२० वरप्रदानम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

ततो बहौ गते काले मासाः षट् तपसि स्थिताः ।
निराहारपराः सर्वे गणेशं समतोषयन् ॥ १ ॥

कार्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ ।
अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥ २ ॥

दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः ।
स्तुतः सम्पूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥ ३ ॥

गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च ।
ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकन्धराः ॥ ४ ॥

मासा ऊचुः ।
यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो ।
अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥ ५ ॥

तेनास्मत्कालसम्प्राप्तौ नरा यत्नपरायणाः ।
भविष्यन्ति विशेषेण सदा सत्कर्मकारिणः ॥ ६ ॥

तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक ।
त्वद्दासप्रवणांस्तद्वत् कर्मदोषविवर्जितान् ॥ ७ ॥

श्रीगणेश उवाच ।

अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम् ।
फलदं सम्मतं शास्त्रे मदीयवरदानतः ॥ ८ ॥

तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति ।
मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥ ९ ॥

तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् ।
तस्मात् कार्तिकिके मासे दशाधिकफलप्रदम् ॥ १० ॥

तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् ।
तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥ ११ ॥

तस्माद्दशाधिकं प्रोक्तं ढौण्ढे मासे फलप्रदम् ।
एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥ १२ ॥

अधिमासस्य देवोऽहं ढुण्ढिराजो न संशयः ।
ढौण्ढमासः समाख्यातो मया नाम्नाऽधुना महान् ॥ १३ ॥

[[४५]]

?अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः ।
नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥ १४ ॥

उपासते श्रावणे मां नानायत्नपरायणाः ।
उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥ १५ ॥

समारभ्य प्रतिपदं चतुर्थ्यन्तं मदर्चनम् ।
चतुर्थ्यां जागरं कुर्यात् पञ्चम्यां पारणं तथा ॥ १६ ॥

यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् ।
स सर्वसुखमाभोज्यान्ते स्वानन्दमवाप्नुयात् ॥ १७ ॥

मुख्यं पञ्चसु वै स्नानं मासेषु सर्वभावतः ।
प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥ १८ ॥

एवं मासा भवन्तोऽपि भविष्यन्ति जनैः सदा ।
सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥ १९ ॥

मयि भक्तियुता नित्यं सर्वदेवपरायणाः ।
भविष्यथ मदीयेन वरेणैव विशेषतः ॥ २० ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो भक्तवत्सलः ।
मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥ २१ ॥

शृणोति मासचारित्रमेवं पठति यो नरः ।
स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥ २२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥