॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
मासानां चरितं ब्रूहि सूत सर्वार्थकोविद ।
मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥ १ ॥
सूत उवाच ।
ब्रह्मणोऽङ्गसमुत्पन्नः संवत्सरः प्रतापवान् ।
मासा द्वादश तस्याऽङ्गात् समुत्पन्नाः पुरा मुने ॥ २ ॥
छायाया मलमासश्च समुत्पन्नः शुभप्रदः ।
सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥ ३ ॥
षडक्षरं महामन्त्रं जजाप ब्रह्मणोदितम् ।
गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥ ४ ॥
एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् ।
तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥ ५ ॥
उवाच तं समाधिस्थं संवत्सरं गजाननः ।
समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥ ६ ॥
गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् ।
समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥ ७ ॥
समासः पूजयामास यथाविध्युपचारतः ।
पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ ८ ॥
समाससंवत्सर उवाच ।
नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये ।
हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ ९ ॥
शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने ।
लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ १० ॥
अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः ।
कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ ११ ॥
आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित ।
गणेशाय गणानां ते चालकाय नमो नमः ॥ १२ ॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ १३ ॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ १४ ॥
अनन्तविभवायैवानन्तमायाप्रचारिणे ।
मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ १५ ॥
शान्तियोगमयायैव शान्तियोगधराय ते ।
शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ १६ ॥
किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे ।
योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ १७ ॥
अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो ।
वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ १८ ॥
भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् ।
कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ १९ ॥
कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् ।
साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ २० ॥
एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः ।
तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ २१ ॥
श्रीगणेश उवाच ।
यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै ।
सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ २२ ॥
सूर्येण संयुताः सर्वे द्वादशदेहधारिणा ।
फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ २३ ॥
ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः ।
अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ २४ ॥
याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् ।
भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ २५ ॥
आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि ।
देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ २६ ॥
[[४४]]
सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २७ ॥
त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २८ ॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठतां शृण्वतां नॄणां भावपूरं न संशयः ॥ २९ ॥
कालदोषभवं पापं कालस्योल्लङ्घनादिकम् ।
हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ ३० ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः ।
संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ ३१ ॥
मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे ।
कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ ३२ ॥
एतत् संवत्सरस्यैव समासस्य चरित्रकम् ।
यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥