॥ श्रीगणेशाय नमः ॥
शिव उवाच ।
वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः ।
प्रार्थयिष्यन्ति विघ्नेशमुपोषणपरायणाः ॥ १ ॥
नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः ।
करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥ २ ॥
समागतं गणेशानं धूम्रवर्णधरं प्रभुम् ।
द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥ ३ ॥
नानापुष्पमयीं मालां दधानं गन्धचर्चितम् ।
दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥ ४ ॥
नमस्ते धूम्रवर्णाय नानाखेलकराय च ।
अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ ५ ॥
अनाथानां प्रणाथाय नाथनाथाय ते नमः ।
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६ ॥
सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे ।
योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ ७ ॥
नरकुञ्जररूपाय धूम्रवर्णधराय च ।
द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ ८ ॥
खड्गचर्मधरायैव नाना चन्दनचर्चित ।
नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ ९ ॥
पूर्णाय पूर्णरूपाय गणेशाय परात्मने ।
धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ १० ॥
धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया ।
नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ ११ ॥
बुद्धमायासहायेन कलिना निर्जिता वयम् ।
विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ १२ ॥
सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः ।
क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ १३ ॥
ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः ।
तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ १४ ॥
ततो दशसहस्रेण जिता विष्णुशिवादयः ।
कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ १५ ॥
कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् ।
विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ १६ ॥
त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् ।
देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ १७ ॥
न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः ।
छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ १८ ॥
तव चिन्तनभावेन वयं सर्वे पराजिताः ।
कलिना देवदेवेश उपोषणयुताः कृताः ॥ १९ ॥
अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप ।
तं हनिष्यति वेगेन कलिः परमदारुणः ॥ २० ॥
नष्टे धर्मे गणाधीश अधर्मः केवलो महान् ।
भविष्यति पुनर्धर्मं किं ?स्रक्ष्यसि च देवप ॥ २१ ॥
अतो लेशमयं धर्मं रक्षस्व गणनायक ।
नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ २२ ॥
रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन ।
मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ २३ ॥
एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः ।
रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ २४ ॥
धूम्रवर्ण उवाच ।
मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् ।
सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ २५ ॥
भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् ।
पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ २६ ॥
धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् ।
पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ २७ ॥
एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् ।
निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ २८ ॥
[[३८]]
नानावाहनगां पूर्णतेजोयुक्तां महर्षयः ।
तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ २९ ॥
म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् ।
स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ ३० ॥
तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः ।
भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ ३१ ॥
कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः ।
गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ ३२ ॥
ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः ।
देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ ३३ ॥
तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् ।
ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ ३४ ॥
कलिरुवाच ।
धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक ।
नानारूपधरायैव विघ्नेशाय नमो नमः ॥ ३५ ॥
अनन्तपादहस्तायानन्तबाहुधराय ते ।
अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ ३६ ॥
हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ ३७ ॥
आदिमध्यान्तहीनायादिमध्यान्तभयाय ते ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ३८ ॥
मायाहीनाय मायाया आधाराय परात्मने ।
मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ ३९ ॥
कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ४० ॥
सहजाय नमस्तुभ्यं स्वानन्दाय समाधये ।
योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ ४१ ॥
कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो ।
वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ ४२ ॥
रक्ष मां गणनाथ त्वं दासं शरणमागतम् ।
अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ ४३ ॥
एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह ।
तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ ४४ ॥
धूम्रवर्ण उवाच ।
मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन ।
शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥ ४५ ॥
स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् ।
पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥ ४६ ॥
अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् ।
दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ ४७ ॥
तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः ।
कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ ४८ ॥
तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् ।
धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ ४९ ॥
पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् ।
स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ ५० ॥
धूम्रवर्णावतारस्य चरितं कथितं मया ।
सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥
[[३९]]