०८ धूम्रवर्णावतारसमाप्तिः

॥ श्रीगणेशाय नमः ॥

शिव उवाच ।

शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् ।
अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः ॥ १ ॥

ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः ।
पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटाः ॥ २ ॥

देवर्षय ऊचुः ।
अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ।
सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३ ॥

सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो मोहहन्त्रे निजानाम् ।
महानन्दत्रैविध्यभावैः परेश नमो धूम्रवर्णाय सर्वेश्वराय ॥ ४ ॥

नमः सिद्धिबुद्धिप्रदात्रे गणेश पुरे वासकारिन् स्वसंवेद्यनाम्नि ।
अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ५ ॥

सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन् ।
महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ६ ॥

गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन् ।
मदासक्तयोगीन्द्र भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ७ ॥

चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय ।
अलङ्कारकैर्देवदेवेश पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ ८ ॥

त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै ।
तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ ९ ॥

त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् ।
अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ १० ॥

ततस्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् ।
तदाकाररूपेण तत्स्थाय ब्रह्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ ११ ॥

असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् ।
त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १२ ॥

स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय ।
तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १३ ॥

ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोहमेवम् ।
तथा त्वं च तत्रैव संस्थः परात्मन् नमो धूम्रवर्णाय सर्वेश्वराय ॥ १४ ॥

त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् ।
सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १५ ॥

ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् ।
चतुर्धा शरीरं विनिर्माय खेलिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १६ ॥

नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् ।
चरैः स्थावरैर्भोगभोगिन्नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ १७ ॥

चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय ।
प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १८ ॥

[[१९]]

नमो देवयक्षाय साध्याय तुभ्यं नरायाऽथ देवेन्द्र देवात्मकाय ।
दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १९ ॥

नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते ।
अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २० ॥

तथापि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन् ।
स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २१ ॥

अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् ।
बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २२ ॥

सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णे ।
वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २३ ॥

श्रीशिव उवाच ।

एवं स्तुत्वा गणेशानं प्रणेमुरमरर्षयः ।
तानुवाच महाभागान् धूम्रवर्णः प्रतापवान् ॥ २४ ॥

धूम्रवर्ण उवाच ।

वरान् ब्रूत महाभागा दास्यामि स्तोत्रतोषितः ।
देवर्षयो हृदि स्थान् वः सुदुर्लभतरानपि ॥ २५ ॥

स्तोत्रं भवत् कृतं मे तु भविष्यति सुसिद्धिदम् ।
ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ २६ ॥

पुत्रपौत्रकलत्रादि सौख्यदं धनधान्यदम् ।
आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ २७ ॥

पठते शृण्वते देवा नानाभावप्रपूरकम् ।
धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ २८ ॥

मारणोच्चाटनादीनि ह्येकविंशतिपाठतः ।
एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ २९ ॥

परकृत्यादिकं सर्वं नाशमेति न संशयः ।
अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ ३० ॥

यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा ।
स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ ३१ ॥

श्रीशिव उवाच ।

देवर्षयो धूम्रवर्णवचः श्रुत्वा प्रणम्य तम् ।
प्रहृष्टमनसो देवं सर्वसिद्धिकरं जगुः ॥ ३२ ॥

देवर्षय ऊचुः ।
धूम्रवर्ण त्वया नाथ कृतः शान्तिधरः सदा ।
अहं तेन वयं सर्वे वरयुक्ताः कृताः किल ॥ ३३ ॥

अहङ्कारे प्रशान्ते तु स्वाधिकारे वसामहे ।
वर्णाश्रमयुता लोका भविष्यन्ति द्विजादयः ॥ ३४ ॥

वृणुमः किं गणाधीश देहि भक्तिं त्वदीयिकाम् ।
अहङ्कारभयघ्नीं वै तया तुष्टा वयं प्रभो ॥ ३५ ॥

तथेति तानुवाचासौ धूम्रवर्णो गणेश्वराः ।
अन्तर्दधे भवन् देवा मुनयस्तं नतास्ततः ॥ ३६ ॥

स्थापयामासुरानन्दात् धूम्रवर्णं दिगन्तगे ।
क्षेत्रे तत्र गणेशानं पूजयामासुरादरात् ॥ ३७ ॥

स्वे स्वे पदे च ते जग्मुस्ततो हर्षसमन्विताः ।
सुखिनः स्वस्वकार्येषु वर्तते गणपे रताः ॥ ३८ ॥

एतद्वः कथितं चित्रं चरित्रं सर्वसिद्धिदम् ।
अहङ्कारभयघ्नं च पठतां शृण्वतां भवेत् ॥ ३९ ॥

एवं नानावतारान् स धूम्रवर्णः प्रतापवान् ।
धृत्वा चकार विश्वं तु निर्विघ्नं भक्तिभावितः ॥ ४० ॥

[[२०]]

धूम्रवर्णावताराश्चानन्तास्तेषां चरित्रकम् ।
कथितुं नैव शक्यं तत् कदा भवति केनचित् ॥ ४१ ॥

अतः सङ्क्षेपतः प्रोक्तं मुख्यावतारचेष्टितम् ।
सनकाद्या गणेशानं भजध्वं भावसंयुताः ॥ ४२ ॥

तेनाहङ्कारनिर्मुक्ता भविष्यथ न संशयः ।
योगीन्द्र योगिवन्द्याश्च शान्तिदाः शान्तचेतसे ॥ ४३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते धूम्रवर्णावतारसमाप्तिर् नाम अष्टमोऽध्यायः ॥