॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
एकदा सुखमासीनं नारायणमनामयम् ।
प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥ १ ॥
विष्वक्सेन उवाच ।
वद केशव योगं मे शान्तिदं ते पदप्रदम् ।
संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥ २ ॥
श्रीनारायण उवाच ।
नामरूपात्मकं सर्वमसत्यं वेदवादतः ।
जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥ ३ ॥
सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् ।
अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥ ४ ॥
तयोर्योगे समं ब्रह्म सदानन्दमयं परम् ।
विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥ ५ ॥
तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ६ ॥
[[२४]]
विष्वक्सेन उवाच ।
कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः ।
वद मां सर्वशास्त्रज्ञ संशयस्थापनुत्तये ॥ ७ ॥
श्रीविष्णुरुवाच ।
मायासुखं विजानीहि विघ्नयुक्तं विशेषतः ।
आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥ ८ ॥
तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः ।
सदानन्दमयः सोऽपि योगिभिः सेवितोऽभवत् ॥ ९ ॥
गणः समूहरूपश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरादियोगेन ज्ञायन्ते योगिभिर्ध्रुवम् ॥ १० ॥
गणेशानस्य बिम्बं यत् पतितं मायया युतम् ।
तदेव शिवविष्ण्वादि वाचकं प्रबभूव ह ॥ ११ ॥
अतो गणेशरूपा वै वयं सर्वे कलांशतः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १२ ॥
कश्यप उवाच ।
विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् ।
जगाद भक्तिसंयुक्तो वचनं दक्ष पुत्रिके ॥ १३ ॥
विष्वक्सेन उवाच ।
नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः ।
त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥ १४ ॥
एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये ।
वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥ १५ ॥
आनन्दं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि ।
जजाप मन्त्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥ १६ ॥
निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् ।
तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥ १७ ॥
ततो वर्षशते पूर्णे प्रसन्नो गणनायकः ।
ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥ १८ ॥
स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् ।
ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुतम् ॥ १९ ॥
दृष्ट्वा खेदसमायुक्तो विष्णुं चिन्त्य महायशाः ।
मन्त्रं जजाप तत्रैव गणेशमवलोकयन् ॥ २० ॥
क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि ।
क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥ २१ ॥
तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह ।
त्यक्त्वाभिमानजं मोहं विचारमकरोत् हृदि ॥ २२ ॥
मायामयं शरीरं तु मायाहीनं च मस्तकम् ।
गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥ २३ ॥
अस्य बिम्बं सदा मोहयुतं देवि विनिश्चितम् ।
विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥ २४ ॥
स्वमहिम्नि स्थितो देवः सिद्धिबुद्धिसमन्वितः ।
मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥ २५ ॥
विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः ।
अबुध्यं नैव तद्रूपं वृथा पण्डितको यथा ॥ २६ ॥
अहो योगसमं किञ्चिन्न दृष्टं नैव संश्रुतम् ।
यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥ २७ ॥
एवं विचार्य देवेशं गणेशं ध्यानसंयुतः ।
ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥ २८ ॥
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ।
वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥ २९ ॥
ध्यानस्थो न बुबोधैव समागतं गजाननम् ।
विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥ ३० ॥
हृदिस्थं गणनाथं स लोपयामास तत्क्षणात् ।
ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥ ३१ ॥
[[२५]]
लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पुपूज ह ॥ ३२ ॥
पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः ।
तुष्टाव भक्तिसंयुक्तः कृताञ्जलिर्गजाननम् ॥ ३३ ॥
विष्वक्सेन उवाच ।
विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने ।
विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥ ३४ ॥
लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च ।
स्वानन्दवासिने देव विकुण्ठस्थाय ते नमः ॥ ३५ ॥
केशवाय परेशाय चक्रपाणे गदाधर ।
हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च ॥ ३६ ॥
दशरथसुतायैव वासुदेवाय ते नमः ।
शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥ ३७ ॥
योगाकाराय नाथाय योगानां शान्तिदायिने ।
कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥ ३८ ॥
शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः ।
सर्पयज्ञोपवीताय लम्बोदराय शाश्वते ॥ ३९ ॥
नानाखेलकरायैव नानामायाप्रचालक ।
खेलहीनाय देवानां सहायाय नमो नमः ॥ ४० ॥
असुराणां विनाशायासुरभ्यो वरदायिने ।
ढुण्ढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥ ४१ ॥
गणेशाय गणानां तु चालकाय परात्पर ।
नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥ ४२ ॥
मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा ।
स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥ ४३ ॥
अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते ।
यो विष्णुः स हि विघ्नशो नान्तरं विद्यते कदा ॥ ४४ ॥
एवं स्तुत्वा गणेशानं प्रणनाम महामतिः ।
जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥ ४५ ॥
श्रीविघ्नेश उवाच ।
वरान् वरय मत्तस्त्वं विष्वक्सेन महामते ।
तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥ ४६ ॥
त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठते शृण्वते चैव सर्वसिद्धिप्रदायकम् ॥ ४७ ॥
कश्यप उवाच ।
गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् ।
कृत्वा करपुटं भक्त्या नम्रकन्धर आदरात् ॥ ४८ ॥
विष्वक्सेन उवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्तिं ते पादपद्मे मे शान्तियोगं प्रयच्छ च ॥ ४९ ॥
जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव ।
मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥ ५० ॥
विष्णुसङ्गतियोगेन शान्तियोगमवाप्स्यसि ।
यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥ ५१ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो भक्तियन्त्रितः ।
विष्वक्सेनो जगामैव विकुण्ठं विष्णुमानमत् ॥ ५२ ॥
वृत्तान्तं कथयामास श्रुत्वा संहर्षितोऽभवत् ।
केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥ ५३ ॥
साधयित्वा यथान्यायं योगिवन्द्यो बभूव ह ।
विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥ ५४ ॥
गुरुरूपं महाविष्णुं देवरूपं गणेश्वरम् ।
धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥ ५५ ॥
[[२६]]
इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम् ।
सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विरघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥