॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततः सा गणनाथं तं सस्मार हृदि सर्वदा ।
तन्मयं विश्वमेवेदमालोकयदशेषतः ॥ १ ॥
एकदा माघमासे तु शुक्लपक्षे गजाननम् ।
पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥ २ ॥
मूर्तिमध्याद्गणाधीशः प्रकटोभूच्चतुर्भुजः ।
अनन्तसूर्यसङ्काशतेजोयुक्तः प्रजापते ॥ ३ ॥
तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् ।
स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता ॥ ४ ॥
गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् ।
बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥ ५ ॥
श्रीगणेश उवाच ।
पुत्रोऽहं ते महाभागे वरदानप्रभावतः ।
मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥ ६ ॥
ततः सोन्मील्य चक्षुस्तं पश्यति स्म भयातुरा ।
बालं चतुर्भुजं देवं शुण्डादण्डधरं परम् ॥ ७ ॥
परश्वादिमहास्त्रैश्च संयुतं चन्द्रशेखरम् ।
लम्बोदरं चैकदन्तं शेषनाभिसमायुतम् ॥ ८ ॥
शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् ।
अमूल्यवस्त्रसंयुक्तं गले चिन्तामणिं धरम् ॥ ९ ॥
दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता ।
तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥ १० ॥
ततस्तं कश्यपो नत्वा प्रार्थयामास शान्तिदम् ।
बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥ ११ ॥
धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते ।
मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥ १२ ॥
यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ।
कथं स मम पुत्रत्वं प्राप्तोऽसीति विडम्बनम् ॥ १३ ॥
एवं सम्प्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् ।
चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥ १४ ॥
[[३४]]
तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुतः ।
दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥ १५ ॥
ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि ।
पुत्रभावप्रकाशार्थं तथा तौ सम्बभूवतुः ॥ १६ ॥
स्नापयित्वा दितिर्बालं स्तनपानमकारयत् ।
जातकर्म चकारैव कश्यपो हर्षसंयुतः ॥ १७ ॥
द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः ।
पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥ १८ ॥
स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले ।
असुरान् नागकूर्मादीन् स्थापयिष्यति बालकः ॥ १९ ॥
तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥ २० ॥
मुद्गल उवाच ।
ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे ।
प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥ २१ ॥
सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् ।
देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥ २२ ॥
इन्द्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः ।
आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥ २३ ॥
चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे ।
केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥ २४ ॥
शरणं केशवं चैव केचिज्जग्मुः प्रजापते ।
तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥ २५ ॥
असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः ।
दैत्येन्द्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥ २६ ॥
छिन्नभिन्नकृताङ्गांस्तान् दितिर्दृष्ट्वा शुशोच ह ।
ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥ २७ ॥
तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः ।
परशोस्तेजसा सर्वं व्याप्तं पातालमण्डलम् ॥ २८ ॥
व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे ।
देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥ २९ ॥
ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् ।
पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥ ३० ॥
परशोस्तेजसा तत्र सन्दग्धा इव देवपाः ।
न शान्तिं प्रलभन्ते स्म हाहाकाररवाकुलाः ॥ ३१ ॥
ततः शम्भू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् ।
परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥ ३२ ॥
शान्तियुक्तं महास्त्रं तद्बभूवे च प्रजापते ।
ततो देवेन्द्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥ ३३ ॥
तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः ।
नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसम्पुटाः ॥ ३४ ॥
देवर्षय ऊचुः ।
नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये ।
अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५ ॥
परेशाय परेषां च पतये परमात्मने ।
विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६ ॥
लम्बोदराय सर्वेषामुदरस्थाय ते नमः ।
महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७ ॥
क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे ।
शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥ ३८ ॥
गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप ।
ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥ ३९ ॥
न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः ।
चतुर्षु ते पञ्चमाय हेरम्बाय नमो नमः ॥ ४० ॥
[[३५]]
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
एकदन्ताय देवायासुराय ते नमो नमः ॥ ४१ ॥
अनाथानामनाथाय सनाथानां सनाथक ।
ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥ ४२ ॥
ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे ।
देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥ ४३ ॥
किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् ।
अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥ ४४ ॥
एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः ।
स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥ ४५ ॥
चतुर्भुज उवाच ।
वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् ।
दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥ ४६ ॥
स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् ।
पठतां शृण्वतां चैव भयनाशकरं परम् ॥ ४७ ॥
विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः ।
धनधान्यादिकं चान्ते मल्लोकं पठनात् परम् ॥ ४८ ॥
एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः ।
भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ ४९ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज ।
तदा ते पादपद्मे वै भक्तिरस्तु निरन्तरम् ॥ ५० ॥
आज्ञां कुरु महाभाग तथा वर्तामहे वयम् ।
दितिजदैत्यसन्त्रासतापिताः सततं वयम् ॥ ५१ ॥
चतुर्भुज उवाच ।
अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् ।
मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥ ५२ ॥
स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा ।
पाताले दानवादीनां स्वधर्मस्था भवन्तु ते ॥ ५३ ॥
यदि भूत्वा विपथगा इमे गर्वेण मोहिताः ।
सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥ ५४ ॥
तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः ।
तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥ ५५ ॥
चतुर्भुजश्च दैत्येन्द्रान् सर्वानाज्ञापयत् प्रभुः ।
ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥ ५६ ॥
ततश्चतुर्भुजो देवोऽन्तर्दधे च प्रजापते ।
कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥ ५७ ॥
पितरौ वाक्यमूचे सा वाणी चाऽकाशसम्भवा ।
स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥ ५८ ॥
तथा चकार दित्या स कश्यपो ब्राह्मणैः सह ।
स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥ ५९ ॥
हृदि चिन्तामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् ।
संस्थितौ भक्तिसंयुक्तौ दितिकश्यपकौ किल ॥ ६० ॥
आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता ।
गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥ ६१ ॥
एतच्चतुर्भुजस्यैव चरितं कथितं मया ।
विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥ ६२ ॥
य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु ।
भुक्तिं मुक्तिं लभेद्ब्रह्म भक्तिं विघ्नेश्वरे पराम् ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः ॥
[[३६]]