॥ श्रीगणेशाय नमः ॥
[[१७]]
कश्यप उवाच ।
ततो ममासुरस्तत्र सावधानो बभूव ह ।
समीपे कमलं संस्थं दृष्ट्वा भययुतोऽभवत् ॥ १ ॥
त्यक्त्वा गर्वं महादैत्यः कमलं प्रणनाम ह ।
कृत्वा करपुटं भीतोऽभवत् स्तोतुं समुद्यतः ॥ २ ॥
ममासुर उवाच ।
कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक ।
वासनानां परेशाय सुवासधारिणे नमः ॥ ३ ॥
विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते ।
संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ ४ ॥
योगवासनया युक्ता ब्रह्मभूता भवन्ति ते ।
वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ ५ ॥
तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः ।
विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ ६ ॥
अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम ।
नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ ७ ॥
दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे ।
कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ ८ ॥
ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् ।
जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९ ॥
पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये ।
तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ १० ॥
ममासुर उवाच ।
विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने ।
अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११ ॥
गणेशाय गणानां तु चालकाय परात्मने ।
आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२ ॥
हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये ।
लम्बोदराय वै तुभ्यं भक्तपाल नमो नमः ॥ १३ ॥
स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४ ॥
ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक ।
विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५ ॥
आदिपूज्याय चान्ते ते अवशिष्टाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं चतुर्भुज नमो नमः ॥ १६ ॥
शेषस्योपरिसंस्थाय नागेशध्वजधारिणे ।
गजाननाय देवेश नमो दैत्येशरूपिणे ॥ १७ ॥
भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने ।
योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८ ॥
नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः ।
भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९ ॥
समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् ।
विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २० ॥
तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः ।
धन्यं मे जन्म कर्मादि येन दृष्टो गजाननः ॥ २१ ॥
किं स्तौमि त्वां गणेशान यत्र वेदादयः प्रभो ।
शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२ ॥
एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् ।
रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ २३ ॥
तमुवाच महाभक्त्या युतं विघ्नप्रनायकः ।
वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ २४ ॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५ ॥
निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति ।
मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥ २६ ॥
[[१८]]
विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः ।
जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ २७ ॥
ममासुर उवाच ।
यदि प्रसन्नभावेन वरं दास्यसि विघ्नप ।
तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ २८ ॥
गाणपत्यसहावासं देहि नाथ निरन्तरम् ।
स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ २९ ॥
दासोऽहं ते गणाधीश नान्यं याचे वरं परम् ।
तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ ३० ॥
विघ्नेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति ममासुर ।
गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ ३१ ॥
स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः ।
स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ ३२ ॥
यत्रादौ पूजनं मे न स्मरणं वा ममासुर ।
मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ ३३ ॥
मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः ।
मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ ३४ ॥
एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् ।
ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ ३५ ॥
प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह ।
शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ ३६ ॥
दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः ।
पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ ३७ ॥
एवं ममासुरं शान्तं चकार विघ्ननायकः ।
स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ ३८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ॥