११ पार्वतीगणेशचरितम्

॥ श्रीगणेशाय नमः ॥

शिव उवाच ।

एकदा संस्थितं विप्राः कैलासे गिरिजायुतम् ।
गणेशं भजमानं मां दृष्ट्वा नन्दी समब्रवीत् ॥ १ ॥

नन्द्युवाच ।
शिव त्वं सर्वरूपश्च सर्वस्वेन प्रकीर्तितः ।
सर्वेभ्यः फलदाता वै कर्मणां कर्मधारकः ॥ २ ॥

योगिभ्यो योगनाथस्त्वं योगसिद्धिप्रदायकः ।
त्वत्तः परतरं नास्ति भजसे कं गजाननम् ॥ ३ ॥

वेदे शिवसुतः प्रोक्तो गणेशो नात्र संशयः ।
तं कथं भजसे नाथ स्वपुत्रं स्वामिनं यथा ॥ ४ ॥

ईशस्ते नाम विख्यातं सर्वेशत्वात् सदाशिवः ।
तवेशो नैव वेदेषु त्वमेकः सर्वभावनः ॥ ५ ॥

किं मोहार्थं जनानां च पार्वत्या सह शङ्कर ।
भजसे गणनाथं त्वं शैवगुप्तत्वकारणात् ॥ ६ ॥

मा कुरुष्व वृथा स्वामिन् गणेशभजनं कदा ।
शैवानां मोहदं देव व्यभिचारपदप्रदम् ॥ ७ ॥

मुद्गल उवाच ।

नन्दिनो वाक्यमाकर्ण्य तमुवाच सदाशिवः ।
हर्षेणोत्फुल्लनेत्रश्च महापाशुपतं परम् ॥ ८ ॥

श्रीशिव उवाच ।

न जानासि गणेशानं नन्दिस्त्वं मत्परायणः ।
तस्याऽहं गणरूपश्च पश्य वेदे विचक्षण ॥ ९ ॥

गणाः समूहरूपाश्चानन्तास्तस्य महात्मनः ।
ईशानां वै समूहेऽहं गणो गणपतेः स्मृतः ॥ १० ॥

एक एव गणेशानः सर्वे तस्य गणाः स्मृताः ।
ब्रह्माकाराश्च विश्वाकारा ब्रह्मेशस्य मानद ॥ ११ ॥

विद्या नानात्मिका प्रोक्ता तस्या नानाविधाः स्मृताः ।
समुत्पन्ना विशेषेण विद्या ज्ञानप्रकाशकाः ॥ १२ ॥

[[२५]]

विद्याधीशोऽहमेकश्च कथितो वेदवादिभिः ।
योगविद्यां मयाऽऽश्रित्य गणेशः प्रकटीकृतः ॥ १३ ॥

समाधिजं परं ब्रह्म तदेव पुत्र उच्यते ।
अतः समाधिजो यो मे गणेशः पुत्रतां ययौ ॥ १४ ॥

विद्यया ज्ञानसंयुक्ता अन्ये विष्णुमुखाऽमराः ।
न ते विद्याधिपाः प्रोक्ता मच्छिष्या नात्र संशयः ॥ १५ ॥

तैश्च योगबलेनैव गणेशः प्रकटीकृतः ।
समाधिजः सुतस्तेषां बभूवे योगिनां तथा ॥ १६ ॥

आदौ मया कृतं ब्रह्म साक्षात्कारि गुरुं विना ।
विद्याबलेन तस्मात्तु मुख्योऽहं विश्वपो गुरुः ॥ १७ ॥

अतः शिवसुतः प्रोक्तो वेदेषु गणनायकः ।
विष्ण्वादयो न मुख्याश्च गणेशपितरः स्मृताः ॥ १८ ॥

अतोऽहं योगरूपं तं ब्रह्मेशं ब्रह्मवन्दितम् ।
भजामि स्वामिनं दासो नैव मोहार्थमादरात् ॥ १९ ॥

शिवस्य वचनं श्रुत्वा विस्मितो नन्दिकेश्वरः ।
उवाच तं महादेवं सर्वज्ञं सर्ववन्दितम् ॥ २० ॥

नन्दिकेश उवाच ।

कुलदेवो गणेशानोऽस्माकं ते नात्र संशयः ।
विभो तस्य वद ज्ञानं मन्त्रं विधियुतं परम् ॥ २१ ॥

श्रीशिव उवाच ।

चित्तं पञ्चविधं प्रोक्तं सा बुद्धिः परमा मता ।
नानाभ्रान्तिकरी सिद्धिर्भेदैश्वर्यमयी हृदि ॥ २२ ॥

तयोर्बिम्बं गणेशस्य पतितं मायया युतम् ।
बिम्बभावं परित्यज्य गणेशो जायते नरः ॥ २३ ॥

सरसं चित्तमुत्सृज्य योगिवन्द्यो भविष्यसि ।
एकाक्षरविधानेन भज तं योगसाधनैः ॥ २४ ॥

एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
सविधिं सोऽपि तं नत्वा तपोर्थी च ययौ वनम् ॥ २५ ॥

निराहारेण तपसाऽऽराधितो द्विरदाननः ।
नन्दिना ध्यानयुक्तेन समाधिना विशेषतः ॥ २६ ॥

गते वर्षशते पूर्णे योगीन्द्रः स बभूव च ।
वरदाता गणेशानस्तदाश्रमपदं ययौ ॥ २७ ॥

आगतं गणनाथं स दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्याऽऽदौ पूजयामास भक्तितः ॥ २८ ॥

पुनः प्रणम्य विघ्नेशं स्तोतुं समुपचक्रमे ।
पार्वतीं वाममागे वै दधतं वीक्ष्य विस्मितः ॥ २९ ॥

गणेशकृपया सद्यो ज्ञानं प्राप्तं महाद्भुतम् ।
तेन सर्वं गणेशस्य चेष्टितं ज्ञातमादरात् ॥ ३० ॥

ततः स नन्दिकेशानो विचारमकरोत् हृदि ।
बाह्यरूपधरश्चायं महादेवो न संशयः ॥ ३१ ॥

गिरिजायाः पतिः प्रोक्तः पञ्चवक्त्रादिचिह्नितः ।
त्रिनेत्रो नरदेहाख्यो भिन्नभावप्रदर्शकः ॥ ३२ ॥

आनन्दात्मकरूपा सा पार्वती विष्णुरूपिणी ।
शिवदेवमयी प्रोक्ता तस्यामात्मा शिवः स्मृतः ॥ ३३ ॥

गजाकारः स्वयं शम्भुरैक्यभोगपरायणः ।
अर्धाङ्गप्रकृतिस्थत्वाद्बभौ नारीनरः शिवः ॥ ३४ ॥

नरकुञ्जरयोर्योगे गणेशाकारतां गतः ।
शिवो ब्रह्ममयः साक्षाद्गिरिजया समन्वितः ॥ ३५ ॥

योगमायामयी रम्या गणेशाङ्कव्यवस्थिता ।
पार्वती पार्वतीनाथो गणेशः प्रबभौ स्वयम् ॥ ३६ ॥

स एव वरदानार्थं समाययौ न संशयः ।
शिवचित्तस्थितश्चायमियं शिवस्य मानसी ॥ ३७ ॥

[[२६]]

ततः प्रणम्य हर्षेण प्रणनाम गजाननम् ।
पुनः पुनः सरोमाञ्चस्तं तुष्टाव कृताञ्जलिः ॥ ३८ ॥

नन्दिकेश उवाच ।

नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय ।
नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ ३९ ॥

हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे ।
स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ ४० ॥

पार्वतीपतये तुभ्यं शिवचित्तगताय वै ।
लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ ४१ ॥

सञ्ज्ञापते नमस्तुभ्यं ?भानोर्हृदि स्थिताय च ।
आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥ ४२ ॥

सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक ।
गायत्रीपतये तुभ्यमोङ्कारचित्तवासिने ॥ ४३ ॥

शचीपते नमस्तुभ्यमिन्द्रचित्तगमूर्तये ।
स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥ ४४ ॥

नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे ।
सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥ ४५ ॥

निर्गुणाय नमस्तुभ्यं कुञ्जराकारमूर्तये ।
सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥ ४६ ॥

नरकुञ्जररूपाय योगाकाराय ते नमः ।
योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥ ४७ ॥

धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥ ४८ ॥

एवं स्तुत्वा गणेशानं ननर्त प्रेमसंयुतः ।
नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥ ४९ ॥

श्रीगणेश उवाच ।

वरान् वृणु महाभाग नन्दिंस्ते मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥ ५० ॥

त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति ।
भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥ ५१ ॥

सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा ।
यं यमिच्छन्ति तं तं ते लभन्तेऽनेन निश्चितम् ॥ ५२ ॥

नन्दिकेश उवाच ।

यदि त्वं वरदो मेऽसि भक्तिं देहि त्वदीयिकाम् ।
गाणपत्यं कुरु स्वामिन् मां विघ्नेशपरायणम् ॥ ५३ ॥

क्षेत्रं भवतु ते नाथ यत्र तप्तं तपो मया ।
तथेति तं गणाधीशो जगादान्तरधीयत ॥ ५४ ॥

ततः संस्थापयामास गणेशं ब्राह्मणैः सह ।
नन्दिकेशो महाभक्त्या पूजनं प्रचकार ह ॥ ५५ ॥

पार्वतीगणपं नाम चक्रे तस्य महर्षयः ।
सर्वसिद्धिकरं स्थानं बभूवे तन्महर्षयः ॥ ५६ ॥

ततो नन्दीश्वरो नत्वा समागत्य जगाद ह ।
वृत्तान्तं सोऽपि तं श्रुत्वा तं शंसन् हर्षितोऽभवत् ॥ ५७ ॥

नन्दीविघ्नेश्वरं नित्यमभजद्भक्तिसंयुतः ।
महायोगीन्द्रमुख्योऽसौ बभूव शिवसन्निभः ॥ ५८ ॥

इदमाम्बिकविघ्नेशचरितं कथितं मया ।
धूम्रवर्णात्मकश्चाऽयं गणेशः सर्वसिद्धिदः ॥ ५९ ॥

यः पठेच्छृणुयाद्वाऽपि चरितं गणपस्य च ।
इदं लभेन्नरः सर्वं वाञ्छितं भुक्तिमुक्तिदम् ॥ ६० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते पार्वतीगणेशचरितं नामैकादशोऽध्यायः ॥

[[२७]]