॥ श्रीगणेशाय नमः ॥
[[१]]
शौनक उवाच ।
विघ्नराजचरित्रं तु श्रुतं सर्वप्रदं परम् ।
ममनाशकरं पूर्णं त्वत्तोऽस्माभिर्महामते ॥ १ ॥
धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितम् ।
व्यासाधिकोऽथवा किं नु शिष्यस्तस्य महात्मनः ॥ २ ॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत् कथामृतम् ।
माहात्म्यं धूम्रवर्णस्याधुना वद सुखप्रदम् ॥ ३ ॥
सूत उवाच ।
शृणु शौनक माहात्म्यं धूम्रवर्णस्य सर्वदम् ।
यथा व्यासाच्छ्रुतं पूर्णं तथा ते कथयाम्यहम् ॥ ४ ॥
श्रुत्वा विघ्नेशमाहात्म्यं दक्षो हृष्टमना अभूत् ।
प्रणम्य मुद्गलं सोऽपि पप्रच्छ विनयान्वितः ॥ ५ ॥
दक्ष उवाच ।
विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदम् ।
न तृप्तोऽहं महायोगिन्नमृतादधिकं यतः ॥ ६ ॥
अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तरात् ।
कीदृशाऽंशमयश्चायं गणेशो धूम्रवर्णकः ॥ ७ ॥
कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते ।
कति तस्यावताराश्च किं कर्मा कीदृशं महः ॥ ८ ॥
केन संसाधितो देवो देहधारी बभूव ह ।
कं दैत्यं वशमानीय धर्ममास्थापयत् प्रभुः ॥ ९ ॥
इत्यादि सर्वमाहात्म्यं वद योगीन्द्र सत्तम ।
ब्रह्माण्डे त्वत्समं नास्ति ब्रह्मदायकपात्रकम् ॥ १० ॥
सूत उवाच ।
एवं पृष्टो महायोगी मुद्गलः शौनकोऽब्रवीत् ।
दक्षं हृष्टमनाः साक्षात् ज्ञात्वा भक्तियुतं परम् ॥ ११ ॥
मुद्गल उवाच ।
दक्ष त्वं योगिवन्द्योऽसि निश्चितं सर्वभावतः ।
नान्यथा गणनाथस्य कथायां जायते रसः ॥ १२ ॥
धूम्रवर्णावतारस्य चरितं सर्वसिद्धिदम् ।
कथयिष्यामि भक्त्या ते समासेन प्रजापते ॥ १३ ॥
विस्तरेण शिवाद्याश्च वेदाद्या न बभूविरे ।
समर्थास्तत्र कोऽहं तु स्वल्पज्ञानप्रधारकः ॥ १४ ॥
अत्र ते कथयिष्यामि चेतिहासं पुरा भवम् ।
शेषस्य शङ्करस्यैव संवादेन समन्वितम् ॥ १५ ॥
प्रणम्य शेषनागश्च एकदा शङ्करं पुरा ।
पप्रच्छ सिद्धिदं पूर्णं सर्वज्ञं करुणानिधिम् ॥ १६ ॥
त्वत्तः परतरं नास्ति वेदश्रुतिप्रमाणतः ।
त्वं ध्यानसंयुतः स्वामिन् भजसे कं शिवं परम् ॥ १७ ॥
अतः संशययुक्तोऽहं पृच्छामि सर्वभावतः ।
किं मोहार्थं महेशान करोषि चेष्टितं नवम् ॥ १८ ॥
मुद्गल उवाच ।
एवं पृष्टः शिवः साक्षात्तमुवाच सुहर्षितः ।
भक्तं योगप्रियं दृष्ट्वा साधु चेष्टासमन्वितम् ॥ १९ ॥
शिव उवाच ।
एवं पृष्टोऽहमेकान्ते सनकाद्यैर्महाप्रियैः ।
तत्तेऽहं शृणु वक्ष्यामि ज्ञानं गाणेशबोधकम् ॥ २० ॥
एकदा सनकाद्याश्च दृष्ट्वा मां नियमे रतम् ।
पप्रच्छुस्त्वं यथा शेष तथा संशयसंयुताः ॥ २१ ॥
सनकाद्या ऊचुः ।
महेश्वरो भवान् साक्षात्तवेशो नैव विद्यते ।
कं ध्यायसि महादेव मिथ्या मोहप्रदायक ॥ २२ ॥
तेषां तद्वचनं श्रुत्वा हर्षितोऽहं च काश्यप ।
ऊचे योगं गणेशाख्यं पूर्णशान्तिप्रदायकम् ॥ २३ ॥
ईशत्वमनीशत्वं च मायायुक्तं न संशयः ।
ब्रह्मणि ब्रह्मभूतस्य कथं तद्वर्तते द्विजाः ॥ २४ ॥
[[२]]
येनेशत्वं च मे दत्तमनीशत्वं तथाऽपरम् ।
जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुतः ॥ २५ ॥
अहङ्कारयुताः सर्वे न जानन्ति गजाननम् ।
तं जित्वाऽहं मुनीन्द्राश्च सेवे तस्य पदद्वयम् ॥ २६ ॥
शिवस्य वचनं श्रुत्वा सनकाद्यास्तमब्रुवन् ।
विस्मिता भावसंयुक्ता गणेशज्ञानलालसाः ॥ २७ ॥
सनकाद्या ऊचुः ।
अभिमानं महादेव जेतुं नैव प्रशक्यते ।
वेदादिभिः च देवेशैरस्माभिश्चान्ययोगिभिः ॥ २८ ॥
नरोऽहं देवरूपोऽहं आत्माहं स्वस्वरूपकः ।
ब्रह्माहं च महेशान अहं तेषु प्रतिष्ठितः ॥ २९ ॥
अहं केनैव योगेन सदाशिव जितस्त्वया ।
वद तस्य चरित्रं नो विस्तरेण सुशान्तिदम् ॥ ३० ॥
श्रीशिव उवाच ।
अहं ब्रह्मणि विप्रेशा गतो ब्रह्मास्मिना सह ।
महावाक्यमये योगे ब्रह्माऽहं दृश्यते न च ॥ ३१ ॥
अहं नास्ति तथा ब्रह्म नेति ब्रह्माहमञ्जसा ।
बोधार्थं साधनं चेदं महावाक्यं स्मृतं परम् ॥ ३२ ॥
ततः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् ।
न बुद्धं वचनं नाथ त्वदीयं दुर्गमं परम् ॥ ३३ ॥
अतः सुलभयोगेन वद योगं महेश्वर ।
दयया शिष्यमुख्यांश्च तारणाय सुशान्तिदम् ॥ ३४ ॥
श्रीशिव उवाच ।
अत्र वः कथयिष्यामि चेतिहासं पुरातनम् ।
अहम्भावविनाशार्थमहङ्कारस्य सौख्यदम् ॥ ३५ ॥
एकदा ज्योतिषां नाथः सूर्य आत्मा शरीरिणाम् ।
ब्रह्मणां चाभिषिक्तः स कर्मणां राज्यकर्मणि ॥ ३६ ॥
स प्राप्य राज्यमुग्रं तत् कर्मणां ज्योतिषां पतिः ।
अभिमानयुतोऽत्यन्तं बभूवे देवदेवपः ॥ ३७ ॥
कर्मणा सृष्टिकर्ता वै ब्रह्मा लोकपितामहः ।
पालकः कर्मणा विष्णुर्हरः संहारकोऽभवत् ॥ ३८ ॥
कर्मणाऽन्नप्रभावेण पोषिका शक्तिरेव च ।
कर्माधीनं जगत् सर्वं सेश्वरं नात्र संशयः ॥ ३९ ॥
सोऽहं कर्ममयो देवः कर्मणां चालकः परः ।
मदधीनमिदं भाति भानुरेवं सुगर्वितः ॥ ४० ॥
अहङ्कारेण संयुक्तश्छिक्कां चक्रे कदा प्रभुः ।
तस्य च्छिक्कासमुत्पन्नः पुरुषः सुन्दराकृतिः ॥ ४१ ॥
स पपात महीपृष्ठे न ज्ञातस्तेन भानुना ।
महाकायो विशालाक्षो बलयुक्तो व्यराजत ॥ ४२ ॥
तत्राकस्मात् समायातः शुक्रः सर्वार्थकोविदः ।
पप्रच्छ हर्षसंयुक्तस्तं दृष्ट्वा भावसंयुतः ॥ ४३ ॥
शुक्र उवाच ।
कोऽसि त्वं कुत्र ते वासः कर्तुमिच्छसि किं वद ।
माता पिता च ते त्राता कः किं मत्त इहेच्छसि ॥ ४४ ॥
पुरुष उवाच ।
सूर्यपुत्रो द्विजश्रेष्ठ तस्य च्छिक्कासमुद्भवः ।
अनाथोऽहं महाभाग पतितो धरणीतले ॥ ४५ ॥
त्वं दयायुक्तभावेन मां पृच्छसि न संशयः ।
त्वदधीनो भविष्यामि शाधि मां मुनिसत्तम ॥ ४६ ॥
श्रीशिव उवाच ।
तस्य तद्वचनं श्रुत्वा शुक्रो योगविदांवरः ।
ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् ॥ ४७ ॥
शुक्र उवाच ।
अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः ।
अहन्नामा भवस्वाद्य तपः कुरु महामते ॥ ४८ ॥
एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् ।
मन्त्रं विधिसमायुक्तं ततः सोऽन्तर्हितोऽभवत् ॥ ४९ ॥
[[३]]
अहं तत्र तपस्तेपे ध्यात्वा गणपतिं हृदि ।
निराहारपरो भूत्वा जपमन्त्रपरायणः ॥ ५० ॥
शीतोष्णवातवर्षादिसहने दृढनिश्चयः ।
जित्वा खानि प्रयत्नेन तोषयामास विघ्नपम् ॥ ५१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमुत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥