॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत सूत महाभाग कथां पापापहारिणीम् ।
वदसे योगदां पूर्णां श्रुत्वा तृष्टा वयं द्विज ॥ १ ॥
पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः ।
महासंशयसंयुक्ता वयं जाता विशेषतः ॥ २ ॥
कृते स्त्रीणां च स्वातन्त्र्यं त्रेतायां ब्रह्मणा कृतम् ।
द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥ ३ ॥
गौतमेन कथं शप्ता कृतेऽहल्या महासती ।
इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥ ४ ॥
अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते ।
एकवर्णाऽऽश्रमस्थास्ते भवन् सङ्कीर्तिता जनाः ॥ ५ ॥
त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः ।
ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥ ६ ॥
सौरचान्द्रभवौ विप्र द्वापरान्ते स्थितौ नृपौ ।
पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥ ७ ॥
वर्णाश्रमविभागेन वर्तयिष्यन्ति मानवाः ।
किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥ ८ ॥
युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः ।
वर्णाश्रमविभागस्थास्तत्र सिद्धिः कुतोऽभवत् ॥ ९ ॥
कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् ।
नरः सर्वत्र सम्प्रोक्तं कथं तच्च भविष्यति ॥ १० ॥
अतो युगभवं सर्वं कथयस्व विशेषतः ।
यथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥ ११ ॥
सूत उवाच ।
युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ।
तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥ १२ ॥
तुरीयदेहगं केचित् कृतं वदन्ति निश्चितम् ।
त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥ १३ ॥
तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः ।
माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥ १४ ॥
तस्यां नानाविधायां न व्यभिचारो भविष्यति ।
यत्र तत्र स्थितं स्वस्य पतिं पश्यति सा शुभा ॥ १५ ॥
सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः ।
तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥ १६ ॥
भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः ।
तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥ १७ ॥
तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना ।
श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥ १८ ॥
अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः ।
नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥ १९ ॥
ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदन्ति च ।
आचारं द्वापरं देहविषयं कलिमेव च ॥ २० ॥
तत्र ध्याने महाभागा एकवर्णाश्रमो भवेत् ।
ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥ २१ ॥
यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् ।
अतो वर्णाश्रमाचारस्त्रेतायां परिकीर्तितः ॥ २२ ॥
एवं नाना विचारेण मुनिभिः कथितं पुरा ।
न तत्र संशयः कार्यो जनैस्तदर्थयुक्तिभिः ॥ २३ ॥
अधुना युगमाहात्म्यं कथयामि समासतः ।
कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥ २४ ॥
आदौ ब्रह्माऽसृजत् कालं धर्माधर्मव्यवस्थया ।
स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥ २५ ॥
कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः ।
तेभ्यः सिद्धिप्रदानार्थं ददौ मन्त्रान् प्रजापतिः ॥ २६ ॥
[[४०]]
तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् ।
गणेशं चेतसि ध्यात्वा जेपुर्मन्त्रं युगानि च ॥ २७ ॥
निराहारप्रभावेण परितुष्टो गजाननः ।
भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥ २८ ॥
तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् ।
पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥ २९ ॥
युगपुरुषा ऊचुः ।
गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
नानारूपभृते तुभ्यं हेरम्बाय नमो नमः ॥ ३० ॥
भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च ।
परेशाय पराणां ते पराय च नमो नमः ॥ ३१ ॥
स्वानन्दवासिने तुभ्यं नानामायाप्रचारिणे ।
सदा स्वानदम्भोगस्थ पालकाय नमो नमः ॥ ३२ ॥
अमेयशक्तये तुभ्यं नानामायाप्रहारिणे ।
मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥ ३३ ॥
लम्बोदराय लोकानामुदरस्थाय ते नमः ।
एकदन्ताय शूर्पाकारकर्णाय नमो नमः ॥ ३४ ॥
त्रिनेत्राय गजाकारवक्त्राय परमात्मने ।
चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥ ३५ ॥
देवाय देवरूपाय देवदेवाय ते नमः ।
देवदेवेशकायैव विघ्नेशाय नमो नमः ॥ ३६ ॥
सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः ।
सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥ ३७ ॥
ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च ।
ब्रह्मभ्यो ब्रह्मदात्रे ते शान्तिस्थाय नमो नमाः ॥ ३८ ॥
किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः ।
योगरूपा भवन्ति स्म ततस्ते नमनं शुभम् ॥ ३९ ॥
एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज ।
स तानुवाच प्रीतात्मा भक्तवात्सल्ययन्त्रितः ॥ ४० ॥
श्रीगणेश उवाच ।
स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति ।
पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥ ४१ ॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रतोषितः ।
भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥ ४२ ॥
वरान् ब्रूत महाभागा ददामि मनसेप्सितान् ।
तपसा स्तोत्रमुख्येन तुष्टो भक्त्या विशेषतः ॥ ४३ ॥
युगा ऊचुः ।
यथा संरचिता देव गजानन वयं त्वया ।
सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥ ४४ ॥
कृत उवाच ।
सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् ।
स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥ ४५ ॥
त्रेतोवाच ।
भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् ।
तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥ ४६ ॥
द्वापर उवाच ।
भुक्तिसौख्ययुतं मां त्वं कुरु धर्मपरायणम् ।
भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥ ४७ ॥
कलिरुवाच ।
तामसं देहभोगार्थमुद्यतं सततं प्रभो ।
विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥ ४८ ॥
पुनस्ते तं वदन्ति स्म युगा हर्षसमन्विताः ।
एकैकाश्रितभावेन भो कुरुष्व निरन्तरम् ॥ ४९ ॥
तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह ।
मेघगम्भीरया वाचा सर्वेभ्यः सुखदायकः ॥ ५० ॥
श्रीगणेश उवाच ।
लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति ।
शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥ ५१ ॥
यदा त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् ।
सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥ ५२ ॥
[[४१]]
अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः ।
चरिष्यति न सन्देहः परस्परप्रवेशनात् ॥ ५३ ॥
द्वापरे समनुप्राप्ते शतांशेन भविष्यति ।
कलिः सहस्रभागात्त्रेतायुतांशं कृतं भवेत् ॥ ५४ ॥
कलौ शतांशरूपेण द्वापरः प्रभविष्यति ।
सहस्रभागात्त्रेता च लक्षांशेन कृतं भवेत् ॥ ५५ ॥
धर्माऽधर्माविचारेण मोहदः स कलिः स्मृतः ।
धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥ ५६ ॥
यशाः प्रिया स्वधर्मस्थास्त्रेता सर्वत्र सम्मता ।
मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥ ५७ ॥
एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः ।
मां ज्ञात्वा बन्धहीनाश्च वाञ्छितार्थप्रदायकाः ॥ ५८ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः ।
युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥ ५९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥