०४ देवमुनिवरप्रदानम्

॥ श्रीगणेशाय नमः ॥

शिव उवाच ।

दैत्योऽहङ्कारकोऽत्यन्तं परस्त्रीलालसस्ततः ।
बभूव दैत्यपैः सर्वैर्नागकन्याः समानयत् ॥ १ ॥

देवकन्या नराणां च स्त्रियः कन्या विशेषतः ।
समाहृत्य बलात् सोऽपि बुभुजे सर्वदूषकः ॥ २ ॥

मद्यमांसपरोऽत्यन्तं बभूव द्विजसत्तमाः ।
गणेशं त्यज्य दुष्टात्मा पापकर्मपरोऽभवत् ॥ ३ ॥

एकदाऽहं सभासंस्थं जगादाऽधर्मधारकः ।
दैत्येन्द्रैः प्रेरितः सर्वैः कृत्वा करपुटं वचः ॥ ४ ॥

अधर्मधारक उवाच ।

जितं त्वया महाभाग ब्रह्माण्डं लोकसङ्कुलम् ।
जगदीशस्त्वमेवैको नान्यः कश्चन विद्यते ॥ ५ ॥

देवा विष्णुमुखाः सर्वे भवन्ति वनसंस्थिताः ।
प्रकीर्तिताः शत्रवो नो वेदेषु च सुरासुराः ॥ ६ ॥

शस्त्रादिभिश्च देवेन्द्रा मरिष्यन्ति कदापि न ।
अमरा वेदवादेषु कथिता पश्य मानद ॥ ७ ॥

कर्मान्ना अमराः सर्वे नष्टे कर्मणि दैत्यप ।
मरिष्यन्ति न सन्देहः कर्मणः खण्डनं कुरु ॥ ८ ॥

[[८]]

जित्वा त्रिलोकराज्यं च कर्तारो बहवोऽभवन् ।
असुराः कालयोगेन देवेन्द्रैर्निहताः पुरा ॥ ९ ॥

अतश्छिद्रं समालोक्य त्वां हनिष्यन्ति देवपाः ।
अहं तेषां विनाशार्थं यतस्वासुरनायकैः ॥ १० ॥

अधर्मधारकस्यैव वचः श्रुत्वा महासुराः ।
साधु साधु ब्रुवन्ति स्म शङ्खाद्यास्तत्र संसदि ॥ ११ ॥

ततोऽहङ्कारको हृष्टो जगाद वचनं हितम् ।
साधु प्रोक्तं त्वया दैत्य कुरु सर्वैः समन्वितः ॥ १२ ॥

हृष्टो दैत्यसमूहैः स युक्तो जगाम हर्षितः ।
अधर्मधारको भूम्यां चकार कर्मखण्डनम् ॥ १३ ॥

कर्मखण्डनभावेन हाहाकाररवाकुलाः ।
जना वर्णाश्रमैर्हीनाः कृतास्तेन दुरात्मना ॥ १४ ॥

देवतायतनादीनि खण्डयामास सर्वतः ।
क्षेत्राणि च गणेशस्य मूर्तीः सर्वास्तथा द्विजाः ॥ १५ ॥

सर्वत्राऽहम्प्रतिमाश्च स्थापिता भूमिमण्डले ।
पूजका राक्षसास्तत्र कृतास्तेन सुपापिना ॥ १६ ॥

गृहे गृहेऽभिमानस्य प्रतिमा मानवैः किल ।
पूज्याः कृता द्विजास्तेनाऽऽसुरं कर्म प्रवर्तितम् ॥ १७ ॥

कृत्वाऽधर्मधरः कार्यं प्रययौ तं सुहर्षितः ।
तेनातिपूजितः सोऽपि परां मेने कृतार्थताम् ॥ १८ ॥

एवं कर्मणि नष्टे तु वर्णसङ्कररूपिणः ।
जना जातास्ततो देवा दुःखयुक्ता बभूविरे ॥ १९ ॥

मुनिभिः सहिताः सर्वे देवाश्चोपोषणान्विताः ।
विचारं चक्रुरे तस्य नाशार्थं दैत्यपस्य ते ॥ २० ॥

ततो ब्रह्मा महेशाद्यानुवाच खेदसंयुतः ।
मायायुक्ता वयं सर्वे जितास्तेन दुरात्मना ॥ २१ ॥

माया नानाविधा विप्र वेदेष्वत्र न संशयः ।
तया हीनो गणेशानो नान्यः कश्चन विद्यते ॥ २२ ॥

पञ्चचित्तमयी बुद्धिः पञ्चभ्रान्तिकरी तथा ।
सिद्धिस्तयोः पतिः सोऽपि मायिको गणनायकः ॥ २३ ॥

सिद्धिर्बुद्धिः परा माया न तयोर्विद्यते परा ।
अतो विघ्नेश्वरो दैत्यं हनिष्यति न संशयः ॥ २४ ॥

गणेशवरदानेन मत्तोऽसौ दैत्यनायकः ।
विस्मृतो गणनाथं तं मन्त्रं त्यक्त्वा स्थितोऽभवत् ॥ २५ ॥

गणेशक्षेत्रकाण्येव खण्डयामास दुर्मतिः ।
गणेशपूजनं सर्वं कर्मस्वादौ विशेषतः ॥ २६ ॥

अतो विघ्नसमायुक्तं जातं तं देवसत्तमाः ।
अस्माभिः पूजितो ढुण्ढिर्हनिष्यति महासुरम् ॥ २७ ॥

अधुनैकाक्षरं मन्त्रं जप्त्वा ध्यात्वा गजाननम् ।
पूजयित्वा तपोयुक्तास्तोषयामो विशेषतः ॥ २८ ॥

श्रीशिव उवाच ।

ब्रह्मणो वचनं श्रुत्वा देवा मुनिसमन्विताः ।
साधु साधु ब्रुवन्ति स्म तथा चक्रुः सहेश्वराः ॥ २९ ॥

निराहारसमायुक्ता एकाक्षरविधानतः ।
तोषयामासुरत्यन्तं भक्तियुक्ता गणेश्वरम् ॥ ३० ॥

एवं वर्षशते पूर्णे प्रसन्नो गणनायकः ।
ययौ तान् देवमुख्यांश्च वरदो मुनिसत्तमान् ॥ ३१ ॥

मूषकोपरि संस्थं ते ददृशुर्द्विरदाननम् ।
प्रणेमुर्हर्षसंयुक्ताः पूजयामासुरादरात् ॥ ३२ ॥

पुनः प्रणम्य विघ्नेशं देवा मुनिसमन्विताः ।
तुष्टुवुर्गणनाथं ते धूम्रवर्णं प्रहर्षिताः ॥ ३३ ॥

देवर्षय ऊचुः ।
धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।
गणेशाय परेशाय परात्पराय ते नमः॥ ३४ ॥ लम्बोदराय विघ्नानां पतये ते नमो नमः ॥ ३४ ॥

[[९]]

विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५ ॥

अनादये विशेषेण ज्येष्ठाय सर्वपूजित ।
मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६ ॥

नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने ।
ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ ३७ ॥

महोरूपाय देवाय देवदेवेशरूपिणे ।
देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ ३८ ॥

आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ ३९ ॥

शूर्पकर्णाय शूराय वीराय परमात्मने ।
चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ ४० ॥

कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे ।
स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ ४१ ॥

यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः ।
गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ ४२ ॥

वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि ।
धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ ४३ ॥

धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् ।
अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ ४४ ॥

एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः ।
उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ ४५ ॥

धूम्रवर्ण उवाच ।

भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागाः पठेत शृण्वते परम् ॥ ४६ ॥

पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा ।
यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ ४७ ॥

वरान् वृणुत देवेशा मुनयो मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ ४८ ॥

गणेशवचनं श्रुत्वा देवर्षयः प्रणम्य तम् ।
जगुः प्ररुष्टभावेन देवदेवेशमादरात् ॥ ४९ ॥

यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदाहङ्कारकं दैत्यं जहि सर्वज्ञ ते नमः ॥ ५० ॥

सर्वेभ्यो दुःखदाता स कर्मखण्डनकारकः ।
स मृतश्चेद्गणाधीश भविष्यति तदा सुखम् ॥ ५१ ॥

मायायुक्तविहीनस्त्वं तव हस्तान् महासुरः ।
मरिष्यति न सन्देहस्तस्मात्तं जहि मानद ॥ ५२ ॥

अस्मै त्वयाऽभयं दत्तं तेन सर्वे पराजिताः ।
वयं ते शरणं प्राप्ता रक्ष रक्ष महाप्रभो ॥ ५३ ॥

तव पादे दृढां भक्तिं देहि नोऽव्यभिचारिणीम् ।
तया विघ्नविहीनास्ते पदं प्राप्स्यामहे वयम् ॥ ५४ ॥

एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
तथेति तानथोक्त्वाऽसावन्तर्धानं चकार ह ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते देवमुनिवरप्रदानं नाम चतुर्थोऽध्यायः ॥

[[१०]]