॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् ।
तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥ १ ॥
के के सिद्धिं गतास्तेषु गणेशभजनेन वै ।
तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥ २ ॥
सूत उवाच ।
अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा ।
तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥ ३ ॥
स्वशाखोक्तेन मार्गेण सन्ध्यादिकं समाचरेत् ।
वैदिकैस्तान्त्रिकैर्मन्त्रैः पूजयेद्गणनायकम् ॥ ४ ॥
पुराणसम्भवैर्वाऽपि यथोपचारसंयुतः ।
एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥ ५ ॥
हविष्यान्नं फलहारो निराहारोऽथवा पुनः ।
ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥ ६ ॥
पृथव्यां शयनकारी स सत्यावाङ् मौनधारकः ।
यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥ ७ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने ।
स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥ ८ ॥
स्त्रीणां व्रतमिदं पुण्यं साधवानां सुखप्रदम् ।
विधवानां विशेषेण परं मासात्मकं भवेत् ॥ ९ ॥
तेषु पञ्चकमानन्दाच्चरेन् मुख्यं सदा जनः ।
गणेशपूजनं विप्र भोजनं दीपदानकम् ॥ १० ॥
शमीमन्दारसेवां च प्रदक्षिणपरायणाम् ।
गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥ ११ ॥
[[४६]]
एवमादि गणेशस्य प्रियं नानाविधं चरेत् ।
सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥ १२ ॥
अन्यान् शम्भुमुखान् देवान् पूजयेन् मानवो मुने ।
स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥ १३ ॥
आवश्यकेन भावेन मासाः सेव्या इमे नरैः ।
धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥ १४ ॥
यं यमिच्छति तं तं वै लभते नात्र संशयः ।
मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥ १५ ॥
अत्रेतिहासमुख्यं ते कथयामि समासतः ।
मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥ १६ ॥
शङ्खासुरो महादैत्यो ब्रह्माण्डाधिपतिः पुरा ।
बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥ १७ ॥
ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः ।
वर्णसङ्करजं कर्म बभूवे सर्वमण्डले ॥ १८ ॥
ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः ।
विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥ १९ ॥
ततो विष्णुः स्वयं शम्भुं जगाम तान् विसृज्य सः ।
तं जगाद महाभागं विनयेन समन्वितः ॥ २० ॥
विष्णुरुवाच ।
शङ्खं वेदहरं शम्भो दुर्जयं देवतादिभिः ।
जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥ २१ ॥
श्रीशिव उवाच ।
समीपे कार्तिको मासो जनार्दन समागतः ।
तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥ २२ ॥
तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् ।
शङ्खासुरं न सन्देहो नान्यथा पुरुषोत्तम ॥ २३ ॥
श्रुत्वा तं शङ्करं नत्वा विष्णुः परपुरञ्जयः ।
गतो बदरिकारण्यं व्रतार्थं भक्तिसंयुतः ॥ २४ ॥
तत्रैकाक्षरमन्त्रस्य पुरश्चरणमुत्तमम् ।
चकार गणनाथं स तोषयामास यत्नतः ॥ २५ ॥
कार्तिके पञ्चकं सेव्यं गाणेशं सर्वसिद्धिदम् ।
मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥ २६ ॥
ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि ।
केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥ २७ ॥
तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि ।
मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥ २८ ॥
एतस्मिन्नन्तरे तत्र बभूवाऽऽकाशजां पराम् ।
वाणीं शुश्राव देवेशः केशवः परवीरहा ॥ २९ ॥
मात्स्यरूपेण शङ्खं तं जहि सर्वभयङ्करम् ।
मां स्मृत्वा नात्र सन्देहो विजयस्ते भविष्यति ॥ ३० ॥
ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः ।
घोरं युद्धं स कृत्वा तं जघान शङ्खमुल्बणम् ॥ ३१ ॥
साङ्गान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः ।
स्तुतः सम्पूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥ ३२ ॥
एवं कार्तिकमासे तु स्नानादिव्रततेजसा ।
हतः शङ्खासुरस्तेन विष्णुना मत्स्यरूपिणा ॥ ३३ ॥
अन्यच्च शृणु विपेन्द्र कथां पापप्रणाशिनीम् ।
कार्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥ ३४ ॥
पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः ।
स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥ ३५ ॥
जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् ।
पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥ ३६ ॥
[[४७]]
सोमदत्त उवाच ।
केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् ।
क्षणभङ्गुरदेहत्वात्तदुपायं वद प्रभो ॥ ३७ ॥
गौतम उवाच ।
समीपे कार्तिको मासः समायातो महामुने ।
व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥ ३८ ॥
एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् ।
स्थानं स्वस्याश्रमे सोऽपि तत्रारम्भं चकार ह ॥ ३९ ॥
एकनिष्ठः स्वभावेन परं गाणेशपञ्चकम् ।
सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥ ४० ॥
उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् ।
जजाप मन्त्रराजं स षडक्षरं शुभप्रदम् ॥ ४१ ॥
तत्र चित्रं समभवत् समाप्तिसम्भवे दिने ।
तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥ ४२ ॥
पूजायां संस्थितो विप्रः सोमदत्तो महायशाः ।
कार्तिक्यां पूर्णिमायां स एकासनविधौ रतः ॥ ४३ ॥
तत्र दूर्वाशमीमन्दारपुष्पाणि स्थितानि तु ।
अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥ ४४ ॥
सोमदत्तः स्वयं तत्र मौनवानासने स्थितः ।
नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥ ४५ ॥
ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् ।
लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥ ४६ ॥
अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः ।
दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥ ४७ ॥
ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः ।
शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥ ४८ ॥
स्वकण्ठे शस्त्रघातं स चकार गणनायकः ।
तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥ ४९ ॥
शमीमन्दारदूर्वादीन् गृह्य तस्मै ददौ पुनः ।
उवाच पूजय त्वं तु गणेशं हठतत्पर ॥ ५० ॥
दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः ।
नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥ ५१ ॥
सोमदत्त उवाच ।
त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा ।
समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥ ५२ ॥
न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् ।
निश्चयं मे दृढं दृष्ट्वा परीक्षार्थं समागतः ॥ ५३ ॥
दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् ।
सत्यं वद महाभाग तेन तृप्तो भवामि च ॥ ५४ ॥
ततो व्रतप्रभावेण भक्त्या नियमयुक्तया ।
सन्तुष्टो गणराजः स दर्शयामास स्वं वपुः ॥ ५५ ॥
चतुर्भुजं त्रिनेत्रं च शुण्डादण्डविराजितम् ।
सिद्धिबुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥ ५६ ॥
नानाभूषणशोभाढ्यं शेषनाभिधरं परम् ।
चिन्तामणिं मणिं हृत्स्थं लम्बोदरैकदन्तकम् ॥ ५७ ॥
मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् ।
ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥ ५८ ॥
सरोमाञ्चो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् ।
न विवेद विधिं किञ्चिद्देहातीत इवाबभौ ॥ ५९ ॥
ततो हर्षं समागृह्य पूजयामास तं प्रभुम् ।
पुनः प्रणम्य हरम्बं तुष्टाव स कृताञ्जलिः ॥ ६० ॥
सोमदत्त उवाच ।
गणेशाय परेशाय सदा शान्तिप्रदायिने ।
योगिनां योगरूपाय हृदिस्थाय नमो नमः ॥ ६१ ॥
[[४८]]
विघ्नेशाय महाविघ्नविघ्नदाय परात्मने ।
विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥ ६२ ॥
अनादये महाकाल कालाय कालरूपिणे ।
अन्ते विहारयुक्तायादिनाथाय नमो नमः ॥ ६३ ॥
विनायकाय देवाय सर्वेषां नायकाय च ।
नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥ ६४ ॥
लम्बोदराय सर्वेषामुदरस्थाय ते नमः ।
अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥ ६५ ॥
आदिमध्यान्तहीनाय तदाकारस्वरूपिणे ।
स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ॥ ६६ ॥
सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे ।
सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥ ६७ ॥
बुद्धिपते सुबुद्धीनां दात्रे साधुजनप्रिय ।
दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥ ६८ ॥
सम्प्रज्ञातस्वरूपायासम्प्रज्ञातं महाशिरः ।
तयोर्योगे नराकार गजाकाराय ते नमः ॥ ६९ ॥
किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे ।
अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥ ७० ॥
धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् ।
कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥ ७१ ॥
धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् ।
तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥ ७२ ॥
भक्तिं त्वदीयपादेषु देहि मे द्विरदानन ।
नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥ ७३ ॥
तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ७४ ॥
गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने ।
भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥ ७५ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥ ७६ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशः करुणानिधिः ।
सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥ ७७ ॥
तदादि स मुनिः ख्यातो बभूव गणपप्रियः ।
योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥ ७८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥
[[४९]]