॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
धूम्रवर्णावतारस्य भेदा नानाविधाः स्मृताः ।
वद तेषु विभो मुख्यांश्चरित्रसंयुतान् परान् ॥ १ ॥
धूम्रवर्णचरित्रं तु श्रुत्वा यामो न तृप्तिकाम् ।
अहङ्कारहरं पूर्णं ज्ञात्वा त्वत्तो जगद्गुरो ॥ २ ॥
श्रीशिव उवाच ।
धूम्रवर्णावतारस्य भेदानां चरितं परम् ।
कथितुं नैव शक्यं तन्मुख्यानां मुनिसत्तमाः ॥ ३ ॥
मुख्येषु मुख्यभूतानां चरित्रं लेशतः परम् ।
कथयामि शृणुध्वं यत् मनसा निश्चलेन तत् ॥ ४ ॥
सहजं यत्पदं प्रोक्तं नेतिरूपं मुनीश्वराः ।
तेन सृष्टं समाख्यं हि ब्रह्म त्वानन्दवाचकम् ॥ ५ ॥
तेन सत्यानृते सृष्टे ताभ्यामुत्थानसंयुते ।
विप्रेशा ब्रह्मणी सृष्टे ते स्वतः परतोऽभिधे ॥ ६ ॥
तेन देहिमयं देहप्रचुरं ब्रह्म वै ततः ।
बिन्दु तेनैव संसृष्टं चतुर्देहमयं परम् ॥ ७ ॥
स्थूलं सूक्ष्मं समं नादं तैः सृष्टं विश्वरूपकम् ।
नानाभेदमयं तस्माद्व्यष्टिरूपं मुनीश्वराः ॥ ८ ॥
एतानि ब्रह्मरूपाणि ह्युत्पन्नानि महर्षयः ।
ज्ञानहीनान्यक्षमाणि सर्वतः कार्यजातिषु ॥ ९ ॥
ततस्तैश्च तपस्तप्तं यस्मै कस्मै नमो नमः ।
बीजरूपाणि सर्वेषां मन्त्रं जप्त्वा निरन्तरम् ॥ १० ॥
ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
दर्शयामास रूपं स्वं तेभ्यो मन्त्रमयं परम् ॥ ११ ॥
ततस्तत्कृपया तानि ददृशुः स्वहृदि स्थितम् ।
मन्त्रमेकाक्षरं तेजोयुक्तं ज्ञानकरं परम् ॥ १२ ॥
दृष्ट्वा मन्त्रं प्रहृष्टानि ब्रह्माणि नेमुरादरात् ।
मन्त्रं सङ्गृह्य तं पूर्वं ध्यात्वा हृदि गजाननम् ॥ १३ ॥
मन्त्राकारं गणेशानं ध्यात्वा तेपुः पराणि तु ।
तोषयामासुरत्यन्तं श्रमयुक्तानि विघ्नपम् ॥ १४ ॥
दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ।
दर्शयामास रूपं स्वं योगिध्येयमनुत्तमम् ॥ १५ ॥
नरकुञ्जररूपं तु दृष्ट्वा हृदि विसिस्मिरे ।
ब्रह्माणि तानि वै ढुण्ढिर्ददौ ज्ञानं सुनिर्मलम् ॥ १६ ॥
तेन तैर्गणराजस्य ज्ञातं रूपं विशेषतः ।
सगुणनिर्गुणाभ्यां च युक्तं योगमयं परम् ॥ १७ ॥
ततोऽतिहर्षयुक्तानि जातानि मुनिसत्तमाः ।
नित्यं ब्रह्माणि विघ्नेशं ध्यात्वा जपं समाचरन् ॥ १८ ॥
ततो गणपतिः प्रीतो ययौ तानि सुभक्तितः ।
शिवरूपधरो भूत्वा पञ्चवक्त्रस्त्रिलोचनः ॥ १९ ॥
मुण्डमालाधरः शम्भुर्व्याघ्रेभ?चर्मधारकः ।
विभूतिलेपः सर्वाङ्गे शेषनागविभूषणः ॥ २० ॥
वृषध्वजो वृषारूढश्चन्द्रचूडस्त्रिशूलधृक् ।
अर्धाङ्गे गिरिजायुक्तो योगीन्द्रो योगिवन्दितः ॥ २१ ॥
समागतं महेशानं दृष्ट्वा ब्रह्माणि ब्राह्मणाः ।
विस्मितानि विशेषेण विचारं चक्रुरादरात् ॥ २२ ॥
गणेशकृपया सद्यो ज्ञातं तैः सकलं महः ।
शिवस्य हृदि बोधेन परस्परमथाऽब्रुवन् ॥ २३ ॥
स्वमहिम्नि स्थितं ब्रह्म सहजं गणपाकृति ।
वर्णा धूम्रायितास्तत्र तेन धूम्राक्षरः स्मृतः ॥ २४ ॥
तस्य बिम्बं विमोहेन पतितं मायया युतम् ।
जगत्सु ब्रह्मसु प्राज्ञं तदेवायं वृषध्वजः ॥ २५ ॥
बिम्बबिम्बिप्रभावेण धूम्रवर्णोऽयमुच्यते ।
न भेदः शास्त्रवादेषु वरदः प्रभविष्यति ॥ २६ ॥
[[२३]]
ततस्तानि समुत्थाय ब्रह्माणि गणपं पुनः ।
प्रणम्य हृदि संस्थं तं शिवं नेमुर्विशेषतः ॥ २७ ॥
सम्पूज्य विधिना शम्भुं प्रहृष्टानि प्रणम्य च ।
तुष्टुवुर्ब्रह्मरूपाण्यानन्दमुख्यानि मानदाः ॥ २८ ॥
ब्रह्माण्यूचुः ।
नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे ।
बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९ ॥
अमेयशक्तये तुभ्यं पार्वतीपतये नमः ।
वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३० ॥
मायाश्रयाय मायायाश्चालकाय परात्मने ।
महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१ ॥
जटाजूटधरायैव निर्मोहाय सदाशिव ।
परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥ ३२ ॥
स्वाधीनाय नमस्तुभ्यं पञ्चवक्त्रधराय च ।
अनाथाय सनाथाय नाथाय नाथरूपिणे ॥ ३३ ॥
परब्रह्मस्वरूपाय ब्रह्मादिपतये नमः ।
गिरीशाय गिरौ शायिंश्चिताभस्माङ्गधारिणे ॥ ३४ ॥
मुण्डमालाधरायैव नमस्ते सर्पभूषण ।
नानाभेदप्रकारेण खेलकाय नमो नमः ॥ ३५ ॥
वामभागे ह्यसत्याय सत्याय दक्षिणाङ्गके ।
तयोरभेदयोगे चानन्दाय ते नमो नमः ॥ ३६ ॥
समरूपा महामाया देहस्ते नात्र संशयः ।
तस्य आत्मस्वरूपस्त्वमर्धनारी?धृषे नमः ॥ ३७ ॥
एतादृशं महेशानं पश्यामो ब्रह्मरूपिणम् ।
सर्वेषां नेतिकर्तारं तेन धन्यानि वै वयम् ॥ ३८ ॥
धूम्रवर्णस्त्वमेवेह न भेदो दृश्यते कदा ।
कस्त्वां स्तोतुं समर्थः स्यात् प्रभोऽतस्ते नमामहे ॥ ३९ ॥
शिव उवाच ।
एवमुक्त्वा महेशानं ब्रह्माणि नेमुरादरात् ।
तान्युवाच प्रहर्षेण शङ्करः करुणानिधिः ॥ ४० ॥
आदिशम्भुरुवाच ।
ब्रह्माणि यान् वरान् ब्रूत दास्यामि तपसा परम् ।
तुष्टः स्तोत्रेण भक्त्या मे संशयो न हृदीप्सितान् ॥ ४१ ॥
ब्रह्माण्यूचुः ।
वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि स्मृतिं स्वकार्येषु विद्यारूपां महेश्वर ॥ ४२ ॥
स्वस्वकार्यं तु कृत्वा वै बन्धदं बन्धहारक ।
कुरुष्व बन्धहीनानि सततं योगधारकः ॥ ४३ ॥
श्रीशिव उवाच ।
यद्यत् सम्प्रार्थितं मत्तो भविष्यति सुखप्रदम् ।
भवतां सत्यसङ्कल्पा दुर्लभं किं न सम्भवेत् ॥ ४४ ॥
अतुलं बन्धहीनार्थं योगं शृणुत सौख्यदम् ।
तं साध्य बन्धहीनानि भविष्यथ न संशयः ॥ ४५ ॥
सर्वेषां नेतिकर्तारं मां जानीत चतुर्थकम् ।
चतुर्णां चैव संयोगे स्वस्वरूपं विदुर्बुधाः ॥ ४६ ॥
तस्मात् स्वाधीनरूपं च पराधीनं त्रिधा मतम् ।
समुत्पन्नं कलांशेन तं जानीत गजाननम् ॥ ४७ ॥
स्वस्वरूपमयो ढुण्ढिर्मायायुक्तः प्रकीर्तितः ।
चतुर्णां चालकत्वात्तु संयोगाभेदतः प्रभुः ॥ ४८ ॥
अयोगः पञ्चभिर्हीनः सदा निवृत्तिवाचकः ।
न तत्र ब्रह्मणां योगो जगतां तस्य तेषु च ॥ ४९ ॥
संयोगायोगयोर्योगे गणेशो योगवाचकः ।
पूर्णशान्तिप्रदः साक्षाद्ब्रह्मभूतो गजाननः ॥ ५० ॥
गकारः स्वस्वरूपाख्यो णकारो योग उच्यते ।
स्वामी तयोर्गणेशानो नरकुञ्जररूपधृक् ॥ ५१ ॥
तं भजध्वं विशेषेण तदा शान्तिमवाप्स्यथ ।
सततं बन्धहीनानि भविष्यथ न चान्यथा ॥ ५२ ॥
यथा धूम्रायितो देशो दृश्यते नैव मानवैः ।
दृश्यमानस्तथाऽप्येवं धूम्ररोधनभावतः ॥ ५३ ॥
[[२४]]
तथा चित्तमयी माया पञ्चधा विविधे रता ।
तया युक्ता न पश्यन्ति तं देवं वेदसाधनैः ॥ ५४ ॥
वेदा वर्णमयाः प्रोक्ता धूम्रा जाताश्च मायया ।
गणेशानं स्वशिष्येभ्यो धूम्रवर्णमतो जगुः ॥ ५५ ॥
पूर्णशान्तिप्रदं योगं धूम्रवर्णात्मकं परम् ।
जानीत योगयुक्त्या वै भजध्वं तं गजाननम् ॥ ५६ ॥
कृत्वा स्वस्वस्वभावस्थं कार्यं नानाविधं सदा ।
समर्प्य धूम्रवर्णाय बन्धहीनानि सर्वदा ॥ ५७ ॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधात्ततः ।
ब्रह्माणि तं नमस्कृत्य ससृजुर्विविधं जगत् ॥ ५८ ॥
यथोपदिष्टयोगेन गणेशं नित्यमादरात् ।
भजन्ते तानि ब्रह्माणि योगयुक्तानि वै द्विजाः ॥ ५९ ॥
अयं शिवात्मकः प्रोक्तोऽवतारः परमाद्भुतः ।
धूम्रवर्णकलांशश्च सर्वसिद्धिप्रदायकः ॥ ६० ॥
चरित्रं शृणुयाद्यश्चेदिदं पठेद्यदा नरः ।
भुक्त्वा भोगान् स्वयं चान्ते गच्छेत् स्वानन्दकं पुरम् ॥ ६१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते शिवात्मकावतारचरितं नाम दशमोऽध्यायः ॥