२३ वज्रपञ्जरकथनम्

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

सङ्क्षेपेण महाभाग मार्गशीर्षभवं परम् ।
माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥ १ ॥

सूत उवाच ।

अन्धकासुरनामा वै दैत्यः परमदारुणः ।
जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥ २ ॥

देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः ।
वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥ ३ ॥

ततः शम्भुः परां चिन्तामापेदे मुनिभिः सह ।
जगाम सहसा तत्र नारदः करुणानिधिः ॥ ४ ॥

तं दृष्ट्वा हर्षसंयुक्ता देवाः शङ्करमुख्यकाः ।
पप्रच्छुस्ते महाभागं दुःखशोकयुताः परम् ॥ ५ ॥

श्रीशिव उवाच ।

अन्धकेन जिताः सर्वे वयं योगीन्द्रसत्तम ।
गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥ ६ ॥

कर्मनाशप्रभावेणोपोषणेन समन्वितान् ।
देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥ ७ ॥

अन्धकस्य वधोपायं वद त्वं सर्ववित्तम ।
करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥ ८ ॥

नारद उवाच ।

समीपे मार्गशीर्षस्तु सम्प्राप्तः सर्वसिद्धिदः ।
व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥ ९ ॥

ततो व्रतप्रभावेण जेष्यसे दैत्यपुङ्गवम् ।
अन्धकं नाम सन्देहो विघ्नेशस्य प्रसादतः ॥ १० ॥

एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥ ११ ॥

ततो देवगणैर्युक्तो मुनिभिः शङ्करः स्वयम् ।
मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥ १२ ॥

गणेशपञ्चकं नित्यं सेवयामास यत्नतः ।
उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥ १३ ॥

उपोषणसमायुक्तः शङ्करोऽहर्निशं परम् ।
तमेव चिन्तयन् भक्त्या ध्यानसंस्थो बभूव ह ॥ १४ ॥

एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तमान् ।
पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥ १५ ॥

ततो व्रतप्रभावेण सन्तुष्टो गणनायकः ।
आययौ शङ्करं तत्र वरदानार्थमादरात् ॥ १६ ॥

सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् ।
विघ्नेशं हर्षसंयुक्तः शङ्करः प्रणनाम तम् ॥ १७ ॥

शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् ।
तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसम्पुटः ॥ १८ ॥

श्रीशिव उवाच ।

गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये ।
परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९ ॥

मूषकवाहनायैव नमः परशुपाणये ।
दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २० ॥

शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते ।
सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१ ॥

हेरम्बाय महाविघ्नवारणाय गजानन ।
आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ २२ ॥

स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये ।
सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ २३ ॥

अनन्तोदरभावाय ब्रह्मणां पतये नमः ।
ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ २४ ॥

अनन्तविभवायैव भक्तपालनधर्मिणे ।
अभक्तानां विनाशाय खेलकाय नमो नमः ॥ २५ ॥

योगाय योगनाथाय योगिने योगदायिने ।
सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ २६ ॥

[[५१]]

किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् ।
योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ २७ ॥

धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक ।
दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ २८ ॥

सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् ।
आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ २९ ॥

एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः ।
तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ ३० ॥

श्रीगणेश उवाच ।

वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् ।
जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ ३१ ॥

भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् ।
यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ ३२ ॥

त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः ।
शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ ३३ ॥

भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् ।
भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ ३४ ॥

सूत उवाच ।

एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः ।
शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥ ३५ ॥

श्रीशिव उवाच ।

वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् ।
ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ ३६ ॥

श्रीगणेश उवाच ।

आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् ।
वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ ३७ ॥

त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् ।
नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ ३८ ॥

एवं ध्यात्वा गणेशानं मानसैरुपचारकैः ।
पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ ३९ ॥

बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ ४० ॥

देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ४१ ॥

महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४२ ॥

साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ४३ ॥

सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ४४ ॥

आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ४५ ॥

अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ४६ ॥

स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ ४७ ॥

अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ ४८ ॥

योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ४९ ॥

पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैर्ऋत्यां चिन्तामणिर्वरप्रदः ॥ ५० ॥

रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ ५१ ॥

उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ ५२ ॥

[[५२]]

यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
परशुपाशसंयुक्तो वरदाभयधारकः ॥ ५३ ॥

इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ ५४ ॥

य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ ५५ ॥

यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ ५६ ॥

त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ ५७ ॥

यः शृणोति गणेशस्य पञ्जरं वज्रसञ्ज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ ५८ ॥

धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ ५९ ॥

न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ ६० ॥

यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ ६१ ॥

लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् ।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ ६२ ॥

एवमुक्त्वा गणेशानोऽन्तर्दधे मुनिसत्तम ।
शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ ६३ ॥

लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः ।
सिद्धपञ्जरको भूत्वा ययावन्धकदैत्यपम् ॥ ६४ ॥

गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् ।
त्रिशूलेनान्धकं सोऽपि विव्याध गर्वसंयुतम् ॥ ६५ ॥

एवमन्धकदैत्येशं जित्वा शम्भुः प्रतापवान् ।
देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥ ६६ ॥

विश्वं स्वधर्मसंयुक्तं चकार शङ्करः स्वयम् ।
मार्गशीर्षव्रतेनैव पञ्जरेण समन्वितः ॥ ६७ ॥

इदमन्धकनाशाख्यं चरितं यः शृणोति वा ।
पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥ ६८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥