१३ दत्तगीतावर्णनम्

॥ श्रीगणेशाय नमः ॥

कश्यप उवाच ।

एकदा माघमासे तु मकरस्थे दिवाकरे ।
तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ १ ॥

सर्वे संहृष्टभावस्था माघस्नानपरायणाः ।
ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ २ ॥

ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये ।
त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ ३ ॥

भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः ।
अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ ४ ॥

गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् ।
ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ ५ ॥

तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः ।
योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥ ६ ॥

तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् ।
गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ ७ ॥

शिवादय ऊचुः ।
भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण ।
साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ ८ ॥

अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः ।
देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ ९ ॥

तव दर्शनमात्रेण कृतकृत्या वयं प्रभो ।
जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ १० ॥

एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः ।
जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ ११ ॥

दत्तात्रेय उवाच ।

ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः ।
शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥ १२ ॥

ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः ।
समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ १३ ॥

तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः ।
हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ १४ ॥

[[२९]]

शिवाद्या ऊचुः ।
ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् ।
नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ १५ ॥

अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् ।
मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ १६ ॥

तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः ।
दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ १७ ॥

दत्त उवाच ।

गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः ।
ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ १८ ॥

अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः ।
तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ १९ ॥

प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी ।
माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ २० ॥

विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी ।
आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ २१ ॥

चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी ।
बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ २२ ॥

सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी ।
बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ २३ ॥

विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी ।
तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ २४ ॥

कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी ।
ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ २५ ॥

समं ब्रह्मेति तत्रैव माया समस्वरूपिणी ।
सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ २६ ॥

असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् ।
सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ २७ ॥

सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः ।
उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ २८ ॥

अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया ।
स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ २९ ॥

आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः ।
महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ ३० ॥

शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः ।
तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ ३१ ॥

पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु ।
तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ ३२ ॥

एवं नानाविधान्येव ब्रह्माणि कथितानि च ।
वेदादिषु समस्तानि मायामोहयुतानि तु ॥ ३३ ॥

तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः ।
ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ ३४ ॥

स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् ।
ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ ३५ ॥

उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते ।
साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ ३६ ॥

भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः ।
देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ ३७ ॥

तयोर्योगे गणेशानो देहधारी बभूव ह ।
साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ ३८ ॥

संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः ।
तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ ३९ ॥

[[३०]]

पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह ।
पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ ४० ॥

तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति ।
चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ ४१ ॥

समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः ।
तं भजामि विशेषेण चित्तचालनकारकम् ॥ ४२ ॥

कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै ।
तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ ४३ ॥

अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः ।
सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ ४४ ॥

तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह ।
संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ ४५ ॥

वसिष्ठ उवाच ।

ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् ।
ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ ४६ ॥

पतिरूपा महामाया गणेशे संस्थिताऽभवत् ।
यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ ४७ ॥

वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः ।
जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ ४८ ॥

अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु ।
गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ ४९ ॥

ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः ।
स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ ५० ॥

अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च ।
ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ ५१ ॥

ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने ।
पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ ५२ ॥

अतो मायाविकारेण हीनोऽयं गणनायकः ।
ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ ५३ ॥

इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् ।
योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ ५४ ॥

नारद उवाच ।

गणेशे त्वं महायोगिंस्तदाकारो न संशयः ।
अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ ५५ ॥

न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् ।
इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ ५६ ॥

दत्त उवाच ।

देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा ।
शुभाशुभं विशेषेण नामरूपविकारतः ॥ ५७ ॥

ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः ।
सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ ५८ ॥

ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता ।
नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ ५९ ॥

अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् ।
दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ ६० ॥

अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः ।
तं भजामि विशेषेण देहचेष्टापरायणः ॥ ६१ ॥

देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् ।
स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ ६२ ॥

तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् ।
तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ ६३ ॥

ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् ।
देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ ६४ ॥

[[३१]]

अनेन योगमार्गेण भजामि गणनायकम् ।
न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ ६५ ॥

यथा करोमि नित्यं तु भक्षणादिकमादरात् ।
तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ ६६ ॥

नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् ।
न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ ६७ ॥

ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् ।
तथाऽपि देहचित्तेऽन्यत् करिष्य?तः स्वभावतः ॥ ६८ ॥

न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते ।
श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ ६९ ॥

अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः ।
दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ ७० ॥

गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् ।
कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ ७१ ॥

इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः ।
नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ ७२ ॥

जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः ।
कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ ७३ ॥

नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु ।
त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ ७४ ॥

भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च ।
निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ ७५ ॥

एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः ।
शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ ७६ ॥

सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् ।
पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ ७७ ॥

कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा ।
जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ ७८ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥