॥ श्रीगणेशाय नमः ॥
दितिरुवाच ।
गणेशस्य महाभाग वदोपासनकं प्रभो ।
तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरन्तरम् ॥ १ ॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् ।
दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ २ ॥
सा तं प्रणम्य योगीन्द्रं कश्यपं प्रययौ ततः ।
वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥ ३ ॥
निराहारेण संयुक्ता गणेशध्यानतत्परा ।
नासाग्रन्यस्तदृष्टिः सा मन्त्रजापं चकार च ॥ ४ ॥
त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता ।
तपः प्रभावयोगेन भ्रान्तिहीनाऽभवद्विधे ॥ ५ ॥
[[३२]]
पुत्रपौत्रादिके भावे रसहीना बभूव ह ।
योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदाननम् ॥ ६ ॥
एवं वर्षसहस्रेण योगभूतिपरायणा ।
शान्तियोगं समासाद्य योगिवन्द्या बभूव सा ॥ ७ ॥
तथा सा दत्तमार्गं तं दितिः सस्मार चेतसि ।
भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥ ८ ॥
ततः प्रसन्नभावेन तां ययौ गणनायकः ।
जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥ ९ ॥
गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता ।
उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ॥ १० ॥
पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृताञ्जलिः ।
गणेशं दक्ष ते पुत्री दितिः साश्रुमुखाम्बुजा ॥ ११ ॥
दितिरुवाच ।
नमस्ते विघ्नराजाय भक्तविघ्नविदारण ।
अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥ १२ ॥
काश्यपाय परेशाय विनायकाय ढुण्ढये ।
लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥ १३ ॥
दीनानां पतये तुभ्यं दीनदीनाय ते नमः ।
दीनपालकनाथाय हेरम्बाय नमो नमः ॥ १४ ॥
परेशाय गणेशाय परात्परतमाय ते ।
परात्पराणां कर्त्रे ते महोदराय वै नमः ॥ १५ ॥
अनादये च सर्वेषामादिमूर्तिधराय च ।
आदिपूज्याय सर्वेषामन्तःस्थाय नमो नमः ॥ १६ ॥
शिवपुत्राय विष्णोश्च पुत्राय परमात्मने ।
वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥ १७ ॥
सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये ।
ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ॥ १८ ॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणां ब्रह्मरूपायैकदन्ताय नमो नमः ॥ १९ ॥
गजाननाय देवायासुराय समभाविने ।
योगाकाराय योगिभ्यो योगदाय नमो नमः ॥ २० ॥
किं स्तौमि त्वां गणाधीश शान्तीनां शान्तिरूपिणम् ।
वेदादयः शिवाद्याश्च यत्र शान्तिं प्रलेभिरे ॥ २१ ॥
अतस्त्वां प्रणमाम्येव सर्वेऽशं तेन विघ्नप ।
सन्तुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥ २२ ॥
यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् ।
भव स्वामिन् दयासिन्धो तेनाऽहं तारिता त्वया ॥ २३ ॥
आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन ।
साऽहं कया महाभक्त्या भजिष्यामि निरन्तरम् ॥ २४ ॥
त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः ।
तव मातुः कथं मायामयो बन्धः कदाचन ॥ २५ ॥
भक्तिं त्वच्चरणे ढुण्ढे देहि नित्यं विशेषतः ।
आसुरीं बन्धहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥ २६ ॥
एवमुक्त्वा गणाधीशं ननाम दक्षनन्दिनी ।
दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥ २७ ॥
विघ्नेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् ।
पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥ २८ ॥
तव पुत्रो भविष्यामि आसुरीभावनाशकः ।
त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥ २९ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशो ब्रह्मनायकः ।
दितिः स्वगृहमागत्य प्रणनाम पतिं स्वकम् ॥ ३० ॥
[[३३]]
वृत्तान्तं कथयामास कश्यपो हर्षितोऽभवत् ।
श्रुत्वा तां स समालिङ्ग्य जगाद साश्रुलोचनः ॥ ३१ ॥
कश्यप उवाच ।
धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः ।
यया दृष्टो गणाध्यक्षः सर्वेभ्यः शान्तिदायकः ॥ ३२ ॥
अहो ते ससुतो देवि असुर्याः प्रभविष्यति ।
महद्भाग्यं गणाधीशो योगिवन्द्या त्वमञ्जसा ॥ ३३ ॥
तारितोऽहं त्वया नूनं सुस्त्रिया गणपे रतः ।
धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥ ३४ ॥
एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह ।
दितिः प्रणम्य तं विप्रं सेवायां संस्थिताऽभवत् ॥ ३५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥