॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
त्रिपुरो नाम दैत्योऽभून्महाबलपराक्रमः ।
ब्रह्मणो वरदानेन जिग्ये सर्वं चराचरम् ॥ १ ॥
कर्मलोपं चकाराऽसौ महाबलपराक्रमः ।
वर्णसङ्करजं कर्म कारयामास मानवैः ॥ २ ॥
तदोपोषणसंयुक्ता देवा मां शरणं ययुः ।
अहं क्रोधसमायुक्तो योद्धुं तेन गतोऽभवम् ॥ ३ ॥
मम तस्य महद्युद्धं बभूवे दारुणं परम् ।
देवानां दानवानां च तुमुलं रोमहर्षणम् ॥ ४ ॥
संहारास्त्राणि सर्वाणि मया त्यक्तानि वेगतः ।
तानि निष्फलरूपाणि बभूवुश्च महर्षयः ॥ ५ ॥
अतो विस्मितचित्तोऽहमभवं खेदसंयुतः ।
सहसा दैत्यराजेनाग्निशस्त्रेण जितोऽभवम् ॥ ६ ॥
ततः कैलासमुत्सृज्य गतोऽहं गहनं वनम् ।
निःश्वस्य चिन्तया युक्तोऽभवं चैव हतोद्यमः ॥ ७ ॥
विचारं मानसे विप्रा अकरवं हितावहम् ।
मम हस्तेन दैत्योऽयं मरिष्यति न संशयः ॥ ८ ॥
तत् कथं मोघरूपं मे कृतं हैवेन केन च ।
ईशोऽहमनीशो जातः पश्चात् सूर्योदयो यथा ॥ ९ ॥
तत्रैव सहसा देवमुनिर्नारद आययौ ।
मां प्रणम्य स्थितो भक्त्या पूजितः स मया तथा ॥ १० ॥
ततो मयाऽतिखेदेन पृष्टोऽसौ नारदो मुनिः ।
त्रिपुरस्य वधार्थाय मां जगाद स बुद्धिमान् ॥ ११ ॥
नारद उवाच ।
शिव त्वं मोहसंयुक्तोऽहङ्कारेण धृतोऽसि वै ।
विघ्नराजमनर्च्याऽसौ सत्ताहीनोऽसि भो प्रभो ॥ १२ ॥
विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः ।
ईशत्वं तेऽधुना नष्टं ढुण्ढेरनर्चनात् प्रभो ॥ १३ ॥
सत्तां स्वकीयदेहस्थां धृत्वा मोहपरायणाः ।
गणेशं ये न जानन्ति सत्ताहीना भवन्ति ते ॥ १४ ॥
यस्य कटाक्षपातेन कृपया तृणमेककम् ।
सृजते पाति हन्त्येव ब्रह्माण्डं लोकसङ्कुलम् ॥ १५ ॥
तस्य कृपाविहीनस्त्वमशक्तोऽसि सदाशिव ।
संहर्तुं तृणकं चैव कुतो दैत्यं प्रजेष्यसि ॥ १६ ॥
अतस्तं शरणं गच्छ तेन सत्तासमन्वितः ।
हनिष्यसि महादैत्यं त्रिपुरं त्रिविधे रतम् ॥ १७ ॥
मुद्गल उवाच ।
एवमुक्त्वा महेशानं तं प्रणम्य महामुनिः ।
नारदो गणपं गायन् ययौ स्वेच्छापरायणः ॥ १८ ॥
ततः शिवो हृदि स्मृत्वा गणेशं ब्रह्मनायकम् ।
दण्डकारण्यदेशे स वनगस्तप आचरत् ॥ १९ ॥
शतवर्षे गते ते स आययौ गणनायकः ।
मूषकोपरि संस्थो यो दशायुधधरः प्रभुः ॥ २० ॥
तं दृष्ट्वा सहसोत्थाय शङ्करः प्रणनाम ह ।
पूज्य तुष्टाव हर्षेण गणेशं भक्तिसंयुतः ॥ २१ ॥
श्रीशिव उवाच ।
गणेशाय परेशाय धूम्रवर्णाय ढुण्ढये ।
शिवात्मजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ २२ ॥
गणेशाय गुणानां ते स्रष्ट्रे पात्रे महात्मने ।
संहर्त्रे देवदेवाय हेरम्बाय नमो नमः ॥ २३ ॥
अनन्तविभवायैवानन्तमायाप्रचालक ।
अनन्तोदरगायैव विघ्नेशाय नमो नमः ॥ २४ ॥
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठरूपिणे ।
सर्वपूज्याय ते सर्वादिपूज्याय नमो नमः ॥ २५ ॥
स्वानन्दपतये तुभ्यं मूषकध्वजधारिणे ।
सिद्धिबुद्धिपते नाथेक्षुसागरपते नमः ॥ २६ ॥
[[२८]]
मनोवाणीविहीनाय मनोवाणीमयाय ते ।
योगेशाय महाविष्णुसुताय ते नमो नमः ॥ २७ ॥
शेषपुत्राय त्रैलोक्यक्षेत्रस्थाय नमो नमः ।
दण्डकारण्यदेवाय ब्रह्मेशाय नमो नमः ॥ २८ ॥
यत्र वेदादयो नाथ योगिनः शान्तिमाययुः ।
तं पश्यामि गणाधीशं धन्योऽहं सर्वभावतः ॥ २९ ॥
नेत्राणि धन्यरूपाणि प्रभो त्वत् दर्शनेन मे ।
मस्तकानि नमस्कारात् स्तवनान् मे मुखानि ते ॥ ३० ॥
हस्ताः पूजनतस्ते मे धन्याः सर्वं मदीयकम् ।
धन्यं ते पादपद्मस्य दर्शनेन गजानन ॥ ३१ ॥
भक्तिं देहि त्वदीयां मे तयाऽहं गणनायक ।
कृतकृत्यो भविष्यामि शान्तियोगपरायणः ॥ ३२ ॥
त्रिपुरस्य वधार्थाय सामर्थ्यं देहि शाश्वतम् ।
महेश त्वं गणाधीश सार्थकं कुरु नित्यदा ॥ ३३ ॥
शिवस्य वचनं श्रुत्वा गुणेशस्तमथाब्रवीत् ।
भक्तं देववरिष्ठं तु तपसा तोषितो भृशम् ॥ ३४ ॥
श्रीगणेश उवाच ।
त्वयोक्तं सफलं सर्वं भविष्यति सदाशिव ।
अन्यत् त्रिपुरनाशार्थं वदामि शृणु साम्प्रतम् ॥ ३५ ॥
त्रिविधा परमा माया देहभोगपरायणा ।
आसुरी त्रिपुराख्या सा नानाविषयलम्पटा ॥ ३६ ॥
तस्या जयार्थमत्यन्तं तुरीयं गणपाकृति ।
त्वयाऽऽश्रितं मदीयं च रूपं पुरुषवाचकम् ॥ ३७ ॥
पौरुषं बीजरूपं में गृहाण त्वं सदाशिव ।
मायां त्रिगुणरूपां तु मयि क्षिप विचक्षण ॥ ३८ ॥
एवमुक्त्वा गुणेशस्तं ददौ मन्त्रं तु पौरुषम् ।
मायां गृह्य तदीयां स निर्मोहमकरोच्छिवम् ॥ ३९ ॥
तत्र सोऽन्तर्हितः सद्यो गुणेशो ब्रह्मनायकः ।
शिवो मन्त्रप्रभावेण जघान त्रिपुरासुरम् ॥ ४० ॥
सदा पौरुषभावेन संयुक्तः स बभूव ह ।
मायां जित्वा विशेषेण स्वाधीनां तां चकार ह ॥ ४१ ॥
शृणुयाद्यो गणेशस्य स्तोत्रं शिवकृतं पठेत् ।
निर्मोहः सर्वभावेषु भवेद्देवपरायणः ॥ ४२ ॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।
भुक्त्वा भोगाननेकांश्चान्ते स्वानन्दमवाप्नुयात् ॥ ४३ ॥
इदं गुणेशमाहात्म्यं कथितं लेशतो मया ।
पठनाच्छ्रवणान् नृभ्यः सर्वसिद्धिप्रदायकम् ॥ ४४ ॥
धूम्रवर्णात्मकश्चायमवतारः प्रकीर्तितः ।
पौरुषार्थप्रदः पूर्णो गणेशो भुक्तिमुक्तिदः ॥ ४५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते गुणेशावतारवर्णनं नाम द्वादशोऽध्यायः ॥
[[१३]]