१३ बाणासुरवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

श्रीशिव उवाच ।

बलेः पुत्रोऽभवद्बाणो दैत्यः परमधार्मिकः ।
शिवभक्तः सदा साधुगुणयुक्तः प्रतापवान् ॥ १ ॥

बाल्यात् प्रारभ्य शम्भुं सोऽभजद्भावपरायणः ।
नान्यं देवं प्रजानाति स्वधर्मपालको बभौ ॥ २ ॥

शुक्रः पञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने ।
सविधिं शङ्करस्यैवादिदेश तपसे मतिम् ॥ ३ ॥

सोऽतपत्तप उग्रं मां ध्यात्वा मद्भक्तिभावितः ।
प्रगतेषु च वर्षेषु सहस्रे तोषितोऽभवम् ॥ ४ ॥

मुद्गल उवाच ।

जगाम वरदो बाणं शङ्करः करुणानिधिः ।
स तं तुष्टाव रौद्रैश्च स्तोत्रैः पूज्य यथाविधि ॥ ५ ॥

प्रसन्नो भगवान् प्राह वरान् वृणु महामते ।
दास्यामि तपसा तुष्टो भक्त्या चैवासुराधिप ॥ ६ ॥

बाणासुर उवाच ।

वरदोऽसि महादेव भक्ति देहि त्वयि स्थिराम् ।
शैवं मां कुरु देवेश नान्यदेवपरायणम् ॥ ७ ॥

बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतम् ।
न मत्समः प्रसङ्ग्रामे सम्भवेत् सचराचरे ॥ ८ ॥

तथेति तं महादेवो जगाद भक्तमुत्तमम् ।
ययौ स्वनगरं शुम्भुः पार्वत्या गणसंयुतः ॥ ९ ॥

ततो बाणासुरो दैत्यो जिग्ये वै विष्णुमुख्यकान् ।
सुरान् राज्यं चकाराऽसौ धर्मनिष्ठः स्वभावतः ॥ १० ॥

स्वर्गेषु देवपान् स्थाप्य पातालेषु महासुरान् ।
नागान् नरान् पृथिव्यां स राज्यं चकार धर्मतः ॥ ११ ॥

वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यपः ।
नित्यं कैलासगो भूत्वा पूजयच्छङ्करं प्रभुम् ॥ १२ ॥

तस्य धर्मप्रभावेण भक्त्या तुष्टः सदाशिवः ।
वासार्थमाययौ शम्भुर्नगरे तस्य पार्षदैः ॥ १३ ॥

ततः स शाम्भवे दैत्यो विचारमकरोत् हृदि ।
पञ्चायतनरूपेण शङ्करः प्रबभूव ह ॥ १४ ॥

एकनिष्ठतया शम्भुं भजिष्यामि विशेषतः ।
नान्यं जानामि देवेशं शङ्करादपरं कदा ॥ १५ ॥

पूजिते शङ्करे सर्वं पूजितं सचराचरम् ।
मया वेदविवादेषु तथा सङ्कथितं बुधैः ॥ १६ ॥

एकनिष्ठा समा भक्तिर्न भूता न भविष्यति ।
अतोऽहमेकनिष्ठातो भजिष्यामि सदाशिवम् ॥ १७ ॥

तत्राऽऽदौ गणराजश्च पूजनीयः प्रयत्नतः ।
कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ॥ १८ ॥

ब्राह्मणैर्गाणपत्यैर्यैस्तैः कृतं त्विदमादरात् ।
द्वितीये पूजिते देवे एकनिष्ठा कथं भवेत् ॥ १९ ॥

एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परम् ।
एकनिष्ठतया शम्भुं पूजयन्नित्यमादरात् ॥ २० ॥

एवं वर्षे गते पूर्णे शङ्करं पूज्य भक्तितः ।
शोणिते नगरे संस्थं स ननर्त पुरोऽसुरः ॥ २१ ॥

ततः प्रसन्नतां यातः शिवः कल्याणदायकः ।
जगाद तं वरं ब्रूहि महापाशुपताऽसुर ॥ २२ ॥

शिवस्य वचनं श्रुत्वा हर्षितो बलिनन्दनः ।
जगाद तं महादेवं प्रणिपत्यातिभक्तितः ॥ २३ ॥

बाणासुर उवाच ।

योद्धारं देहि देवेश सदृशं बलसंयुतम् ।
सहस्रभुजवीर्यस्य सहनेऽतिपराक्रमम् ॥ २४ ॥

तच्छ्रुत्वा कुपितः शम्भुर्ददौ शापं महात्मने ।
राज्यं भ्रष्टं भुजानां ते छेदश्चैव भविष्यति ॥ २५ ॥

वासुदेवेन सङ्ग्रामं करिष्यस्यसुराधम ।

[[३०]]

मत्तो वृणोषि किं दुष्ट भविष्यसि पराजितः ॥ २६ ॥

तच्छ्रुत्वा शोकसंयुक्तो बाणस्तं प्रणनाम ह ।
पुनः स्वगृहमागत्य काव्यं पूज्य जगाद सः ॥ २७ ॥

शिवस्तं त्यज्य कैलासं ययौ क्रोधसमन्वितः ।
उन्मत्तं धारयामास मानसे चासुरेश्वरम् ॥ २८ ॥

काव्यस्तं सान्त्वयामास श्रुत्वा वृत्तान्तमञ्जसा ।
बोधयामास दैत्येशं योगीशो द्विजसत्तमाः ॥ २९ ॥

शुक्र उवाच ।

गणेशं त्यज्य दैत्येन्द्र शङ्करं भजसे परम् ।
वेदे विरुद्धं तत् कर्म करोषि त्वं न संशयः ॥ ३० ॥

ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामते ।
सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् ॥ ३१ ॥

यथा सन्ध्यादिकं कर्मावश्यं तद्वद् गजाननः ।
एकनिष्ठापरैः पूज्यः सर्वादौ ज्येष्ठभावतः ॥ ३२ ॥

त्यक्त्वा गणेश्वरं शम्भुं भजसे नित्यमादरात् ।
कुपितो गणनाथस्तु बुद्धिभेदं चकार ह ॥ ३३ ॥

सिद्धिबुद्धिपतिः साक्षाद्गणेशो ब्रह्मनायकः ।
तं त्यक्त्वा शाम्भवीं सिद्धिं लभसे कथमप्यहो ॥ ३४ ॥

शिवस्य हृदये सोऽपि तव तिष्ठति साम्प्रतम् ।
यदिच्छया शिवाद्याश्च वर्तन्ते त्वमपि ध्रुवम् ॥ ३५ ॥

अतस्त्वं शिवहीनश्च कृतस्तेन महात्मना ।
संशप्तः शङ्करेणैव शैवः परमभाविकः ॥ ३६ ॥

गच्छ तं शरणं देवं गणेशं ब्रह्मनायकम् ।
तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः ॥ ३७ ॥

गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरैकभावेन समूहो जायते ह्यतः ॥ ३८ ॥

तथाऽयं गणराजस्य गण एकः शिवः स्मृतः ।
समूहाख्यश्च तपसां विचारय महामते ॥ ३९ ॥

अथवा शिवसञ्ज्ञोऽयं सहजानां परा गतिः ।
गणरूपश्चेश्वराणां समूहे सहजः शिवः ॥ ४० ॥

एवं विष्ण्वादयः सर्वे गणास्तस्य प्रकीर्तिताः ।
पश्य वेदोपनिषदि कथितं तत्त्वथर्वणि ॥ ४१ ॥

एवमुक्त्वा महादैत्यं काव्यः स्वगृहमाययौ ।
बाणः खेदसमायुक्तो विचारमकरोत् हृदि ॥ ४२ ॥

ततस्तेन गणेशस्य महो ज्ञातं महाद्भुतम् ।
चतुर्थीं प्राप्य दैत्येशस्तं पुपूज गजाननम् ॥ ४३ ॥

ध्याननिष्ठो गणेशस्य जजाप मन्त्रमुत्तमम् ।
गणानां त्वेति बाणः स क्षमापनं चकार ह ॥ ४४ ॥

अथर्वोपनिषद्भिस्तं तुष्टाव स कृताञ्जलिः ।
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ४५ ॥

उपवासकरं बाणमाययौ द्विरदाननः ।
वरदो ह्येकवर्षेण मूषकोपरि संस्थितः ॥ ४६ ॥

आगतं गणराजं स दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्यादौ पुपूज भक्तिलोलुपः ॥ ४७ ॥

पुनः प्रणम्य विघ्नेशं तुष्टाव स कृताञ्जलिः ।
बाणः परमधर्मात्मा भक्तिनम्रात्मकन्धरम् ॥ ४८ ॥

बाणासुर उवाच ।

विघ्नेशाय परेशाय भक्तविघ्नविदारिणे ।
अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९ ॥

विनायकाय देवेश दैत्येशनायकाय ते ।
निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५० ॥

ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः ।
सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१ ॥

लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने ।
आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ ५२ ॥

[[३१]]

शूर्पकर्णाय शूराय मोहान्धकविदारिणे ।
ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ ५३ ॥

एकदन्ताय देवाय स्वानन्दे वासकारिणे ।
अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ ५४ ॥

मायामायिकरूपाय मायामायिकवर्जित ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ ५५ ॥

सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण ।
योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ ५६ ॥

त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे ।
सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ ५७ ॥

शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् ।
अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ ५८ ॥

मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया ।
मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ ५९ ॥

अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् ।
अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ ६० ॥

एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च ।
बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ ६१ ॥

तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् ।
स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ ६२ ॥

श्रीगणेश उवाच ।

त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् ।
भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ ६३ ॥

अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै ।
भुक्तिं मुक्तिं सदा सौख्यं शृण्वते मनसीप्सितम् ॥ ६४ ॥

त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा ।
शिवहीनं प्रकृत्वाऽन्ते नारकं त्वां करोमि वै ॥ ६५ ॥

किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् ।
शरणागतमेवं मे मत्पादप्रवणं परम् ॥ ६६ ॥

शिवशापो न मिथ्या ते भविष्यति कदाचन ।
तथापि शृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ ६७ ॥

वासुदेवं समायुध्य भुजच्छेदो भविष्यति ।
भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ ६८ ॥

एवमुक्त्वा महादैत्यं गणेशो विरराम ह ।
तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ ६९ ॥

बाण उवाच ।

तव विस्मरणं नाथ न भवेन् मे तथा कुरु ।
त्वया युक्तं शिवं नित्यं भजिष्यामि सुभक्तितः ॥ ७० ॥

गाणेशं ज्ञानमाद्यं मे देहि विघ्नेश शाश्वतम् ।
नान्यदिच्छामि सर्वेश त्वत्पादप्रवणोऽधुना ॥ ७१ ॥

श्रीगणेश उवाच ।

गाणेशज्ञानसंयुक्तो भविष्यसि महासुर ।
अनेन जडदेहेन गणः शैवो भविष्यसि ॥ ७२ ॥

महाकालेति नाम्ना त्वं विख्यातः सर्वमण्डले ।
नष्टे शिवपदे दैत्य स्वानन्दे आगमिष्यसि ॥ ७३ ॥

एवमुक्त्वा गणाधीशोऽन्तर्दधे मुनिसत्तमाः ।
बाणो हर्षसमायुक्तो गणेशमभजत्ततः ॥ ७४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॥

[[३२]]