०५ अहङ्कारपराजयः

॥ श्रीगणेशाय नमः ॥

श्रीशिव उवाच ।

ततो देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः ।
हर्षयुक्ता विशेषेण मेनिरे चासुरं हतम् ॥ १ ॥

कालभावं प्रतीक्षन्तः स्थितास्तत्त्रैव विघ्नपम् ।
अभजंस्ते मुदा युक्ता गाणपत्यप्रियात्मकाः ॥ २ ॥

धूम्रवर्णः स्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः ।
जगाम दैत्यनाथस्य भयदः सर्वभावतः ॥ ३ ॥

स शोकसंयुतः प्राप्तः समुत्थाय महासुरान् ।
समानाय्य स्वयं स्वप्नं कथयामास विस्तरात् ॥ ४ ॥

अहमुवाच ।
शङ्खमुख्याः शृणुत यत् स्वप्ने दृष्टं भयङ्करम् ।
धूम्रवर्णो गणेशानः क्रोधयुक्तो बभूव ह ॥ ५ ॥

तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे ।
दाहयामास शस्त्राण्यस्त्राणि कुण्ठानि चाऽभवन् ॥ ६ ॥

पराक्रमविहीनोऽहं कृतस्तेन महात्मना ।
देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह ॥ ७ ॥

अतः स्वल्पेन कालेन भविष्यत्यशुभं ध्रुवम् ।
तदर्थं यत्नसंयुक्ता भवध्वं दैत्यनायकाः ॥ ८ ॥

अभिमानवचः श्रुत्वा तं पुनर्दैत्यनायकाः ।
जगुः खेदसमायुक्ता वचनं हितकारकम् ॥ ९ ॥

दैत्येन्द्रा ऊचुः ।
मा कुरुष्व वृथा चिन्तामशुभं ते कथं भवेत् ।
वरदानप्रभावेण निर्भयोऽस्यसुरेश्वर ॥ १० ॥

स्वप्नः सदा जनानां तु भवत्यत्र न संशयः ।
जागृतौ नश्वरः सोऽपि तत्र किं दुःखदं भवेत् ॥ ११ ॥

स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव वा ।
जागर्ति चेत् स्वयं जन्तुर्न किञ्चित् पश्यतीत्यहो ॥ १२ ॥

एवं हास्यादिकं कृत्वा समाश्वास्यासुरोत्तमम् ।
असुराः स्वगृहं गत्वा शौचादिकं प्रचक्रिरे ॥ १३ ॥

अथ शृणुत विप्रेन्द्राश्चरितं विघ्नपस्य च ।
अकस्मात् धूम्रवर्णः स ययौ तत्र महाबलः ॥ १४ ॥

पञ्चयोजनदूरे स नगराद्दैत्यपस्य च ।
संस्थितस्तत्र विप्रेन्द्रो नारदः सहसाऽऽगतः ॥ १५ ॥

दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः ।
गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः ॥ १६ ॥

तमुवाच गणाधीशो गच्छ त्वं दैत्यमन्दिरम् ।
अहङ्कारं वदस्वर्षे वाक्यं सामकरं महत् ॥ १७ ॥

देवाः स्वस्थानगाः सन्तु जनाः स्वाचारसंयुताः ।
नागाः स्वराज्यकर्तारो भवन्तु मत्प्रसादतः ॥ १८ ॥

राज्यं कुरु महादैत्यैर्नगरस्थो महासुर ।
नोचेद्युद्धेन जेष्यामि करिष्यामि जगद्धितम् ॥ १९ ॥

तथेति गणनाथं स जगाद नारदो मुनिः ।
अहङ्कारासुरं गत्वा कथयामास तद्वचः ॥ २० ॥

स श्रुत्वा क्रोधसंयुक्तो बभूवे तं जगाद ह ।
गच्छ विघ्नेश्वरं विप्र वद मे वचनं महत् ॥ २१ ॥

सदेवं धूम्रवर्णं च हनिष्यामि न संशयः ।
तदाज्ञावशगो नाहं भविष्यामि कदाचन ॥ २२ ॥

एवमूचे ततो विप्रं नारदं दैत्यनायकः ।
नारदो गणनाथं च ययौ जगाद तद्वचः ॥ २३ ॥

नारदस्य वचः श्रुत्वा क्रोधयुक्तो गजाननः ।
अहं हन्तुं मनश्चक्रे शस्त्रं दधार विघ्नपः ॥ २४ ॥

[[११]]

अथ नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् ।
जगाद सकलं तेभ्यो वृत्तान्तं हर्षसंयुतः ॥ २५ ॥

देवास्तं नम्य सर्वे ते धूम्रवर्णं समाययुः ।
मुनिभिः शस्त्रसंयुक्ताः स्तुत्वा तं ते जगुर्वचः ॥ २६ ॥

आज्ञां कुरु महाभाग धूम्रवर्ण नमोऽस्तु ते ।
दैत्यैर्योद्धुं च देवेशांस्त्वद्दासांस्ते वशे स्थितान् ॥ २७ ॥

तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान् ।
उवाच तान् स्वभक्तांश्च भक्तेशो भक्तवत्सलः ॥ २८ ॥

धूम्रवर्ण उवाच ।

तिष्ठध्वं देवदेवेशाः पश्यध्वं कौतुकं महत् ।
हनिष्यामि महादैत्यं मच्छानसपराङ्मुखम् ॥ २९ ॥

एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणम् ।
स्वशस्त्रं तत् समागत्यानन्तरूपं बभूव ह ॥ ३० ॥

यत्र तत्रासुरान् धृत्वा क्षणात् कण्ठे पपात तत् ।
मृता दैत्याः पुरप्रान्तसंस्थाः पाशबलार्दिताः ॥ ३१ ॥

हाहाकारश्च सर्वत्र बभूव नगरे तदा ।
दैत्या गत्वा महादैत्यं कथयामासुरुल्बणम् ॥ ३२ ॥

किं स्थितोऽसि महाराज मृता दैत्याः समन्ततः ।
पाशैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद ॥ ३३ ॥

तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः ।
जगाद सचिवादींश्च वचनं भयसङ्कुलः ॥ ३४ ॥

अहमुवाच ।
अहो कालमुखा दैत्याः स्वप्नं सत्यं बभूव ह ।
किं भविष्यति दैत्येशा विपरीतं तु दृश्यते ॥ ३५ ॥

इति तस्य वचः श्रुत्वा पुत्रौ तातं महात्मनः ।
ऊचतुस्तं भयोद्विग्नं गर्वश्रेष्ठौ महासुरौ ॥ ३६ ॥

गर्वश्रेष्ठावूचतुः ।
किं शोचसि महाभाग भयं ते न भविष्यति ।
मायायुक्तो धूम्रवर्णः किं करिष्यति तेऽप्रियम् ॥ ३७ ॥

देहधारी समायातो देवपक्षपरायणः ।
हनिष्यावो न सन्देहः सदेवं पश्य पौरुषम् ॥ ३८ ॥

एवमुक्त्वा महादैत्यं गर्वो गर्वसमन्वितः ।
श्रेष्ठः प्रणम्य दैत्येन्द्रं ततो युद्धाय जग्मतुः ॥ ३९ ॥

प्रधानाद्यैः समायुक्तौ शस्त्रवृष्टिं प्रचक्रतुः ।
पाशस्य तेजसा तत्र दग्धास्ते तु समन्ततः ॥ ४० ॥

ततो भययुताः सर्वे प्रधानाश्च बभूविरे ।
पाशतेजःप्रदग्धास्ते प्रपेलुः सर्वतोदिशम् ॥ ४१ ॥

ततोऽतिक्रोधसंयुक्तौ स्वङ्गं गृह्य महासुरौ ।
पाशान् विच्छेत्तुमायातौ महाबलपराक्रमौ ॥ ४२ ॥

तेजसा दग्धदेहौ तौ तथाऽपि खड्गधारया ।
पाशं गृह्य ?चकर्तुं तौ समुद्युक्तौ बभूवतुः ॥ ४३ ॥

ततः पाशेन सम्बद्धौ रुद्धश्वासौ महासुरौ ।
गतप्राणौ च सङ्ग्रामे बभूवतुर्महर्षयः ॥ ४४ ॥

ततो हाहारवं कृत्वा दैत्याः सर्वे भयातुराः ।
प्रपेलुर्दशदिग्देशे गतमानाः सुविह्वलाः ॥ ४५ ॥

ततः केचित् समागम्याहङ्कारं ते वचः परम् ।
जगुः क्रूरं मृतौ पुत्रौ तव दैत्यपते मृधे ॥ ४६ ॥

तेषां वचनमाकर्ण्य मूर्च्छितः सहसाऽसुरः ।
सावधानः कृतः सर्वैः शुशोच भयसङ्कुलः ॥ ४७ ॥

धृत्वा धैर्यं ततः सोऽपि युद्धार्थं सङ्गतोऽभवत् ।
मुमोचास्त्राणि सर्वाणि छेत्तुं पाशं महोज्ज्वलम् ॥ ४८ ॥

[[१२]]

पाशस्य तेजसा तानि दग्धानि च समन्ततः ।
ततोऽतिभयसंयुक्तो विचारमकरोद् हृदि ॥ ४९ ॥

अमोघास्त्रमयं मे तु वरं निष्फलतायुतम् ।
चकार पाशश्चात्यन्तं चित्रं किं वा भविष्यति ॥ ५० ॥

पलायनपरः सर्वैः स्वगृहं दैत्यनायकः ।
आगत्य स्वगुरुं तत्र समानाय्याब्रवीद्वचः ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारपराजयो नाम पञ्चमोऽध्यायः ॥