॥ श्रीगणेशाय नमः ॥
[[५]]
शिव उवाच ।
रथारूढः स्वयं तत्राहं निर्जगाम दैत्यपैः ।
पुत्रौ तथा प्रधानाश्च सन्नद्धा असुरा ययुः ॥ १ ॥
नाना वर्णा महाक्रूराः कालस्य भयदायकाः ।
नाना वाहनगाः सर्वे तमनु प्रययुः किल ॥ २ ॥
चतुरङ्गचमूमध्ये शुशुभे दैत्यनायकः ।
अपारसेनया युक्तः पृथ्वीं जेतुं मनोदधे ॥ ३ ॥
शङ्खादयो महावीरा नृपान् जग्मुः सुदारुणाः ।
जित्वा राजकुलं सर्वं समाजग्मुर्महासुरम् ॥ ४ ॥
नृपास्तैः किं द्विजा युद्धं करिष्यन्ति महाबलैः ।
मृताः केचित् क्षताः केचित् केचित्तान् शरणं ययुः ॥ ५ ॥
करदांस्ते नृपान् कृत्वा तेषां राज्ये स्वसेवकान् ।
स्थापयामासुरव्यग्रान् दैत्येन्द्रा हर्षसंयुताः ॥ ६ ॥
सप्तद्वीपवतीं जित्वा पृथ्वीं पातालमाययुः ।
दैत्येन्द्रा नागमुख्यांस्ते जयार्थं जयशालिनः ॥ ७ ॥
शेषो नागयुतस्तेषां शरणं समुपागतः ।
ज्ञात्वा वरबलं योगी साम चक्रे महासुरैः ॥ ८ ॥
वार्षिकं करभारं स स्वीकृत्य स्वस्थलं ययौ ।
नागेन्द्रैः संवृतः शेषो दुःखयुक्तेन चेतसा ॥ ९ ॥
तथापि दैत्यमुख्यास्ते दैत्यं दैत्यसमन्वितम् ।
समीपे तस्य संस्थाप्य ययुरहं महाबलाः ॥ १० ॥
ततो दैत्येन्द्रसंयुक्तः काव्येनाऽहम्प्रतापवान् ।
स्वर्गं ययौ महातेजा वरगर्वसमन्वितः ॥ ११ ॥
दूतं सम्प्रेषयामासाहमिन्द्रस्यैव सन्निधौ ।
स गत्वा देवराजाय प्रणम्यैतद्वचो जगौ ॥ १२ ॥
ततः क्रोधसमायुक्त इन्द्रो देवेन्द्रमुख्यकैः ।
विचार्याङ्गिरसं सर्वैर्जगाम प्रणनाम तम् ॥ १३ ॥
तेनापि सत्कृतः सोऽपि जगाद वचनं परम् ।
सर्वेषां दुःखदं पूर्णं असुराणां जयावहम् ॥ १४ ॥
इन्द्र उवाच ।
अहं वरसमायुक्तः समायातो महाबलः ।
दूतेन नो वदत्यद्य शरणं याहि देवपैः ॥ १५ ॥
अतः सुरैः समायुक्तो भवन्तं सर्ववेदिनम् ।
समायातो वद स्वामिन् त्वदाज्ञावशगा वयम् ॥ १६ ॥
गुरुरुवाच ।
गणेशवरदानेन मत्तोऽसौ नात्र संशयः ।
जेष्यते सकलं तस्माच्छरणं नैव शोभनम् ॥ १७ ॥
अतो वयं विधातारं व्रजामहे त्वरान्विताः ।
स श्रेष्ठः सर्वभावेन करिष्यति हितं च नः ॥ १८ ॥
ततः सर्वे विधातारं जग्मुर्देवाः सवासवाः ।
प्रणम्य तं जगुः सर्वे वृत्तान्तं दैत्यसम्भवम् ॥ १९ ॥
श्रुत्वा खेदयुतो ब्रह्मा गृह्य तान् शङ्करं ययौ ।
तं प्रणम्य जगौ सर्वं स देवो वृत्तमुल्बणम् ॥ २० ॥
जगाम सोऽपि निःश्वस्य तैः सार्धं विष्णुमादरात् ।
प्रणम्य कथयामास वृत्तान्तं दुःखदायकम् ॥ २१ ॥
श्रुत्वा क्रोधयुतो विष्णुः समाश्वास्य महेश्वरम् ।
सदेवं तं जगादाऽसौ पराक्रमयुतं वचः ॥ २२ ॥
श्रीविष्णुरुवाच ।
हनिष्यामि महादैत्यमहं चासुरसंयुतम् ।
मायायुक्तत्वमेवं यन् मम तन्न प्रबाधते ॥ २३ ॥
एवमुक्त्वा महादेवं तत्रैवासंस्थितोऽभवत् ।
देवैः सह महाभागः प्रतीक्षन् दैत्यपौरुषम् ॥ २४ ॥
अहङ्कारासुरस्तत्र ज्ञात्वा वृत्तान्तमादरात् ।
प्रविवेशामरावत्यां दैत्येन्द्रैर्हर्षसंयुतः ॥ २५ ॥
इन्द्रासनसमारूढः सेव्यमानोऽप्सरोगणैः ।
[[६]]
गन्धर्वैर्गीयमानः स शुशुभे परमश्रिया ॥ २६ ॥
ततो देवपदेषु संस्थापयामास चासुरान् ।
स्वर्गभोगं चकारैवं दैत्येन्द्रैः श्वशुरेण च ॥ २७ ॥
ततः स दैत्यसङ्घैस्तैः सन्नद्धः प्रययौ द्विजाः ।
ब्रह्मलोकं महोग्रस्तं विधिहीनं ददर्श ह ॥ २८ ॥
विवेश हर्षयुक्तस्तन्नगरं दैत्यसंयुतः ।
ब्रह्मासनसमासीनो बुभुजे विविधान् परान् ॥ २९ ॥
ततः स दैत्यपैः सर्वं ज्ञात्वा वृत्तान्तमञ्जसा ।
कैलासं भानुलोकं तु शक्तिलोकं ययौ क्रमात् ॥ ३० ॥
तत्र विलाससंयुक्तो बुभुजे विविधान् परान् ।
विकुण्ठ विजयार्थं स प्रययौ दैत्यपैर्वृतः ॥ ३१ ॥
दूतं सम्प्रेषयामास कालं सर्वभयङ्करम् ।
स गत्वा केशवं नत्वा जगौ वै वाक्यमुल्बणम् ॥ ३२ ॥
काल उवाच ।
अहं त्वसुरसंयुक्त आययौ स महाबलः ।
तेनाऽहं सामभावार्थं प्रेषितस्ते प्रसन्निधौ ॥ ३३ ॥
त्यक्त्वा विकुण्ठं देवेशैर्गच्छ त्वं यत्र ते रुचिः ।
नारायण न हन्मि त्वां नोचेद्युद्धोद्यतो भव ॥ ३४ ॥
कालस्य वचनं श्रुत्वा केशवः क्रोधसंयुतः ।
जगाद तं महादैत्यं दहन्निव प्रधर्षयन् ॥ ३५ ॥
श्रीविष्णुरुवाच ।
किं मां पापस्वरूपस्त्वं वदसि मन्दविक्रम ।
हनिष्याम्यहमद्यैव दैत्ययुक्तं महासुरम् ॥ ३६ ॥
गच्छ दूत स्वभावस्थं न हन्मि त्वां खलाधम ।
स्वपदं त्यज्य दैत्येशाधीनोऽहं किं भवामि तु ॥ ३७ ॥
ततोऽहङ्कारकं गत्वा कालासुरः प्रतापवान् ।
वृत्तान्तं कथयामास दैत्येन्द्रैः संयुतं परम् ॥ ३८ ॥
श्रुत्वा दैत्यगणाः सर्वे क्रोधयुक्ता बभूविरे ।
अहङ्कारासुरेणैव युक्ता युद्धोद्यता बभुः ॥ ३९ ॥
तान्निवार्य महाबाहुरहं क्रोधसमन्वितः ।
जगाद दैत्यमुख्यान् स वाक्यं सर्वहितावहम् ॥ ४० ॥
अहमुवाच ।
किमर्थं श्रमसंयुक्ता भविष्यथ महाबलाः ।
अमोघास्त्र वरैर्युक्तः करिष्याम्यधुना सुखम् ॥ ४१ ॥
एवमुक्त्वा ततो दैत्यः सज्जं कृत्वा महद्धनुः ।
मुमोचाग्निमयं चास्त्रं सम्मन्त्र्य क्रोधसंयुतः ॥ ४२ ॥
सहसास्त्रं प्रजज्वाल दिशो दश महोज्ज्वलम् ।
विकुण्ठं दाहयामास देवान् सर्वान् समन्ततः ॥ ४३ ॥
ततः क्षोभयुता देवास्तत्त्यजुर्वरुणास्त्रकम् ।
तेनैव तन्न शान्तं तु बभूवे तेजसान्वितम् ॥ ४४ ॥
ततः खेदयुताः सर्वे पपलुर्भयसंयुताः ।
पीडिता अग्निनाऽत्यन्तं त्यक्त्वा वैकुण्ठमेव च ॥ ४५ ॥
वरुणश्च स्वयं दृष्ट्वा जगाम रणमूर्धनि ।
चन्द्रेण संयुतः सोऽपि जलं सृष्ट्वा व्यवस्थितः ॥ ४६ ॥
जलेन न च शान्तोऽभूदग्निः परमदारुणः ।
दाहयुक्तः पपालाऽसौ वरुणश्चन्द्रसंयुतः ॥ ४७ ॥
ततः शक्तिः समायाता महास्त्रं वरुणात्मकम् ।
मोचयामास तस्मात्तु जलधारा प्रवर्तिता ॥ ४८ ॥
घृतेन संयुतस्तत्र यथाग्निर्जलसंयुतः ।
जज्वाल मायया तस्याऽहङ्कारस्य विशेषतः ॥ ४९ ॥
ततो दाहसमायुक्ता शक्तिः पपाल तत्क्षणात् ।
क्रुद्धो भानुः स्वयं तत्राऽजगाम क्रोधसंयुतः ॥ ५० ॥
सोऽपि स्ववीर्यसंयुक्तं वरुणास्त्रं जहौ मृधे ।
पूर्ववद्दाहसंयुक्तः पपाल च दिवाकरः ॥ ५१ ॥
[[७]]
ततः शिवः स्वयं तद्वद्ययौ क्रोधसमन्वितः ।
हतोद्यमः पपालाऽसौ दाहयुक्तः स्वभावतः ॥ ५२ ॥
ततोऽतिखेदसंयुक्तो विष्णुः स्वयमुपागतः ।
तत्याज वारुणं शस्त्रं स्वसत्तासंयुतं परम् ॥ ५३ ॥
तथापि न स शान्तोऽभूदग्निः परमदारुणः ।
जज्वालातीव सर्वत्र दाहयामास देवपान् ॥ ५४ ॥
ततोऽतिदाहसंयुक्तः पपाल च जनार्दनः ।
विष्णुना संयुताः सर्वे देवेशाः पपलुर्भयात् ॥ ५५ ॥
गत्वा गिरिगुहासंस्था बभूवुर्भयसङ्कुलाः ।
कन्दादिभक्षयन्तस्ते दिवसानतिचक्रमुः ॥ ५६ ॥
ज्ञात्वा वृत्तान्तमेवाहं समाहृत्य स्वशस्त्रकम् ।
आग्नेयमगमद्दैत्यैर्विकुण्ठं हर्षसंयुतः ॥ ५७ ॥
तत्र स्थित्वाभिमानी स परां मेने कृतार्थताम् ।
न मत्तः श्रेष्ठ इत्येव गर्वयुक्तो बभूव ह ॥ ५८ ॥
ततो गर्वं शिवस्यैव तथा स्थाप्य पदेऽसुरः ।
श्रेष्ठं विकुण्ठनाथं च स चक्रे पुत्रमुत्तमम् ॥ ५९ ॥
पिशुनं शक्तिलोकस्य वेदघ्नं सर्वलोपकम् ।
प्रमादं ब्रह्मणो नाथं चकार मदसंयुतः ॥ ६० ॥
शङ्खमिन्द्रपदस्यैव नाथं चक्रे महासुरः ।
कालं यमस्य लोकस्य कमलं वरुणस्य च ॥ ६१ ॥
कुबेरस्य पदे स्थाप्याऽधर्मधारकमादरात् ।
ततः स्वनगरं सर्वैः समाययौ महाबलः ॥ ६२ ॥
तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् ।
अहं मेने न किञ्चिद्वै समं भाग्येन तेजसा ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते अहमसुरब्रह्माण्डजयो नाम तृतीयोऽध्यायः ॥