॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः ।
प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १ ॥
पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः ।
तुष्टुवुर्विघ्नराजं ते बद्धाञ्जलय आदरात् ॥ २ ॥
देवर्षय ऊचुः ।
साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् ।
आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३ ॥
सर्वात्मकं बिम्बमथो विधाय तेनैव द्वन्द्वं रचितं गणेश ।
सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ४ ॥
भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् ।
तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५ ॥
ढुण्ढे त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च ।
उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६ ॥
[[१९]]
त्वन्मायया मोहयुते परेशे अन्योन्यमादौ मिलिते प्रकाशिन् ।
तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७ ॥
त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार ।
तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८ ॥
ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् ।
तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९ ॥
एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिन् ।
तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥ १० ॥
एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि ।
साङ्ख्यस्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११ ॥
दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर साङ्ख्यसंस्थः ।
उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२ ॥
स्वानन्दवासी गणनायकस्त्वमानन्दरूपोऽसि वदन्ति वेदाः ।
द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३ ॥
नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन ।
लक्ष्यः सदानन्दघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥ १४ ॥
स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बमाद्यं प्रणमामहे त्वाम् ।
तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥ १५ ॥
सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्रमुख्याः प्रभुदासभूताः ।
तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥ १६ ॥
तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः ।
तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७ ॥
देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुण्डं गजवाचकं ते ।
योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८ ॥
कर्याननं त्वां प्रवदन्ति तेन सन्तः सदा योगमयं हृदिस्थम् ।
सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९ ॥
ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति ।
त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २० ॥
सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ।
स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१ ॥
अङ्घ्रिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति ।
विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥ २२ ॥
एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः ।
वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३ ॥
कश्यप उवाच ।
एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः ।
तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥ २४ ॥
विघ्नेश उवाच ।
देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् ।
दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥ २५ ॥
भवत्कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् ।
यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६ ॥
[[२०]]
विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् ।
कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥ २७ ॥
पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् ।
विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥ २८ ॥
मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति ।
परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥ २९ ॥
कारागृहादिजा पीडा नश्येदनेन निश्चितम् ।
सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥ ३० ॥
एकविंशतिवारं चैकविंशति दिनानि च ।
पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥ ३१ ॥
मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् ।
अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥ ३२ ॥
एवं गणपतेर्वाक्यं श्रुत्वा तममरर्षयः ।
प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥ ३३ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो विघ्नेशस्ते पदाम्बुजे ।
भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥ ३४ ॥
ममासुरस्त्वया नाथ शान्तियुक्तः कृतो महान् ।
तेन स्वस्थानगाः सर्वे भविष्यन्ति दिवौकसः ॥ ३५ ॥
मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः ।
भविष्यन्ति गणाध्यक्ष वृणीमहि किमप्यहो ॥ ३६ ॥
कृतं त्वया वराणां यत् कार्यं विघ्नविदारण ।
तथेति तानथोक्त्वाऽसौ देवेशोऽन्तर्दधे प्रिये ॥ ३७ ॥
देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः ।
खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥ ३८ ॥
हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् ।
सम्पूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥ ३९ ॥
भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः ।
विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥ ४० ॥
मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् ।
बुद्धिश्च दक्षिणाङ्गे तु नागेशः पुरतः स्थितः ॥ ४१ ॥
क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे ।
संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥ ४२ ॥
वामे शुम्भुमुखा देवा दक्षिणाङ्गे मुनीश्वराः ।
पुरतो गणराजस्य सेवन्ते तं सुलोचने ॥ ४३ ॥
असुरा नागमुख्याश्च गन्धर्वाप्सरसस्तथा ।
नानासिद्धगणास्तत्र वसन्ति सेवनोत्सुकाः ॥ ४४ ॥
गङ्गाद्याः सरितस्तत्र भक्तियुक्ता वसन्ति च ।
अन्ये नाना जना देवि वसन्ति भक्तिकारकाः ॥ ४५ ॥
दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः ।
चतुरस्रं महाक्षेत्रं ज्ञातव्यं स्वसुखप्रदम् ॥ ४६ ॥
तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् ।
जन्तवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥ ४७ ॥
अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् ।
स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥ ४८ ॥
अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि ।
ते सर्वे शुक्लगत्या च ब्रह्मभूता भवन्ति वै ॥ ४९ ॥
यात्रां तत्र प्रकुर्वन्ति भक्ता भाद्रपदे प्रिये ।
शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥ ५० ॥
क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः ।
परस्परं विशेषेण बोधयन्ति गजाननम् ॥ ५१ ॥
[[२१]]
विघ्नराजचरित्राणि कथयन्ति परस्परम् ।
साश्रुनेत्रा भवन्त्येते भक्त्या विघ्नेश्वरस्य च ॥ ५२ ॥
यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वन्ति मानवाः ।
इह भुक्त्वाऽखिलान् भोगानन्ते मुक्तिमवाप्नुयुः ॥ ५३ ॥
ये तत्र विघ्नराजं तु नमन्ति मनसीप्सितम् ।
लब्ध्वा सुखयुताः सर्वे भवन्ते नात्र संशयः ॥ ५४ ॥
यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च ।
ब्रह्मभूता न सन्देहो दर्शनात् पावना नृणाम् ॥ ५५ ॥
मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् ।
पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥ ५६ ॥
एवं खण्डेषु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् ।
विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥ ५७ ॥
ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् ।
तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥ ५८ ॥
सङ्क्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् ।
विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥ ५९ ॥
एवं विघ्नेश्वरो देवो नानाऽवतारकारकः ।
भक्तानां रक्षणार्थायाभक्तानां हरणाय च ॥ ६० ॥
अवतारा असङ्ख्याता विघ्नेशस्य महात्मनः ।
तेषां चरित्रकं वक्तुं न समर्थोऽहमञ्जसा ॥ ६१ ॥
इदं ममासुरस्यैव शमनं कथितं मया ।
चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ६२ ॥
शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् ।
न भवेदीप्सितं सर्वं लभेद्ब्रह्म सनातनम् ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तियुक्तविघ्नेशचरित- क्षेत्रवर्णनं नाम नवमोऽध्यायः ॥