१० विष्ण्ववतारवर्णनम्

॥ श्रीगणेशाय नमः ॥

दितिरुवाच ।
श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् ।
चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥ १ ॥

अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः ।
मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥ २ ॥

अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः ।
मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥ ३ ॥

मुद्गल उवाच ।

एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः ।
समालिङ्ग्य प्रियां दक्ष जगाद वचनं हितम् ॥ ४ ॥

धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः ।
जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥ ५ ॥

विघ्नेशेन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् ।
सद्रूपं तत्र बिम्बेन मायाभ्यां संस्थितः प्रभुः ॥ ६ ॥

ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् ।
स्वतः परत उत्थानं ततः सोऽहं च बिन्दुकम् ॥ ७ ॥

ततश्चतुर्विधं देवि विश्वं सृष्टं विशेषतः ।
स्थूलसूक्ष्मसमात्माख्यमेकानेकादिसंयुतम् ॥ ८ ॥

[[२२]]

एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा ।
आनन्देन विहीनत्वाद्बभौ व्यापारवर्जितम् ॥ ९ ॥

स्वस्वक्रियां प्रचक्रुर्वै न तत्र मोहयुक्तता ।
हीनता न तथा तानि खेदयुक्तानि सम्बभुः ॥ १० ॥

तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै ।
ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥ ११ ॥

दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः ।
हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥ १२ ॥

नरकुञ्जरयुक्तं यद्दर्शयामास रूपकम् ।
दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुरन्तरे ॥ १३ ॥

विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः ।
बोधो बभूव तेनैव तुष्टानि स्म भजन्ति तम् ॥ १४ ॥

ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् ।
आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥ १५ ॥

ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे ।
विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥ १६ ॥

बिम्बात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् ।
स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥ १७ ॥

ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः ।
नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥ १८ ॥

ब्रह्माण्यूचुः ।
विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः ।
चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ १९ ॥

चक्रपाणे रमेशाय परात्परतराय च ।
हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ २० ॥

स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये ।
अपाराय महेशानसुताय तु नमो नमः ॥ २१ ॥

काश्यपाय च शेषस्य पुत्राय भक्तवत्सल ।
दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ २२ ॥

गदाधराय देवाय वासुदेवाय देवप ।
धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ २३ ॥

सदसन्मयरूपाय चानन्दपदधारिणे ।
समाय सर्वभावेषु शाश्वताय नमो नमः ॥ २४ ॥

नमो वागतिरूपाय देहदेहिप्रचारिणे ।
बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ २५ ॥

किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः ।
योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ २६ ॥

ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् ।
तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ २७ ॥

विष्णुरुवाच ।
भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् ।
मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥ २८ ॥

ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् ।
दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ २९ ॥

ब्रह्माण्यूचुः ।
देह्यानन्दमयं नाथ सौख्यं स्वाभाविकं परम् ।
सामर्थ्यं स्वस्वकार्येषु सत्यसङ्कल्पसम्भवम् ॥ ३० ॥

तव पादयुगे नाथ भक्तिं देहि विशेषतः ।
योगशान्तिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥ ३१ ॥

विष्णुरुवाच ।
भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति ।
सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥ ३२ ॥

योगशान्तिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् ।
ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥ ३३ ॥

[[२३]]

पञ्चचित्तमयीं बुद्धिं तत्र भ्रान्तिकरीं पराम् ।
सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥ ३४ ॥

सम्प्रज्ञातमयो देहो सम्प्रज्ञातात्मकं शिरः ।
गजरूपं तयोर्योगे देहधारी बभूव ह ॥ ३५ ॥

संयोगाख्यो गकारश्च णकारो योगगः स्मृतः ।
तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥ ३६ ॥

स्वसंवेद्येन योगेन दर्शनं जायते परम् ।
गणेशस्य च तेनाऽयं स्मृतः स्वानन्दवासकः ॥ ३७ ॥

असच्छक्तिश्च सद्भानुः समोहं नेति शङ्करः ।
चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ॥ ३८ ॥

स्वानन्दो मायया युक्तः संयोगात् ब्रह्मणां मतः ।
अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥ ३९ ॥

संयोगाऽयोगयोर्योगे गणेशः शान्तिरूपधृक् ।
तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥ ४० ॥

तेन च ब्रह्मभूतानि भविष्यथ न संशयः ।
ब्रह्माणि कथितं योगं प्रयुङ्ध्वं भक्तिकारणात् ॥ ४१ ॥

यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् ।
भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥ ४२ ॥

एवमुक्त्वा महाविष्णुस्तत्रैवान्तरधीयत ।
ब्रह्माणि तं नमस्कृत्य साधयामासुरञ्जसा ॥ ४३ ॥

क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे ।
तानि ब्रह्माणि योगेन गाणेशे दक्षनन्दिनि ॥ ४४ ॥

तत आनन्दयुक्तानि चक्रुः सर्वं चराचरम् ।
तत्रानन्देन सर्वाणि क्रीडां चक्रुः परस्परम् ॥ ४५ ॥

एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् ।
विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥ ४६ ॥

शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा ।
भुक्तिमुक्तिप्रदं पूर्णं सर्वानन्दकरं भवेत् ॥ ४७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेसप्तमे खण्डे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥