॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् ।
माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ १ ॥
श्रीशिव उवाच ।
ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् ।
विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ २ ॥
सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् ।
माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥ ३ ॥
देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः ।
शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ ४ ॥
त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः ।
अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ ५ ॥
वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी ।
पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ ६ ॥
दशयोजनविस्तारः क्षेत्रस्य गणपस्य च ।
चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ७ ॥
पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः ।
शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ ८ ॥
पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः ।
आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ ९ ॥
वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः ।
क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ १० ॥
दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा ।
सगणाः सपरीवारा भजन्ते गणनायकम् ॥ ११ ॥
शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः ।
गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ १२ ॥
आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः ।
वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ १३ ॥
यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् ।
सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ १४ ॥
तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते ।
अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ १५ ॥
तत्र तीर्थं महासिद्धिदायकं वर्तते परम् ।
धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ १६ ॥
तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः ।
अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ १७ ॥
[[९]]
तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः ।
नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ १८ ॥
अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते ।
जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ १९ ॥
शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः ।
स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ २० ॥
तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् ।
ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ २१ ॥
यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् ।
लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ २२ ॥
भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः ।
देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ २३ ॥
वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः ।
भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ २४ ॥
परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् ।
सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ २५ ॥
गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः ।
तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ २६ ॥
कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा ।
स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ २७ ॥
अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः ।
शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ २८ ॥
क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः ।
यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ २९ ॥
धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया ।
कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ ३० ॥
गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु ।
यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ ३१ ॥
धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च ।
चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ ३२ ॥
पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः ।
क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ ३३ ॥
इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः ।
श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ३४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूर्मवर्णचरिते धूम्रमहिमावर्णनं नाम नवमोऽध्यायः ॥
ख ८ अ १० पान २२