०७ ममासुरगर्वहरणम्

॥ श्रीगणेशाय नमः ॥

कश्यप उवाच ।

समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः ।
प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥ १ ॥

नारद उवाच ।

आपद्धर्मविवेकेन देवैः संराधितोऽधुना ।
गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥ २ ॥

त्वद्वधार्थं महाराज प्रार्थितो देवनायकैः ।
तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥ ३ ॥

सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ ।
शृणु वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥ ४ ॥

विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता ।
सत्यसङ्कल्परूपा च पराधीनात्मिका प्रभो ॥ ५ ॥

सत्यसङ्कल्पसत्ताया धारका ब्रह्मवाचकाः ।
परमेश्वरसञ्ज्ञास्ते स्वाधीनाः प्रभवन्ति ये ॥ ६ ॥

अन्ये नरादयः प्रोक्ताः सत्तावन्तो न संशयः ।
तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥ ७ ॥

त्वं वरेण समर्थोऽसि स्वसत्तासंयुतो न च ।
वरसत्तात्मको दैत्य पराधीनो न संशयः ॥ ८ ॥

पराधीना नरा विघ्नैः पीडिताः सर्वदा मताः ।
वृथा गर्वयुता अन्ते सत्ताहीना भवन्त्युत ॥ ९ ॥

अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः ।
मदाधारमिदं सर्वं विश्वं चलति तेऽब्रुवन् ॥ १० ॥

अस्मभ्यो न परं किं?चित् सत्ताहीनास्तदाऽभवन् ।
सत्यसङ्कल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः ॥ ११ ॥

अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् ।
सत्यासत्यमयं दैत्य द्वन्द्वमायाविमोहितम् ॥ १२ ॥

आनन्दं परमं ब्रह्म द्वन्द्वहीनं समात्मकम् ।
द्वन्द्वेषु द्वन्द्वभावाख्यं परं तन्मोहवर्जितम् ॥ १३ ॥

तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् ।
देवैराराधितं पूर्णं देहधारि बभूव ह ॥ १४ ॥

[[१५]]

अधुना तत् समायातं देवागारेषु दैत्यप ।
तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥ १५ ॥

स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप ।
स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥ १६ ॥

स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः ।
दैत्याः पातालगा भूत्वा तिष्ठन्तु सुखसंयुताः ॥ १७ ॥

वर्णाश्रमयुता लोकास्तिष्ठन्तु नित्यमादरात् ।
एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥ १८ ॥

एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।
मा गर्वं कुरु दैत्येन्द्र नारदाज्ञावशो भव ॥ १९ ॥

नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् ।
अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥ २० ॥

ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह ।
शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥ २१ ॥

शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः ।
प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥ २२ ॥

ममासुर उवाच ।

त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् ।
देवानां हितमत्यन्तं नाऽहं यामि गजाननम् ॥ २३ ॥

आदौ मया विशेषेण सेवितोऽयं महामुने ।
मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥ २४ ॥

मरणं मे यदा प्राप्तं भविष्यति यशस्करम् ।
शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥ २५ ॥

तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् ।
मा चिन्तां कुरु दैत्येन्द्र नायं देवसहायवान् ॥ २६ ॥

देवा मदयुता जाता दैत्यान् जघ्नुः प्रमोहिताः ।
दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥ २७ ॥

तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् ।
देवान् मदविहीनांश्च चकार विघ्ननायकः ॥ २८ ॥

अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् ।
कर्मनाशनतः सर्वान् देवान् हन्तुं समुद्यतः ॥ २९ ॥

कर्मनाशप्रभावेण देवा नष्टा भवन्ति च ।
निर्देवं विश्वमत्यन्तं तदा भवति सर्वदा ॥ ३० ॥

अतस्त्वां हन्तुमुद्युक्तो विघ्नराजो महासुर ।
स्वस्वधर्मयुतांश्चेत्तान्न हन्ति ब्रह्मनायकः ॥ ३१ ॥

सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् ।
सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥ ३२ ॥

विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद ।
कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥ ३३ ॥

आनन्दं ब्रह्म वेदेषु कथितं सदसन्मयम् ।
न तत्त्वसंयुतं दैत्य तत्त्वहीनं न विद्यते ॥ ३४ ॥

सर्वत्र योगभावेन संस्थितं द्वन्द्वधारकम् ।
स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥ ३५ ॥

तेनैव त्रिविधं सर्वं रचितं योगमायया ।
स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमञ्जसा ॥ ३६ ॥

यदा गर्वयुता दैत्य जन्तवश्चेश्वरादयः ।
त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥ ३७ ॥

सर्वैरवध्यतां प्राप्य कुर्वन्ति मनसीप्सितम् ।
तदाऽयं देहधारी सम्भवते मदनाशकः ॥ ३८ ॥

असन्मयो गणेशस्य देहः सन्मयमस्तकम् ।
तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥ ३९ ॥

नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः ।
ममासुरः खवाणीं तां विचारमकरोत् हृदि ॥ ४० ॥

[[१६]]

गणेशो ब्रह्मरूपोऽयं स्वानन्दे वासकारकः ।
गच्छामि शरणं तं स्वहितं तेन भविष्यति ॥ ४१ ॥

विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् ।
को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमण्डले ॥ ४२ ॥

स्वयं दैत्यानुवाचाथ वचनं हितकारकम् ।
ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥ ४३ ॥

ममासुर उवाच ।

दैत्येन्द्राः कालमुख्या मे वचनं शृणुत प्रियाः ।
काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥ ४४ ॥

तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः ।
न देवपक्षिणं योग्यं शरणं जगदीश्वरम् ॥ ४५ ॥

मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् ।
तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥ ४६ ॥

देहधारी गणेशानः किं करिष्यति मां वद ।
तात ते मायया देवा दर्शयन्ति प्रमोहकम् ॥ ४७ ॥

नारदो गणराजस्य भक्तस्तस्य वचः कथम् ।
दैत्येन्द्रैः सह मान्यं त्वं करिष्यसि महामते ॥ ४८ ॥

नारदभावरक्षार्थं काव्यो वदति वै तथा ।
देवैः संरचिता वाणी खस्था तस्या वचो वृथा ॥ ४९ ॥

मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् ।
हनिष्यामः प्रतापेन तव दैत्यप्रपालक ॥ ५० ॥

एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः ।
देवान् हन्तुं प्रगर्वेण जग्मतुः क्रोधसंयुतौ ॥ ५१ ॥

मा?मेति वचनं दैत्यनाथस्य त्यज्य दुर्मदौ ।
धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥ ५२ ॥

ततो गणेश्वरं विप्रो नारदः प्रजगाम ह ।
कथयामास वृत्तान्तं सोऽपि क्रोधयुतोऽभवत् ॥ ५३ ॥

देवान् भययुतान् वीक्ष्य जगाद गणनायकः ।
मा भयं कुरुत प्राज्ञा हनिष्यामि ममासुरान् ॥ ५४ ॥

अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् ।
समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥ ५५ ॥

एवमुक्त्वा गणाधीशः कमलं निजहस्तगम् ।
मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥ ५६ ॥

क्षणेन कमलं तत्र दैत्यसैन्ये पपात ह ।
तस्माज्जातः सुवासश्च प्रससार महीतले ॥ ५७ ॥

गणेशानं द्विषन्तस्तान् जघान वास आगतः ।
द्वेषहीनान् समुत्सृज्य तदद्भुतमिवाऽभवत् ॥ ५८ ॥

वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे ।
प्रधानाः पञ्च तद्वत्ते मृतास्तत्र बभूविरे ॥ ५९ ॥

ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् ।
कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥ ६० ॥

सुवासकं तस्य गृह्य मूर्च्छितोऽभून् ममासुरः ।
प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ६१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥