०७ अहङ्कारशान्तिरूपवर्णनम्

॥ श्रीगणेशाय नमः ॥

शिव उवाच ।

शुक्रस्य वचनं श्रुत्वाऽहङ्कारस्तं प्रणम्य च ।
जगाद ज्ञानसंयुक्तः कृताञ्जलिः प्रतापवान् ॥ १ ॥

अहमुवाच ।
त्वयाऽहं बोधितो नाथाऽतो गच्छामि गजाननम् ।
सुरासुरमयं ब्रह्म सर्वशान्तिप्रदायकम् ॥ २ ॥

एवमुक्त्वा स शुक्रेण संयुतः परमार्थवित् ।
श्र्योङ्काराभ्यां मनः कृष्य योगेशं शरणं ययौ ॥ ३ ॥

पुरप्रान्ते महापाशं दृष्ट्वा नम्य कृताञ्जलिः ।
तुष्टाव शस्त्रराजं स गणेशाहङ्कृतेर्धरः ॥ ४ ॥

अहमुवाच ।
पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे ।
मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ ५ ॥

मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे ।
गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ ६ ॥

तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः ।
त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ७ ॥

ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् ।
नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ८ ॥

नमस्ते तेजसां नाथ दुष्टनाशकराय ते ।
पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ९ ॥

एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः ।
अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ १० ॥

इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति ।
मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ११ ॥

गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः ।
धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ १२ ॥

पुनरुत्थाय विघ्नेशं पूजयामास भक्तितः ।
पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ॥ १३ ॥

अहमुवाच ।
धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने ।
अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ १४ ॥

लम्बोदराय देवाय दैत्यनाथाय ते नमः ।
हेरम्बाय महेशानां पालकाय नमो नमः ॥ १५ ॥

कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे ।
ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६ ॥

चराय चररूपाय जङ्गमस्थाय ते नमः ।
स्थावराय सदा तद्रूपाय तद्रूपधारिणे ॥ १७ ॥

स्थावरजङ्गमाभ्यां च हीनाय ते नमो नमः ।
योगाय योगनाथाय योगिने योगदायिने ॥ १८ ॥

योगेभ्यो योगदात्रे ते नमश्चिन्तामणे नमः ।
शान्ताय शान्तचित्तैस्तु प्राप्याय शान्तमूर्तये ॥ १९ ॥

ब्रह्मणां पतये तुभ्यं ब्रह्मणे सिद्धिबुद्धिद ।
सिद्धिनाथाय बुद्धीश तयोर्योगाय ते नमः ॥ २० ॥

मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
चतुर्भुजाय स्वानन्दपतये ते नमो नमः ॥ २१ ॥

किं स्तौमि त्वां गणाधीश धूम्रवर्णस्वरूपिणम् ।
अव्यक्तं वेदवादेषु कथितं सततं प्रभो ॥ २२ ॥

स्वरूपं ते कथयितुं वेदा धूम्रायिता बभुः ।
योगशान्तिधरास्ते कथयितुं ध्रुवमक्षमाः ॥ २३ ॥

अतस्त्वां धूम्रवर्णाख्यं वदन्ते वेदवादिनः ।
पश्यामि तं धूम्रवर्णमेवाऽहं योगिदुर्लभम् ॥ २४ ॥

धन्योऽहं सकुलो नाथ त्वदङ्घ्रियुगदर्शनात् ।
एवमुक्त्वा ननर्ताऽसौ भक्तियुक्तो महासुरः ॥ २५ ॥

निमग्नं तं भक्तिरसे दृष्ट्वा देवो गजाननः ।
जगाद तं महाभागं प्रेमयुक्तं प्रसस्वजे ॥ २६ ॥

[[१७]]

धूम्रवर्ण उवाच ।

वरान् वृणु महाभाग दास्यामि स्तोत्रतोषितः ।
अहङ्कार न सन्देहो न भयं ते भविष्यति ॥ २७ ॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
मम भक्तिप्रदं चैव भविष्यति न संशयः ॥ २८ ॥

शृणुयाद्यः पठेदेतत्तस्याहङ्कारजं भयम् ।
न भविष्यति दैत्येश भुक्तिमुक्तिप्रदं भवेत् ॥ २९ ॥

यद्यदिच्छति तत्तच्च दास्यामि स्तोत्रपाठतः ।
मम प्रियो भवेत् सोऽपि सदा मोहविवर्जितः ॥ ३० ॥

एवं गणेशवाक्यं स श्रुत्वा तं ह्यब्रवीदहम् ।
प्रणिपत्य महात्मानं धूम्रवर्णं महासुरः ॥ ३१ ॥

अहमुवाच ।
यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन ।
तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ ३२ ॥

गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् ।
गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ ३३ ॥

स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ।
तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३४ ॥

नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् ।
सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ ३५ ॥

बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः ।
योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ ३६ ॥

धूम्रवर्ण उवाच ।

मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः ।
गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ ३७ ॥

यत्रादौ मे महादैत्य पूजनं नैव विद्यते ।
तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ ३८ ॥

कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव ।
आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ ३९ ॥

स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा ।
मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ ४० ॥

यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु ।
तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ ४१ ॥

गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः ।
भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ ४२ ॥

श्रीशिव उवाच ।

एवमुक्त्वा गणाधीशस्तमहं विरराम है ।
प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ ४३ ॥

तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः ।
त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ ४४ ॥

स एव सुखसंयुक्तोऽभजत्तं गणनायकम् ।
अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ ४५ ॥

यथा जगाद विघ्नेशस्तथा चकार भावतः ।
अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ ४६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारशान्तिरूपवर्णनं नाम सप्तमोऽध्यायः ॥

[[१८]]