१५ बुद्धावतारवर्णनम्

॥ श्रीगणेशाय नमः ॥

सनकाद्या ऊचुः ।
श्रुत्वा त्वद्वदनाम्भोजात् कथाममृतरूपिणीम् ।
जन्ममृत्युहरां पूर्णां सर्वसौख्यकरीं शिव ॥ १ ॥

गाणेशानीं न तृप्ता वै वयं वद महामते ।
पुनर्गणपतेः सौम्यां कथामवतारजां पराम् ॥ २ ॥

श्रीशिव उवाच ।

कलिप्रवृत्तिकामार्थं ब्रह्मा विष्णुं ययौ पुरा ।
तुष्टाव तं रमानाथं जगाद स्वप्रयोजनम् ॥ ३ ॥

ब्रह्मोवाच ।
कलिं पापस्वरूपं च सृजामि स्म जनार्दन ।
न तं जनाः प्रहर्षेण मानयिष्यन्ति सर्वदा ॥ ४ ॥

द्वापरान्ते कलिः प्रोक्तस्तस्य कालोऽधुनाऽऽगतः ।
तं प्रवर्तय देवेश त्वं स्मृतः सर्वपालकः ॥ ५ ॥

ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाच ह ।
पापरूपं महाघोरं नाभिनन्दाम्यहं कलिम् ॥ ६ ॥

धर्मपालनभावार्थमवतारं करोम्यहम् ।
धर्मनाशकरं पापं कलिं नैवाभि?नन्दये ॥ ७ ॥

ततस्तं केशवं देवं जगाद चतुराननः ।
बुद्धावतारभृत्त्वं वै कथितोऽसि जनार्दन ॥ ८ ॥

अवतारचरित्रं ते कलिप्रवर्तकं प्रभो ।
पश्य ?पौराणिकीं गाथां स्वधर्मस्थां त्वदाश्रिताम् ॥ ९ ॥

ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमथोऽब्रवीत् ।
विष्णुस्तथेति दुःखेन ब्रह्मा स्वभवनं ययौ ॥ १० ॥

ततः स भगवांस्तत्र तताप तप उत्तमम् ।
षडक्षरेण मन्त्रेण ध्यात्वा हृदि गजाननम् ॥ ११ ॥

दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ।
तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः ॥ १२ ॥

तमागतं समालोक्य तुष्टावाऽऽपूज्य विघ्नपम् ।
हेरम्बोपनिषत्तत्त्वैर्भक्त्या नम्रात्मकन्धरः ॥ १३ ॥

ततो गजाननस्तुष्टस्तं जगाद कृपान्वितः ।
वरान् वृणु महाभाग यांस्ते चित्ते स्थिरान् परान् ॥ १४ ॥

[[३५]]

गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीत् ।
कृताञ्जलिः प्रणम्यैव गणेशं सर्वसिद्धिदम् ॥ १५ ॥

श्रीविष्णुरुवाच ।
भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीम् ।
बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे ॥ १६ ॥

धर्मसंस्थापनं नित्यं करोमि गणनायक ।
धर्मलोपार्थमेवाहं त्वया बुद्धः प्रकीर्तितः ॥ १७ ॥

एतदेव विरुद्धं मे प्राप्तं ढुण्ढे दयानिधे ।
तदर्थं शरणं नाथ यातोऽहं ते पदस्य च ॥ १८ ॥

अतो मां रक्ष विघ्नेश विरुद्धाचरणात् प्रभो ।
विनायकस्त्वमेको वै कुरु मां धर्मपालकम् ॥ १९ ॥

श्रीगणेश उवाच ।

मा भयं कुरु विष्णो त्वं धर्मयुक्तो भविष्यसि ।
कलिप्रवर्तने दोषो न ते क्वापि महात्मनः ॥ २० ॥

मया चतुर्युगाः खेलाद्रचिताः क्रमकारणात् ।
वरदानेन मे सर्वे स्वस्वकालयुता बभुः ॥ २१ ॥

कलिस्तेषु महापापी मया संस्थापितोऽभवत् ।
मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादरात् ॥ २२ ॥

अहङ्कारं विभो त्यक्त्वा कर्ताहमिति चित्तगम् ।
समर्प्य मयि कर्माणि कुरु कर्म यथातथम् ॥ २३ ॥

चित्ते चिन्तामणिं पश्य तदिच्छावशगं जगत् ।
ब्रह्म नानाविधं तद्वत्तत्र कस्त्वं विचारय ॥ २४ ॥

वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता ।
तस्या आज्ञां प्रपाल्यैव वर्तितव्यं तु जन्तुभिः ॥ २५ ॥

प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परम् ।
सर्वेषां नात्र सन्देहो जीवानामीशभाविनाम् ॥ २६ ॥

कलिखेलकरः सोऽपि गणेशो धूम्रवर्णकः ।
चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थतः ॥ २७ ॥

एवं धार्य महाविष्णो मदाज्ञावशगो भव ।
कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि ॥ २८ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
विष्णुर्हर्षसमायुक्तो बुद्धोऽभूच्च महर्षयः ॥ २९ ॥

कृतं तेन महच्छास्त्रं बौद्धं मोहप्रदायकम् ।
कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् ॥ ३० ॥

सनकाद्या ऊचुः ।
कीदृशं बौद्धशास्त्रं तद्वद सर्वज्ञ ते नमः ।
ज्ञात्वा मोहविहीनास्तज्जना भवन्ति नित्यदा ॥ ३१ ॥

श्रीशिव उवाच ।

शृणुध्वं मुनयः सर्वे बौद्धं नरकदायकम् ।
वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदम् ॥ ३२ ॥

स्वयं बुद्धिपतिः साक्षाद् हृदि तिष्ठति देहिनाम् ।
ब्रह्मणामीश्वराणां च पञ्चचित्तप्रचालकः ॥ ३३ ॥

स विनायक इत्युक्तः सर्वेषां नायको मतः ।
नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः ॥ ३४ ॥

तदिच्छया स्वयं ब्रह्म नानारूपधरं बभौ ।
नानाक्रीडासमायुक्तं नानामायाबलाश्रितम् ॥ ३५ ॥

तत्र पापादिकं नास्ति न पुष्पादिकमञ्जसा ।
ज्ञानाज्ञानसमानैश्च तुर्यं वै नात्र संशयः ॥ ३६ ॥

न स्वर्गप्राप्तिदं कर्म ब्रह्मणो नारकं कथम् ।
भ्रान्तिदं सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेत् ॥ ३७ ॥

हृदि बुद्धिप्रदातारं सर्वेषां खेलकारकम् ।
तं ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः ॥ ३८ ॥

चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः ।
न वर्णाश्रमधर्मैः स शरीरं पीडयेत् कदा ॥ ३९ ॥

[[३६]]

देहो भोगार्थमानन्दाद्रचितस्तेन ब्रह्मणा ।
नानायत्नैः शरीरं तत् पोषणीयं निरन्तरम् ॥ ४० ॥

शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् ।
तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥ ४१ ॥

अहं ब्रह्मेति सन्धार्य सदा स्वेच्छापरो भवेत् ।
पापपुण्यविहीनः स देहपोषणकारकः ॥ ४२ ॥

नानापदार्थभावेषु मनस्तस्य प्रवर्तते ।
भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥ ४३ ॥

जीवहिंसामयं कर्म कर्तव्यं न कदाचन ।
तृणाङ्कुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥ ४४ ॥

देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः ।
न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥ ४५ ॥

ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा ।
सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥ ४६ ॥

यत्र चित्तस्य सम्प्रीतिर्जायते मुनिसत्तमाः ।
तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥ ४७ ॥

एवं नानामतैर्युक्तं शास्त्रं बौद्धं महर्षयः ।
ज्ञातव्यं कलिदोषैश्च युक्तं नरकदं भवेत् ॥ ४८ ॥

वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् ।
अहिंसा परमो भावी ह्येतद्बौद्धरहस्यकम् ॥ ४९ ॥

सर्वान् सम्मोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः ।
संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥ ५० ॥

गणेशध्यानसंयुक्तः समर्प्य ढुण्ढये कृतम् ।
कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥ ५१ ॥

तथापि पूजया हीनो बभूवे बुद्धरूपधृक् ।
विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥ ५२ ॥

कलिप्रान्ते दुराचारा बौद्धमाया विमोहिताः ।
वर्णाश्रमपरिभ्रष्टा भविष्यन्ति गृहे गृहे ॥ ५३ ॥

लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः ।
अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥ ५४ ॥

ततो बुद्धः स्वयं ढुण्ढिं परं ध्यात्वा तपोन्वितः ।
प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥ ५५ ॥

ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति ।
धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥ ५६ ॥

हृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः ।
अन्तर्धानं स्वयं कृत्वा स्वमहिम्नि स्थितो भवेत् ॥ ५७ ॥

इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः ।
पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पञ्चदशोऽध्यायः ॥

[[३७]]