॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
कृते कलिमुखाश्चैव युगाः सन्ति महर्षयः ।
कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥ १ ॥
तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा ।
पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥ २ ॥
शापादिकं नराणां तु सफलं कृतभावतः ।
भवते पापिनामेव यथा सुकृतिनां वचः ॥ ३ ॥
तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुतः ।
न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥ ४ ॥
तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः ।
वर्तन्ते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥ ५ ॥
पापिनां सुकृतिनां चायुरादि तत् समं भवेत् ।
त्रेतायुगप्रमाणेन ज्ञातव्यं द्विजसत्तम ॥ ६ ॥
द्वापारे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः ।
तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥ ७ ॥
आयुरादि नराणां च द्वापरेण समं भवेत् ।
नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥ ८ ॥
कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः ।
वर्तन्ते तेन कर्मादिफलं कलिसमं भवेत् ॥ ९ ॥
आयुरादि महर्षे तु कलितुल्यं न संशयः ।
सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥ १० ॥
अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् ।
भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥ ११ ॥
योगः शान्तिप्रदः प्रोक्तः स एव मुनिसत्तम ।
चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥ १२ ॥
कृते कर्म कृतं चैकफलदं शास्त्रसम्मते ।
त्रेतायां तद्दशाधिक्यं द्वापारे तु शताधिकम् ॥ १३ ॥
[[४२]]
सहस्रगुणसंयुक्तं भवते सर्वमञ्जसा ।
कलौ युगेन सन्देहो गणेशवरदानतः ॥ १४ ॥
कलौ तावन्मयं प्रोक्तं विकर्मकृतमञ्जसा ।
फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥ १५ ॥
त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् ।
युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥ १६ ॥
एवं नानाप्रमाणानि युगेषु कथितानि च ।
कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥ १७ ॥
अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् ।
यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥ १८ ॥
आसुरेण स्वभावेन कलिना सर्वमावृतम् ।
फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥ १९ ॥
कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि ।
सर्वादावयुतं कुर्यात् गायत्रीसम्भवं जपम् ॥ २० ॥
हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः ।
ब्रह्मचर्ययुतो जन्तुः सत्यभाषी जितेन्द्रियः ॥ २१ ॥
शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् ।
मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥ २२ ॥
यदा देहं समागृह्य नरः कर्मपरायणः ।
मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥ २३ ॥
एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः ।
गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥ २४ ॥
ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् ।
स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥ २५ ॥
यथोक्तविधिना कर्म कृतं येन महात्मना ।
?चतुर्गणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥ २६ ॥
आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः ।
कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥ २७ ॥
केवलासुरभावेन सत्कर्म मानवेन च ।
सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥ २८ ॥
सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् ।
सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥ २९ ॥
एवं सर्वं समाख्यातं युगधर्मरहस्यकम् ।
सङ्क्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥ ३० ॥
शृणुयादिदमाख्यानं युगानां मानवः परम् ।
पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥ ३१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥
[[४३]]