२२ नानानियमनिरूपणम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः ।
नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥ १ ॥

प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः ।
नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥ २ ॥

तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् ।
जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥ ३ ॥

अन्यः कैवर्तकस्तत्र तथा मन्दारकं मुने ।
पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥ ४ ॥

वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् ।
स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥ ५ ॥

शूद्रः श्यामलसञ्ज्ञस्तु दीपदानं चकार ह ।
गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥ ६ ॥

अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः ।
ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥ ७ ॥

कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह ।
गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥ ८ ॥

शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् ।
तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥ ९ ॥

एवं नाना जनास्तत्र गणेशप्रीतये मुने ।
स्नात्वा किञ्चित् स्वभावेनाभजंस्तं गणनायकम् ॥ १० ॥

रोगवन्ध्यादिदोषैस्ते मुक्ता जाता विशेषतः ।
समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥ ११ ॥

अन्ते स्वानन्दगाः सर्वे गणेशं नम्य तत्क्षणात् ।
ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥ १२ ॥

अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः ।
गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥ १३ ॥

नियमेन समा भक्तिर्न भूता न भविष्यति ।
किञ्चिन्नियमसंयुक्तो गणेशं वशमानयेत् ॥ १४ ॥

नियमेन कृतं किञ्चिद्गणेशप्रीतये नरैः ।
भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥ १५ ॥

कार्तिके स्नानमत्यन्तं मुख्यं विघ्नेशसेवनम् ।
यथाशक्ति कृतं सर्वसिद्धिदं प्रभविष्यति ॥ १६ ॥

करोति यः कार्तिके चेत् पञ्चकं गणपप्रियम् ।
स गणेशप्रियोऽत्यन्तं भवत्यत्र न संशयः ॥ १७ ॥

दानं होमादिकं किञ्चित् कार्तिकेऽनन्तपुण्यदम् ।
भवेत्तु गणनाथाय चार्पितं कर्मजं फलम् ॥ १८ ॥

बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् ।
गणेशाय कृतं नित्यं तदक्षय्यप्रदं भवेत् ॥ १९ ॥

इदं कार्तिकमासस्य माहात्म्यं कथितं मया ।
गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥ २० ॥

यः शृणोति नरो भक्त्या पठते भावसंयुतः ।
सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥ २१ ॥

अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः ।
तेषां लोकसुखं सर्वमन्ते भुञ्जन्ति निश्चितम् ॥ २२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥

[[५०]]