१६ चरितमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

ततो बहौ गते काले दैत्येन्द्रा बलसंयुताः ।
देवान् जेतुं प्रसन्नद्धा बभूवुः क्रोधसंयुताः ॥ १ ॥

प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम् ।
आययुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥ २ ॥

तानुवाच स्वयं देवी दितिः क्रोधसमन्विता ।
मा गच्छत महादुष्टाः धर्मं सन्त्य?ज्य दैत्यपाः ॥ ३ ॥

चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु ।
पातालविवरेष्वत्र यूयं राज्यसमन्विताः ॥ ४ ॥

प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः ।
ययुर्देवजयार्थं ते ह्यधर्मेण प्रणोदिताः ॥ ५ ॥

दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम् ।
पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥ ६ ॥

एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता ।
अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥ ७ ॥

दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम् ।
योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥ ८ ॥

विनताद्यास्तथा दक्ष कश्यपेनोपदेशिताः ।
शान्तियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥ ९ ॥

दक्ष उवाच ।

दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने ।
कथं गणेश्वरं भक्त्या भजन्ति वद मानवाः ॥ १० ॥

मुद्गल उवाच ।

सकामिकं करोति चेन्नरः कर्म यथाविधि ।
आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥ ११ ॥

निष्कामिकं करोति चेन्नरः दैवं प्रकीर्तितम् ।
विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥ १२ ॥

स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम् ।
देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥ १३ ॥

तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम् ।
भक्तिभावार्थमानन्दात् सस्त्रीको मुनिराकरोत् ॥ १४ ॥

एतत्ते कथितं सर्वं विघ्नराजचरित्रकम् ।
सर्वसिद्धिप्रदं पूर्णं शान्तिदं भक्तिकारणम् ॥ १५ ॥

एवं नानाऽवताराश्च विघ्नराजस्य मानद ।
तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥ १६ ॥

अयं विघ्नेश्वरो देवः समस्वानन्दगो भवेत् ।
सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥ १७ ॥

पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः ।
तस्यार्थं शृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥ १८ ॥

सम्प्रज्ञातमयं ब्रह्माऽसम्प्रज्ञातगतं तथा ।
भ्रमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥ १९ ॥

भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम् ।
ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥ २० ॥

विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते ।
विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणां च निरन्तरम् ॥ २१ ॥

स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते ।
एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥ २२ ॥

इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ २३ ॥

प्रसन्ने विघ्नराजेन्द्रे किं किं वै दुर्लभं भवेत् ।
सर्वसिद्धियुतः सोऽन्ते नरो ब्रह्मैव जायते ॥ २४ ॥

नानेन सदृशं किञ्चित् पावनं कुत्र वर्तते ।
भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥ २५ ॥

पञ्चाग्निसाधनादीनि तपांसि विविधानि यः ।
कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥ २६ ॥

[[३७]]

तीर्थानि विविधान्येव साधयित्वा फलं लभेत् ।
तेभ्योऽधिकं लभेत् पुण्यं खण्डस्यास्य श्रवान्नरः ॥ २७ ॥

यज्ञानां साङ्गजातानां फलं तस्मात् प्रजापते ।
अधिकं श्रवणादस्य लभेत् खण्डस्य मानवः ॥ २८ ॥

इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः ।
तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥ २९ ॥

पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः ।
आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥ ३० ॥

वन्ध्यादिदोषभावेन पीडितो यदि मानवः ।
अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥ ३१ ॥

यस्य गेहे स्थितश्चायं खण्डो विघ्नेशभक्तिदः ।
कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥ ३२ ॥

नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा ।
ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥ ३३ ॥

धर्मार्थकाममोक्षाणां दायकोऽयं प्रकीर्तितः ।
ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥ ३४ ॥

बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् ।
संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥ ३५ ॥

इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् ।
भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥ ३६ ॥

न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् ।
साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥ ३७ ॥

सूत उवाच ।

एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ३८ ॥

मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् ।
यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥ ३९ ॥

भवतां सङ्गयोगेन पावितोऽहं न संशयः ।
श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥ ४० ॥

विघ्नराजसमं नैव यथा विप्र तथा परम् ।
चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ४१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः समाप्तः ॥

॥ इति श्रीमुद्गलपुराणे सप्तमः खण्डः समाप्तः ॥

॥ श्रीगजाननार्पणमस्तु ॥

॥ इति श्रीमुद्गलपुराणे सप्तमः खण्डः समाप्तः ॥