः सवार्थकोविदः ।
विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥ १६ ॥

ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि ।
दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥ १७ ॥

ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् ।
देवेन्द्रं वशमानाय्य विकुण्ठमगमत्ततः ॥ १८ ॥

विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् ।
जित्वा विष्णुं महादैत्यो हर्षितः सम्बभूव ह ॥ १९ ॥

विष्णुना संयुता देवाः पपलुर्वनमाश्रिताः ।
दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥ २० ॥

ततः स दैत्यपान् स्थाप्य विकुण्ठादिपदेषु च ।
आययौ नगरं स्वीयं दैत्यवृन्दसमन्वितः ॥ २१ ॥

ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् ।
बुभुजे पापसन्निष्ठः स्त्रीमांसादिषु लोलुपः ॥ २२ ॥

ततो बहौ गते काले दैत्येशैः प्रेरितः खलः ।
कर्म वर्णाश्रमस्थं स खण्डयामास भूतले ॥ २३ ॥

आसुरं कर्म सर्वत्र कारयामास मानवैः ।
ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥ २४ ॥

एवं बहौ गते काले देवाश्चोपोषणान्विताः ।
मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥ २५ ॥

[[५६]]

सोऽपि निःश्वस्य देवेशो विचारमकरोत् हृदि ।
नावाप दैत्यनाशार्थं स्वयं खिन्नो बभूव ह ॥ २६ ॥

ततो विघ्नेश्वरं विष्णुः सस्मार दुःखमुक्तये ।
गणेशकृपया तत्राऽऽजगाम देवलो मुनिः ॥ २७ ॥

तं प्रणम्यामराः सर्वे पप्रच्छुः कार्यसिद्धये ।
विरोचनवधाथार्य तानुवाच स हर्षितः ॥ २८ ॥

समीपे ह्यधुना प्राप्तो मासो माघः सुपुण्यदः ।
तत्र स्नानसमायुक्ताः सेवध्वं गणनायकम् ॥ २९ ॥

एवमुक्त्वा महायोगी देवलोऽकथयत् परम् ।
विधिं माघभवं सर्वं गाणेशपञ्चकात्मकम् ॥ ३० ॥

उपदिश्य व्रतं योगी ययौ स्वेच्छापरायणः ।
देवलः केशवा?द्यांश्च गणेशभजने रताः ॥ ३१ ॥

माघमासव्रतं चक्रुर्गाणेशं सर्वसिद्धिदम् ।
यथाशास्त्रं विधानेन विघ्नेशमभजत् परम् ॥ ३२ ॥

सम्पूर्णे तद्व्रते तत्र खवाणी तानुवाच ह ।
विष्णो स्त्रीवेषगो भूत्वा जहि दैत्यं महाबलम् ॥ ३३ ॥

गणेशं मनसि स्मृत्वा गच्छ तं दैत्यनायकम् ।
तवाधीनो महादैत्यो भविष्यति विरोचनः ॥ ३४ ॥

श्रुत्वाऽतिहर्षिता देवास्तुष्टुवुर्गणनायकम् ।
ततो विष्णुं महाभागाः प्रेरयामासुरादरात् ॥ ३५ ॥

गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलम् ।
चराचरं सदा हर्षयुक्तं कुरु जनार्दन ॥ ३६ ॥

तथेति तानुवाचाथ विष्णुर्ध्यात्वा गजाननम् ।
स्त्रीरूपः प्रययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३७ ॥

पुष्पवृक्षयुतायां स वाटिकायां स्थितोऽभवत् ।
तत्र नारायणं दैत्या ददृशुः स्त्रीस्वरूपिणम् ॥ ३८ ॥

मोहितास्तां समागम्य पप्रच्छुर्विनयान्विताः ।
काऽसि कस्याऽसि रम्भोरु किमर्थं त्वागता वद ॥ ३९ ॥

आज्ञां कुरु महाभागे वयं दासा न संशयः ।
तव पादस्य वामाक्षि पश्य सर्वान् शुचिस्मिते ॥ ४० ॥

एवं तेषां वचः श्रुत्वा तान् जगाद सुरूपिणी ।
हावभावसमायुक्ता मोहिनी मोहकारिणी ॥ ४१ ॥

मोहिन्युवाच ।
अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गता ।
मोहिनी सर्वविख्याता चरामि ह्यकुतोभया ॥ ४२ ॥

विश्वस्य नायकः कोऽपि भविष्यति महाबलः ।
वरिष्यामि पतिं दैत्या नान्यं गच्छत मा चिरम् ॥ ४३ ॥

तस्यास्तद्वचनं श्रुत्वा क्षुभिता दैत्यदानवाः ।
तेषु केचिद्ययुस्तत्र विरोचनं सदान्वितम् ॥ ४४ ॥

तं प्रणम्य महात्मानं जगुर्वृत्तान्तमादरात् ।
श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणात् ॥ ४५ ॥

गणेशमायया भ्रान्तः प्रययौ तामनिन्दिताम् ।
विरोचनो महादैत्यः संवृतस्तां ददर्श ह ॥ ४६ ॥

समागतं महादैत्यं दृष्ट्वा विष्णुः प्रहर्षितः ।
सस्मार गणपं चित्ते ध्यात्वा तत्रैव संस्थितः ॥ ४७ ॥

ततो गणेश्वरः साक्षात्तयोर्हृदि व्यवस्थितः ।
बुद्धिभेदं चकारासौ तादृशौ तौ बभूवतुः ॥ ४८ ॥

अथो विरोचनो देवीं दृष्ट्वा मोहयुतोऽभवत् ।
समीपे प्रययौ तस्या एकाकी हर्षसंयुतः ॥ ४९ ॥

तामुवाच महादैत्यो विनयेन समन्वितः ।
कृत्वा करपुटं विप्र महामायाप्रमोहितः ॥ ५० ॥

विरोचन उवाच ।

[[५७]]

ब्रह्मविष्णुमहेशेन्द्राद्या जिताः सचराचराः ।
मया ब्रह्माण्डनाथेन तव दासेन भामिनि ॥ ५१ ॥

तवाज्ञावशगोऽहं तु भविष्यामि निरन्तरम् ।
पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥ ५२ ॥

एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी ।
यदा वचोऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥ ५३ ॥

तथेति तां समागृह्य ययौ स्वगृहमुत्तमम् ।
तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥ ५४ ॥

नानाचातुर्यभावेन मोहयामास तं हरिः ।
मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥ ५५ ॥

तमुवाच महाभागा मोहिनी सर्वमोहिनी ।
अभ्यङ्गं कुरु नाथ त्वं मद्धस्तेन महामते ॥ ५६ ॥

पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत ।
ततो मां स्पृश दैत्येन्द्र तवाधीनां निरन्तरम् ॥ ५७ ॥

गणेशमायया भ्रान्तस्तामुवाच तथेति सः ।
सुवासितेन तैलेनाभ्यङ्गं कर्तुं समुद्यतः ॥ ५८ ॥

प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम् ।
मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥ ५९ ॥

हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा ।
मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥ ६० ॥

जय लम्बोदरेत्युक्त्वाऽन्तर्दधे सा तु मोहिनी ।
दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥ ६१ ॥

देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः ।
स्वस्वधर्मयुतान् लोकान् कारयामास माधवः ॥ ६२ ॥

एवं माघव्रतेनैव गाणेशेन जनार्दनः ।
जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥ ६३ ॥

इदं यः शृणुयात् जन्तुः पठेद्वा गणपं स्मरन् ।
स सर्वसुखसंयुक्तो भविष्यति निरन्तरम् ॥ ६४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पञ्चविंशोऽध्यायः ॥