॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
शुक्रं प्रणम्य नीतिज्ञं भयसङ्कुलितोऽसुरः ।
अहङ्कारो जगादेदं वचनं स्वहितार्थकम् ॥ १ ॥
अहङ्कार उचाच ।
स्वामिन् मे वरदानं यन्निष्फलं प्रबभूव तत् ।
अमोघास्त्रमयं किं त्वं वद संशयकं नुद ॥ २ ॥
धूम्रवर्णः समायातो देवपक्षप्रवर्धनः ।
मायामयः कथं सोऽपि निष्फलं मां चकार ह ॥ ३ ॥
शुक्र उवाच ।
अहं त्वं मूर्खभावेन मन्यसे धूम्रवर्णकम् ।
मायामयं विशेषेण न जानासि गजाननम् ॥ ४ ॥
मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते ।
योगाकारं गणेशानं वदन्ते वेदवादिनः ॥ ५ ॥
हनिष्यति समाक्रुद्धस्त्वामयं धूम्रवर्णकः ।
अतस्तं त्वं गणेशानं शरणं याहि दैत्यप ॥ ६ ॥
धूम्रेणावृतमेवं यद् दृश्यते न जनैर्यथा ।
तथा वस्तु गणेशानं न जानन्ति शिवादयः ॥ ७ ॥
वर्णा वेदस्वरूपाश्च धूम्रा जाता इवाऽऽ?बभुः ।
अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः ॥ ८ ॥
सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसु परम् ।
तस्य किं वरदानस्योल्लङ्घनं दुर्घटं भवेत् ॥ ९ ॥
स्वेच्छया वरदानं वै सफलं निष्फलं भवेत् ।
तदेव धूम्रवर्णोऽयं सहजो नेति वाचकः ॥ १० ॥
अविनाशिपदं यच्च गजाख्यं ब्रह्म कथ्यते ।
तदेव मस्तकं तस्य गणेशस्य महात्मनः ॥ ११ ॥
नाशरूपं जगत् सर्वं देहस्तस्य न संशयः ।
धूम्रवर्णस्तयोर्योगे देहधारी बभूव ह ॥ १२ ॥
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ।
चित्तभ्रान्तिकरी सिद्धिर्वामाङ्गे राजते सदा ॥ १३ ॥
तयोः स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः ।
तं गच्छ शरणं तात तदा सौख्यमवाप्स्यसि ॥ १४ ॥
स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
योगिनां गणनाथस्य तेन स्वानन्दपालकः ॥ १५ ॥
न ते यशो महाराज भविष्यति कदाचन ।
सुरासुरमयो ढुण्ढिः शरणं तस्य गच्छतु ॥ १६ ॥
सुराः स्वर्गेषु तेनैव स्थापिता मानवा भुवि ।
असुरा विवरेष्वेव त्रिविधं धर्मसंयुतम् ॥ १७ ॥
[[१३]]
स्वस्वधर्मं परित्यज्य लोभयुक्ताः सुराऽसुराः ।
भवन्ति चेत्तदाऽयं तु तेषां शास्ता भवत्यहो ॥ १८ ॥
देवैर्दैत्या जिताः सर्वे पातालं गत्य मानद ।
तदा त्वां स विनिर्माय देवविघ्नपरोऽभवत् ॥ १९ ॥
त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः ।
देवनाशार्थमत्यन्तमुद्युक्तोऽसि खलोत्तम ॥ २० ॥
अतस्त्वां हन्तुमेवं स समायातो गजाननः ।
स्वधर्मस्थस्य ते नाशं न करिष्यति विघ्नपः ॥ २१ ॥
त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुतम् ।
तदाऽयं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेत् ॥ २२ ॥
अतस्तस्य गणेशस्य शरणं गच्छ दैत्यप ।
ब्रह्माकारं च सर्वत्र सुरासुरप्रवर्तकम् ॥ २३ ॥
श्रीशिव उवाच ।
काव्यस्य वचनं श्रुत्वा हर्षयुक्तोऽहमादरात् ।
प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये ॥ २४ ॥
अहमुवाच ।
शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया ।
सुरासुरमयस्यैव तथाऽपि नुद संशयम् ॥ २५ ॥
सिद्धिबुद्धि समा माया विद्यते नैव निश्चितम् ।
प्रकृत्या संयुतो नित्यं गणेशानः प्रखेलति ॥ २६ ॥
सर्वपूज्यश्च सर्वादौ सम्मतो ब्रह्मनायकः ।
श्रीशब्देन समायुक्तः कथं श्रीर्मुख्यतां गता ॥ २७ ॥
सिद्धिं बुद्धिं परित्यज्य श्रियं चौङ्कारकं तथा ।
विकल्पेन समागृह्य तिष्ठते गणनायकः ॥ २८ ॥
अन्ये सर्वे तथा विप्र प्रकृत्या श्रीस्वरूपया ।
युक्ता भवन्ति शास्त्रेषु किमिदं कौतुकं वद ॥ २९ ॥
अतः श्रीर्यत् समा देवी विद्यते नैव निश्चितम् ।
भाति सर्वत्र वेदेषु तथौङ्कारात्मिका परा ॥ ३० ॥
शुक्र उवाच ।
गकारः सिद्धिरूपश्च णकारो बुद्धिवाचकः ।
तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते ॥ ३१ ॥
यथा मायायुतं ब्रह्म मायाया भिन्नकं न च ।
माया सैव सदा ब्रह्म ब्रह्म माया न संशयः ॥ ३२ ॥
तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक ।
एकरूपो न सन्देहो योगस्तेनायमुच्यते ॥ ३३ ॥
सिद्धिर्बुद्धिर्गणेशानो ज्ञानिनां त्रिविधं परम् ।
भाति योगमयं चापि विचारय विचक्षण ॥ ३४ ॥
अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते ।
भिन्नं गणपतेस्तस्मात् त्रिविधं नास्ति निश्चितम् ॥ ३५ ॥
गणेशपूजनेनैव त्रिविधं पूजितं भवेत् ।
प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते ॥ ३६ ॥
वामाङ्गं प्रकृत्याकारं दक्षिणाङ्गं च पुम्मयम् ।
सिद्धिं बुद्धिं विजानीहि तयोर्योगे गणेश्वरः ॥ ३७ ॥
सर्वेषां वामभागे च प्रकृतिः संस्थिताऽभवत् ।
गणेशस्योभयाङ्गे तु प्रकृतिः परिकीर्तिता ॥ ३८ ॥
एकरूपधरा माया सिद्धिबुद्धिमयी परा ।
भिन्नभोगार्थमानन्दात् सृष्टिं कर्तुं मनोदधे ॥ ३९ ॥
सिद्धेरङ्गात् समुत्पन्ना श्रीः सर्वशोभया युता ।
बुद्धेरङ्गात्तथौङ्कारप्रकृतिः प्रबभूव ह ॥ ४० ॥
ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये ।
यस्मै कस्मै नमो नित्यं मन्त्रं जप्त्वा स्वमूलकम् ॥ ४१ ॥
[[१४]]
ततस्तयोर्हृदिस्थं यद्ब्रह्म मायाप्रचालकम् ।
प्रसन्नं जातमत्यन्तं स्वरूपं स्वमदर्शयत् ॥ ४२ ॥
तत एकाक्षरं मन्त्रं गणेशस्य महात्मनः ।
दृष्ट्वा ताभ्यां हृदिस्थं स्वं तेजोरूपं सुखप्रदम् ॥ ४३ ॥
ततस्तनैव मन्त्रेण तोषयामासतुः परम् ।
गणेशं ते महाभागे ह्यादिमाये तपोन्विते ॥ ४४ ॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
वरान् दातुं समायातः सिद्धिबुद्धिसमन्वितः ॥ ४५ ॥
नरकुञ्जररूपं तत् दृष्ट्वा विस्मितमानसे ।
माये बभूवतुस्तत्र विचारं चक्रतुर्हृदि ॥ ४६ ॥
गणेशकृपया सद्यो ज्ञातं जातं महाद्भुतम् ।
तपसोग्रप्रभावेण ज्ञातं ताभ्यां रहस्यकम् ॥ ४७ ॥
सिद्धिबुद्धियुतं तं ते वीक्ष्य चोत्थाय सत्वरम् ।
प्रणेमतुर्गणेशानं पूज्य स्तोत्रं प्रचक्रतुः ॥ ४८ ॥
श्र्योङ्कारावूचतुः ।
नमस्ते गणनाथाय सर्वसिद्धिप्रदायक ।
सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९ ॥
स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे ।
अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५० ॥
परेशाय परेषां च पालकाय परात्मने ।
आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१ ॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥ ५२ ॥
ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ढये ।
अनामनाय नित्याय सर्वेशाय नमो नमः ॥ ५३ ॥
ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥ ५४ ॥
योगशान्तिमयायैव चिन्तामणिस्वरूपिणे ।
अनन्तायादिरूपाय चान्तःस्थाय नमो नमः ॥ ५५ ॥
किं स्तुवस्त्वां गणाधीश योगशान्तिधरं परम् ।
यत्र वेदादयः शान्तिं प्राप्ता योगपरायणाः ॥ ५६ ॥
मनोवाणीमयो नैव मनोवाणीविवर्जितः ।
नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥ ५७ ॥
एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर ।
श्र्यौङ्कारौ तौ समुत्थाप्य जगाद गणनायकः ॥ ५८ ॥
श्रीगणेश उवाच ।
वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥ ५९ ॥
स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् ।
पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥ ६० ॥
ब्रह्मभूयकरं पूर्णं श्र्योङ्कारयशसान्वितम् ।
मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥ ६१ ॥
गणेशवचनं श्रुत्वोचतुःश्र्योङ्कारकौ परम् ।
गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥ ६२ ॥
श्र्यौङ्कारावूचतुः ।
त्वयि भक्तिं स्थिरं देहि योगशान्तिप्रदायिकाम् ।
सङ्कल्पसिद्धिसामर्थ्यं दास्यं ते पादपद्मयोः ॥ ६३ ॥
यथा सिद्धिश्च बुद्धिश्च त्वया सम्मानिते प्रभो ।
तथाऽऽवां ते प्रिये नाथ कुरुष्व गणनायक ॥ ६४ ॥
अस्मदीयं वशे सर्वं जगद्ब्रह्म कुरु प्रभो ।
आवाभ्यां मोहितं सर्वं भवतु त्वत्प्रसादतः ॥ ६५ ॥
त्वदीयभजनेनैव मोहो ह्यस्मत्कृतः परः ।
नाशं यातु सदा देव नान्यथा योगकारिभिः ॥ ६६ ॥
शिवविष्णुमुखा देवा मोहयुक्ता भवन्तु च ।
अस्मदर्थं सदा भ्रान्ता यत्नयुक्ता भवन्तु वै ॥ ६७ ॥
[[१५]]
श्रीगणेश उवाच ।
भवतीभ्यां वृताः सर्वे वराः सुदुर्लभाः पराः ।
दत्ता मया विशेषेण मोहयेतमिदं जगत् ॥ ६८ ॥
मायाभ्यां सिद्धिबुद्धिभ्यां रचितं विविधं जगत् ।
ब्रह्म नानाविधं देव्यौ तत्राऽहं बिम्बितोऽभवम् ॥ ६९ ॥
बिम्बं मे मोहयुक्तं तन्नानाभावपरायणम् ।
मम भक्तिस्वभावेन मोहहीनं भवेत् सदा ॥ ७० ॥
मम बिम्बस्य भार्ये तु संशयो न भविष्यथः ।
तेन युक्ते महामाये बन्धमोक्षौ करिष्यथः ॥ ७१ ॥
सिद्धिबुद्धियुतोऽहं तु ब्रह्मभूतः सनातनः ।
न तत्र योग्यता देव्यौ भवत्योर्मोहनात्मनोः ॥ ७२ ॥
एवमुक्त्वा गणाधीशोऽन्तर्धानं वै चकार ह ।
माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ॥ ७३ ॥
ततो गणेशबिम्बं यत् पतितं तत्तयोर्हृदि ।
तेन युक्ते चतुर्धेदं चक्रतुर्भेदनात्मके ॥ ७४ ॥
बाह्यसौख्यकरी माया चतुर्णां जगतां किल ।
ब्रह्मणां देहरूपा च श्रीः सर्वत्र प्रकीर्तिता ॥ ७५ ॥
चतुर्णां जगतां तद्वद्ब्रह्मणां ज्ञानरूपिणी ।
ओङ्कारात्मकरूपा सा माया सर्वत्र संस्थिता ॥ ७६ ॥
ताभ्यां युक्तो गणेशानः क्रीडते विविधे रतः ।
मोहयुक्तविहीनत्वान्नानाभेदपरायणः ॥ ७७ ॥
अतः सर्वेषु जीवेषु मोहितेषु महासुर ।
मोहहीनात्मभावेषु श्र्यौङ्कारौ त्वादिसम्मतौ ॥ ७८ ॥
आदौ प्रकृतिमुच्चार्य पश्चात् पुरुष उच्यते ।
कृतं विघ्नेश्वरेणैतत् जानीहि दैत्यनायक ॥ ७९ ॥
कुत्र श्रीशब्दयुक्तश्च गणेशः पठ्यते बुधैः ।
तत्रोङ्कारसमायुक्तो मायाभ्यां खेलनात् परः ॥ ८० ॥
वामाङ्गे श्रीर्धृता तेन दक्षिणाङ्गे महासुर ।
ओङ्कारो गणनाथस्य बिम्बेन ब्रह्मरूपिणा ॥ ८१ ॥
बिम्बं सर्वत्र भावेषु तदाकारं बभूव ह ।
अतः शिवादयः सर्वे जाताः श्र्योङ्कारसंयुताः ॥ ८२ ॥
जीवा श्र्योङ्कारसंयुक्ताः पठ्यन्ते वेदवादिभिः ।
आदिमाये समाख्याते बिम्बाधारे विचारय ॥ ८३ ॥
अतः श्र्योङ्कारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज ।
सिद्धिबुद्धियुतं तात तेन सौख्यमवाप्स्यसि ॥ ८४ ॥
इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितम् ।
गच्छतं शरणं दैत्य शान्तिदं भुक्तिमुक्तिदम् ॥ ८५ ॥
भिन्नभावकरे माये श्र्योङ्कारौ परिकीर्तितौ ।
ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिर्विचक्षण ॥ ८६ ॥
एतत्ते कथितं सर्वं रहस्यं सर्वसम्मतम् ।
वेदगुह्यमहङ्कार गच्छ तं सर्वसिद्धये ॥ ८७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारासुरज्ञानोपदेशो नाम षष्ठोऽध्याय ॥
[[७]]