१२ शूर्पकर्णावतारवर्णनम्

॥ श्रीगणेशाय नमः ॥

कश्यप उवाच ।

मधुकैटभनाशार्थं विष्णुना तपसा पुरा ।
आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥ १ ॥

ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान् ।
तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥ २ ॥

गणेशवरदानेन यशोयुक्तो जनार्दनः ।
तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥ ३ ॥

अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः ।
विघ्नेशं योगिनां तेन वन्द्या त्वं प्रभविष्यसि ॥ ४ ॥

यादृशं गणराजेन रचितं त्रिविधं पुरा ।
तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥ ५ ॥

कश्यपस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः ।
जगाद तं सुखार्थाय योगिवन्द्यं प्रजापते ॥ ६ ॥

दितिरुवाच ।
विघ्नराजावतारस्य चरितं पुनरादरात् ।
वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥ ७ ॥

कश्यप उवाच ।

धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नामकोऽसुरः ।
स शैवीं साधयामासोपासनां पापनिश्चयः ॥ ८ ॥

पञ्चाक्षरविधानेन तोषयामास शङ्करम् ।
दिव्यैर्वर्षसहस्रैस्तं वरदः शङ्करो ययौ ॥ ९ ॥

स्तुतः सम्पूजितस्तेन प्रसन्नस्तमुवाच ह ।
वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥ १० ॥

स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा ।
राज्यमारोग्यसंयुक्तं ब्रह्माण्डस्य च देहि भोः ॥ ११ ॥

यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत् ।
तथेति तं जगादैव शङ्करोऽन्तर्हितोऽभवत् ॥ १२ ॥

ततः स्वगृहमागत्य दैत्यराजो बभूव ह ।
यज्ञध्रुक् सैन्यमादाय जिग्ये ब्रह्माण्डमोजसा ॥ १३ ॥

देवाः शम्भुमुखाः सर्वे प्रपेलुश्च दिशो दश ।
तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥ १४ ॥

ततो यज्ञविनाशार्थं यतते स्म विशेषतः ।
यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥ १५ ॥

त्यक्त्वा मुनिगणा यज्ञान् प्रपेलुर्भयसंयुताः ।
वर्णसङ्करभावं च चकार सचराचरम् ॥ १६ ॥

ततो विष्णुविनाशार्थं यतते स्म महाखलः ।
देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥ १७ ॥

यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः ।
यज्ञनाशे स्वयं नष्टो भविष्यति जनार्दनः ॥ १८ ॥

[[२७]]

एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभञ्ज ह ।
यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥ १९ ॥

ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः ।
अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥ २० ॥

रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् ।
मरिष्यामि न सन्देहो यज्ञनाशप्रभावतः ॥ २१ ॥

देवैः सार्धं महाविष्णुस्तताप तप उत्तमम् ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ २२ ॥

गते वर्षशते पूर्णे तं ययौ गणनायकः ।
स्तुतः सम्पूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥ २३ ॥

तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः ।
तान् जगाद ययौ हन्तुं यज्ञघ्नं देवपैर्वृतः ॥ २४ ॥

कृत्वा युद्धं महाघोरं जघानाङ्कुशघाततः ।
यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥ २५ ॥

ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा ।
तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृताञ्जलिः ॥ २६ ॥

श्रीविष्णुरुवाच ।
नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे ।
महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ २७ ॥

अनादये परेशाय सर्वाऽऽदौ संस्तुताय च ।
सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ २८ ॥

विनायकाय सर्वेषां नायकाय परात्पर ।
ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ २९ ॥

सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने ।
आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ ३० ॥

गणानां पतये तुभ्यं नानागणसुरूपिणे ।
सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ ३१ ॥

ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च ।
इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ ३२ ॥

मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे ।
पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ ३३ ॥

नागाय सुररूपाय राक्षसाय विहारिणे ।
चराचरमयायैव शूर्पकर्णाय ते नमः ॥ ३४ ॥

त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे ।
पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ ३५ ॥

नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय ।
अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ ३६ ॥

किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः ।
विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ ३७ ॥

यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् ।
रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ ३८ ॥

भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् ।
तया वयं च योगेश बन्धहीना भवामहे ॥ ३९ ॥

एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः ।
तांस्तथेति जगादैवाऽन्तर्दधे शूर्पकर्णकः ॥ ४० ॥

तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् ।
पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ ४१ ॥

स्वस्वाचारसमायुक्तं बभूव ह चराचरम् ।
एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ ४२ ॥

अवतारा असङ्ख्याता विघ्नराजस्य शोभने ।
तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ ४३ ॥

सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः ।
भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ ४४ ॥

[[२८]]

रजोयुक्तं यथा धान्यं रजोहीनं करोति च ।
नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ ४५ ॥

तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते ।
त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ ४६ ॥

शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् ।
ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ ४७ ॥

ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् ।
तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ ४८ ॥

शूर्पकर्णावतारस्य कथितं चरितं मया ।
यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ ४९ ॥

य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः ।
स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ ५० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥