०२ अहमासुरराज्यप्राप्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

श्रीशिव उवाच ।

एवं वर्षसहस्रेण तं दिव्येन गजाननः ।
ययौ प्रसन्नभावेन भक्त्या वरार्थमादरात् ॥ १ ॥

आखुवाहस्त्रिनेत्रश्च गजवक्त्रो महोदरः ।
चतुर्भुजश्च पाशाद्यैः शोभितः सिद्धिबुद्धियुक् ॥ २ ॥

एकदन्तः शूर्पकर्णो देवैर्मुनिसमन्वितैः ।
संस्तुतः स्वगणैश्चैव सेवितः सर्वदायकः ॥ ३ ॥

तं दृष्ट्वाऽहं समुत्थाय प्रणनाम कृताञ्जलिः ।
पूजयामास विघ्नेशं सिद्धिबुद्धिसमन्वितम् ॥ ४ ॥

ततः क्रमेण देवान् स मुनीन् पूज्य पुनः प्रभुम् ।
प्रणनाम प्रतुष्टाव गणेशं प्रकृताञ्जलिः ॥ ५ ॥

अहमुवाच ।
नमस्ते गणनाथाय हेरम्बाय परात्मने ।
सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ ६ ॥

ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे ।
साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ ७ ॥

ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः ।
देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ ८ ॥

स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते ।
संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ ९ ॥

प्रकाशकेषु सूर्याय मोहकेषु च शक्तये ।
देवेषु देवराजाय विनायकाय ते नमः ॥ १० ॥

अग्नये ते दाहकेषु यमाय नीतिधारिणाम् ।
रक्षःसु नैर्ऋतायैव शूर्पकर्णाय ते नमः ॥ ११ ॥

वायवे बलयुक्तेषु निधिषु धनपाय ते ।
रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ १२ ॥

प्रजापतिषु दक्षाय नागेशे शेषरूपिणे ।
अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ १३ ॥

यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः ।
तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ १४ ॥

धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता ।
माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ १५ ॥

एवमुक्त्वा गणेशानं प्रणनाम महासुरः ।
हर्षेण महता युक्तस्तमुवाच गजाननः ॥ १६ ॥

श्रीगणेश उवाच ।

त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव मयि भावप्रदायकम् ॥ १७ ॥

[[४]]

पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः ।
अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ १८ ॥

वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् ।
तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ १९ ॥

अहमुवाच ।
प्रसन्नोऽसि यदा नाथ भक्तिं देहि त्वदीयिकाम् ।
यद्यदिच्छामि तत्तन्मे सफलं सर्वदाऽस्तु च ॥ २० ॥

मायाविकारयुक्तेभ्यो मरणं नैव मे भवेत् ।
राज्यं ब्रह्माण्डगोलस्य देहि मे भोगसंयुतम् ॥ २१ ॥

आरोग्यं विजयं ढुण्ढे सङ्ग्रामे ह्यतुलं तथा ।
अमोघास्त्रं सदा मेऽस्तु त्वत्प्रसादाच्च देहि भोः ॥ २२ ॥

तथेति तमहं देवो जगाद गणनायकः ।
अन्तर्धाय स्वमात्मानं निजलोकं जगाम ह ॥ २३ ॥

ततोऽतिहर्षसंयुक्तोऽहं जगाम कविं पुनः ।
तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ॥ २४ ॥

श्रुत्वा मुनिवरः सोऽपि तं प्रशंस्य महासुरम् ।
असुरानाह्वयामास श्रेष्ठान् काव्यो महामतिः ॥ २५ ॥

तस्याज्ञया त्वरावन्तो मुनिं सर्वे समागताः ।
असुरांस्तान् महातेजा हितं काव्यो जगाद वै ॥ २६ ॥

अहमासुरवृत्तान्तं श्रुत्वा ते शुक्रवक्त्रतः ।
हर्षितास्तं प्रणम्यादौ जगुर्वचो हितावहम् ॥ २७ ॥

असुरा ऊचुः ।
आज्ञापय महायोगिन् कार्यं चेतोगतं प्रभो ।
करिष्यामो वयं दासास्त्वत्पादस्य जवान्विताः ॥ २८ ॥

तेषां वचनमाकर्ण्य काव्यः सर्वार्थकोविदः ।
ब्राह्मणान् वेदनिष्ठांश्च समानाय्य पुपूज ह ॥ २९ ॥

तैरहं सिञ्चयामासासुराणां राज्यकर्मणि ।
यथाशास्त्रविधानेन दैत्याधीशं चकार ह ॥ ३० ॥

प्रधानास्तस्य पञ्चाऽसन् सुदृढास्तेजसा युताः ।
शङ्खो वेदघ्नकः कालः पैशुनोऽधर्मधारकः ॥ ३१ ॥

नगरं निर्ममे सोऽपि विषयप्रियनामकम् ।
अहमासुरकस्तत्र राज्यं चकार हर्षतः ॥ ३२ ॥

समायाता निवासार्थं जना वर्णाश्रमान्विताः ।
असुरा विविधाश्चैव सुखं लेभुः समास्थिताः ॥ ३३ ॥

प्रमादासुरपुत्रीं वै ममतां रूपशालिनीम् ।
तस्मै ददौ प्रपादश्च यौवनस्थां महात्मने ॥ ३४ ॥

ममतासंयुतो रेमे दैत्येन्द्रोहं प्रहर्षितः ।
मोहितो मायया तस्या ममताया वशे स्थितः ॥ ३५ ॥

तस्यां पुत्रौ महावीर्यौ जनयामास दैत्यपः ।
गर्वश्रेष्ठौ तयोर्नाम चक्रुः सर्वे द्विजातयः ॥ ३६ ॥

एवं बहौ गते काले तमुवाच प्रमादकः ।
किं स्थितोऽसि महावीर जय देवादिकान् प्रभो ॥ ३७ ॥

वरदानबलेन त्वं निर्भयोऽसि न संशयः ।
वराणां सफलं सर्वं कुरु भोगपरं महः ॥ ३८ ॥

तथेति श्वशुरं सोऽपि जगादाऽहं प्रतापवान् ।
समानाय्य कविं तत्र पूजयामास दैत्यपैः ॥ ३९ ॥

तस्याऽज्ञां गृह्य दैत्येशः परान् दैत्यान् समाह्वयत् ।
तैः संयुतः स शुक्रेण प्रधानैः शुशुभेऽसुरः ॥ ४० ॥

दिग्जयार्थमहं तत्र सर्वानाज्ञापयत् प्रभुः ।
सन्नद्धास्तं समाजग्मुर्दैत्या परमदारुणाः ॥ ४१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमासुरराज्यप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥