१४ बाणासुरवर्णसम्भवचरितम्

॥ श्रीगणेशाय नमः ॥

श्रीशिव उवाच ।

कृपया वरदानेन गणेशभजनेन च ।
बुद्धिभेदः शिवस्यापि बभूव सर्वसंयुतः ॥ १ ॥

ततो गिरिसुतायुक्तः शङ्करः स्कन्दमुख्यकैः ।
गणैः समाययौ सद्यो बाणस्य नगरं पुनः ॥ २ ॥

तमागतं समाज्ञाय बाणो हर्षसमन्वितः ।
ध्यात्वा गजाननं देवं ययौ शङ्करसन्निधिम् ॥ ३ ॥

प्रणनाम स साष्टाङ्गं शिवं गणसमन्वितम् ।
रुरोद पूजयित्वा तं क्षमस्वेति जगाद सः ॥ ४ ॥

ततस्तं शङ्करो भक्तं समुत्थाप्य प्रसस्वजे ।
जगाद मधुरं वाक्यं हर्षयन् दानवाधिपम् ॥ ५ ॥

श्रीशिव उवाच ।

मा कुरुष्व वृथा चिन्तां सन्तुष्टोऽहं समागतः ।
वरान् वृणु महाभाग दास्यामि बलिनन्दन ॥ ६ ॥

बाणासुर उवाच ।

तव भक्तिं स्थिरां देहि वियोगस्ते न मे क्वचित् ।
भवेत्तथा महादेव कुरुष्व शिव सर्वदा ॥ ७ ॥

तथेत्युवाच शम्भुस्तं तस्थौ तन्नगरे सदा ।
ततस्तस्मात् सुता जज्ञे सर्वलक्षणसंयुता ॥ ८ ॥

उषानाम्नीं महाभागामुपयेमेऽनिरुद्धकः ।
तां स्वप्ने सा शुशोचैव तदर्थं कामपीडिता ॥ ९ ॥

चित्रलेखा तमानीय ददौ तस्यै पतिं स्वकम् ।
मायया यादवान् सम्मोह्य मुमोद ततः परम् ॥ १० ॥

एकस्तम्भस्थितां तां स उपयेमेऽनिरुद्धकः ।
तया सम्मोहितोऽत्यन्तं रेमे हर्षसमन्वितः ॥ ११ ॥

यादवाः संहृतं रात्रौ दृष्ट्वा कामसुतं दृढम् ।
शुशुचुः परमोद्विग्ना न लेभुस्तद्गतिं च ते ॥ १२ ॥

प्रद्युम्नेन गणाधीशः प्रार्थितस्तपसा परः ।
तस्य प्रसादयोगेन नारदस्तत्र चाययौ ॥ १३ ॥

तेन सङ्कथितं सर्वं चेष्टितं कामपुत्रजम् ।
श्रुत्वा संहर्षिताः सर्वे यादवाः प्रबभूविरे ॥ १४ ॥

तत ईश्वरसंयुक्तं बाणं जेतुं मनो दधे ।
कृष्णो रामेण संयुक्तो यादवैः परमद्युतिः ॥ १५ ॥

शङ्करस्य भयेनैव भीतं तं प्रत्युवाच ह ।
उद्धवः कुरु कृष्ण त्वं गणेशाराधनं परम् ॥ १६ ॥

तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः ।
शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति ॥ १७ ॥

तत एकाक्षरस्यैव पुरश्चरणमाकरोत् ।
कृष्णो गणपतिं ध्यात्वा यथाशास्त्रं विधानतः ॥ १८ ॥

यादवैः प्रययौ तत्र यत्र बाणः स्थितोऽभवत् ।
शङ्खं दध्मौ ततः सोऽपि स शिवो योद्धुमाययौ ॥ १९ ॥

ततः शिवो ददौ तस्मै कवचं गणपस्य च ।
सामवेदभवं शुद्धं बाणाय खेदसंयुतः ॥ २० ॥

शिवशप्तासुरेणात्र हस्तच्छेदस्य कारणात् ।
कृष्णः संयुयुधे तेन दैत्येन्द्रेण महाबलः ॥ २१ ॥

खिन्नं बाणं समालोक्य शङ्करो योद्धुमाययौ ।
कृष्णेन तं समालोक्य कृष्णः सस्मार विघ्नपम् ॥ २२ ॥

महायुद्धं तयोरासीत् त्रिलोकीनाशसन्निभम् ।
शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ॥ २३ ॥

ततो जृम्भास्त्रवेगेन मोहयित्वा सदाशिवम् ।
कृष्णश्चक्रं मुमोचैव बाणस्य भुजसञ्छिदे ॥ २४ ॥

चक्रेण क्षुरधारेण भुजाश्छिन्नाः समन्ततः ।
अवशिष्टौ भुजौ द्वौ च चक्रं सङ्कुठितं ततः ॥ २५ ॥

ततः खेदसमायुक्तः कृष्णः सस्मार विघ्नपम् ।
स्वयमाकाशवाणीं स शुश्राव गणपेरिताम् ॥ २६ ॥

[[३३]]

गणेशकवचेनैव रक्षितं शङ्करेण च ।
बाणं हन्तुं रणे कृष्ण न क्षमस्त्वं भविष्यसि ॥ २७ ॥

शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः ।
जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ ॥ २८ ॥

ततो हर्षेण संयुक्तः कृष्णश्चक्रं निवर्त्य च ।
संस्थितः संयुगे सद्यो जृम्भास्त्रैर्वर्जितोऽभवम् ॥ २९ ॥

ततो मयाऽतिबोधेन ज्ञातं विघ्नेशचेष्टितम् ।
कृष्णो ननाम मां तत्र स्वस्वजेऽहं जनार्दनम् ॥ ३० ॥

यथाविधि विवाहं स चकार दैत्यनायकः ।
अनिरुद्धाय पुत्रीं स्वां ददौ प्रेमपरिप्लुतः ॥ ३१ ॥

ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः ।
बाणो राज्यं परित्यज्य महाकालो बभूव ह ॥ ३२ ॥

कैलासे प्रातरुत्थाय पुपूज द्विरदाननम् ।
शमीमन्दारदूर्वादिरक्तपुष्पैर्विशेषतः ॥ ३३ ॥

सम्पूज्यादौ गणपतिं पश्चाच्छम्भुं महागणः ।
सदा ध्यानपरो भूत्वा तोषयामास तौ परौ ॥ ३४ ॥

शौनक उवाच ।

सूत विघ्नेश्वरस्यैव प्रियोऽत्यन्तं बभूव ह ।
रक्तवर्णः कथं तेन तुष्टो भवति सर्वपः ॥ ३५ ॥

रक्तवर्णः स्वयं साक्षाद्गणेशो ब्रह्मणां पतिः ।
रक्तवस्त्रधरो रक्तचन्दनेन विराजितः ॥ ३६ ॥

रक्तपुष्पधरः पूर्णः सिन्धुराङ्गविलेपनः ।
रक्तसागरखेली स वद कारणमुत्तमम् ॥ ३७ ॥

सर्ववर्णमयश्चायं कथमेकं समाश्रितः ।
तन्नः संशयदं साधो नुद सर्वज्ञसत्तम ॥ ३८ ॥

सूत उवाच ।

वर्णाः पञ्च समुद्भूताः सृष्ट्यादौ श्वेतशामलौ ।
रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा ॥ ३९ ॥

परस्परविभेदेन तथा सम्मीलनेन च ।
अनन्ता वर्णकाः प्रोक्ता जानीहि द्विजसत्तम ॥ ४० ॥

तैस्तपो गणनाथस्य कृतं घोरं तु पञ्चभिः ।
वर्षकेषु शते तान् स आययौ गणनायकः ॥ ४१ ॥

तं दृष्ट्वा प्रणताः सर्वे वर्णाः सन्तुष्टुवुः परम् ।
वरान् वव्रुः तथा विप्र स्वस्वशोभासमन्वितान् ॥ ४२ ॥

अन्ये गणेश्वरं ते तु जगुस्तं ब्रह्मनायकम् ।
अस्मदीयस्वरूपस्थो भव स्वामिन्नमोऽस्तु ते ॥ ४३ ॥

वयं तेन गणाध्यक्ष कृतकृत्या भवामहे ।
मायाबन्धनहीनास्त्वां भजाम?हे निरन्तरम् ॥ ४४ ॥

तथेति तानुवाचैव गणेशोऽन्तर्दधे ततः ।
वर्णा हर्षयुताः सर्वे स्वस्वकार्यरताः पुरा ॥ ४५ ॥

वर्णैः संशोभितं सर्वं नानाभेदैः समन्ततः ।
चराचरं विशेषेण वर्णयुक्तं बभूव ह ॥ ४६ ॥

काश्यपो गणनाथस्तु नीलवर्णाकृतिं धरः ।
मयूरेशस्तथा श्वेतवर्णयुक्तो बभूव ह ॥ ४७ ॥

वरेण्यस्य सुतो रक्तवर्णयुक्तो गजाननः ।
धूम्रवर्णस्तथा श्यामवर्णरूपधरो बभौ ॥ ४८ ॥

हरिद्रागणपः पीतवर्णाकृतिपरोऽभवत् ।
नानावताररूपैः स नानावर्णधरोऽभवत् ॥ ४९ ॥

एवं वरप्रदानेन वर्णाः सर्वे महामुने ।
गणेशाराधने सक्ताः स्वस्वकार्यपरायणाः ॥ ५० ॥

ततो रक्तेन वर्णेन पुनस्तप्तं तपो महत् ।
निराहारेण विप्रेश ध्यात्वा हृदि गजाननम् ॥ ५१ ॥

सहस्रवर्षे च गते गणपस्तं समाययौ ।
वरान् दातुं महाभागं स ननाम गणाधिपम् ॥ ५२ ॥

[[१५]]

पूजयित्वा प्रतुष्टाव रक्तवर्णः प्रहर्षितः ।
स्तोत्रैर्नानाविधैस्तं तु गाणेशैर्गणपप्रियैः ॥ ५३ ॥

ततः प्रसन्नभावेन विघ्नेशस्तमुवाच ह ।
वरान् वृणु महाभाग रक्तवर्ण हृदीप्सितान् ॥ ५४ ॥

रक्तवर्ण उवाच ।

रक्तवर्णस्वरूपस्थो भव त्वं गणनायक ।
सदा रक्तप्रियो नाथ नानावर्णेषु मानद ॥ ५५ ॥

तेनाऽहं सर्ववर्णेषु श्रेष्ठो भावी न संशयः ।
सततं कृतकृत्यश्च तव सन्निधिसंस्थितः ॥ ५६ ॥

तथेति तमथोक्त्वाऽसौ गणेशोऽन्तर्दधे स्वयम् ।
तदादि वेदशास्त्रेषु रक्तवस्तुप्रियोऽभवत् ॥ ५७ ॥

इदं बाणचरित्रं यः शृणुयाद्वर्णसम्भवम् ।
पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॥ ५८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवर्णसम्भवचरितं नाम चतुर्दशोऽध्यायः ॥