२४ मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः ।
गणेशभजने प्रीतिसंयुक्तोऽभून्निरन्तरम् ॥ १ ॥

जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः ।
भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥ २ ॥

साधुरुवाच ।
गणेशप्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् ।
येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥ ३ ॥

भरद्वाज उवाच ।

मार्गशीर्षव्रतं पुत्र कुरु शीघ्रं समागतम् ।
तेन त्वं गणनाथस्य प्रियोऽत्यन्तं भविष्यसि ॥ ४ ॥

[[५३]]

एवमुक्त्वा भरद्वाजो कथयामास भावतः ।
विधियुक्तं व्रतं पूर्णं गणेशपञ्चकैर्युतम् ॥ ५ ॥

साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् ।
उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥ ६ ॥

समाप्तिसम्भवे तत्र दिवसे गणनायकः ।
द्विजरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥ ७ ॥

उवाच तं महाभागं पूजान्ते मुनिमुख्यकम् ।
भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥ ८ ॥

तथेति तं प्रणम्यादौ पुपूज भक्तिसंयुतः ।
भोजयामास भक्त्या स नानारसयुतान्नकैः ॥ ९ ॥

स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् ।
देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥ १० ॥

श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि ।
शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥ ११ ॥

तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो ।
स्वयं मां छलितुं यातो गणेशो द्विजरूपधृक् ॥ १२ ॥

पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् ।
गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥ १३ ॥

अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः ।
एवं विचार्य साधुः स दूर्वां चिक्षेप चान्धसि ॥ १४ ॥

गणेशं हृदि सञ्चिन्त्य पायसं गृह्य सत्वरः ।
दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥ १५ ॥

तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः ।
ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥ १६ ॥

तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया ।
वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥ १७ ॥

साधुरुवाच ।
यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय ।
गणेशस्त्वं न सन्देहो मम भाग्यात् समागतः ॥ १८ ॥

तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् ।
तं दृष्ट्वा हर्षितोऽत्यन्तं साधुः साधुगुणान्वितः ॥ १९ ॥

प्रणम्य पूजयामास तुष्टाव स कृताञ्जलिः ।
गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥ २० ॥

साधुरुवाच ।
हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने ।
अनाकाराय देवाय साकाराय नमो नमः ॥ २१ ॥

लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये ।
अनादये परेशाय गणेशाय नमो नमः ॥ २२ ॥

स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे ।
भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३ ॥

सर्वाकाराय सर्वादिपूज्याय परमात्मने ।
ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ २४ ॥

निराकाराय सर्वेषां पूज्याय परमप्रिय ।
विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ २५ ॥

मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः ।
ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ २६ ॥

शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे ।
चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ २७ ॥

अग्नये नैर्ऋतायैव कुबेराय धराधर ।
नराय पशुरूपाय नमो नागासुराय ते ॥ २८ ॥

[[५४]]

चराचरमयायैव चराचरविवर्जित ।
समाय सहजायैव स्वसंवेद्याय ते नमः ॥ २९ ॥

योगाय शान्तिनाथाय शान्तिदाय नमो नमः ।
किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ ३० ॥

धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् ।
वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ ३१ ॥

एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च ।
तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ ३२ ॥

श्रीगणेश उवाच ।

मदीया भक्तिरुग्रा ते भविष्यति महामते ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ३३ ॥

त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् ।
भविष्यति महाभाग पठतां शृण्वतां सदा ॥ ३४ ॥

सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् ।
नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ ३५ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ ३६ ॥

एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः ।
मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ ३७ ॥

अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् ।
मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ ३८ ॥

एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः ।
स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ ३९ ॥

समागते मार्गशीर्षे स्नानं कृत्वा महामतिः ।
गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ ४० ॥

ततः परं नृपस्यैव चकार सेवनं सदा ।
पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ ४१ ॥

तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ।
मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ ४२ ॥

तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् ।
एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ ४३ ॥

इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः ।
किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ ४४ ॥

इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः ।
पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ ४५ ॥

मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया ।
कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥

[[२५]]