०६ विघ्नराजप्रादुर्भावः

॥ श्रीगणेशाय नमः ॥

कश्यप उवाच ।

ततः शम्भुमुखा देवा विचारं दुःखसंयुताः ।
ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥ १ ॥

तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् ।
देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥ २ ॥

विष्णुरुवाच ।
कारागारे वयं क्षिप्तास्तत्र कर्मप्रखण्डनात् ।
उपोषणसमायुक्ताः कृता ममासुरेण च ॥ ३ ॥

अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः ।
तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥ ४ ॥

सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः ।
विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥ ५ ॥

आपद्धर्मविधानेन तदुपासनकं परम् ।
करिष्यामो विशेषेण स एनं घातयिष्यति ॥ ६ ॥

तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः ।
तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥ ७ ॥

अतिविषयसंयुक्तो दैत्येन्द्रैर्मोहितो भृशम् ।
ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥ ८ ॥

अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च ।
मूर्तयः खण्डिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥ ९ ॥

आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् ।
तत्कर्मसु ममेनैव खण्डितं भूमिमण्डले ॥ १० ॥

अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् ।
तं विशेषेण भजत देवा भावसमन्विताः ॥ ११ ॥

विष्णोर्वचनमाकर्ण्य देवाः शम्भुपुरोगमाः ।
साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥ १२ ॥

ततो देवा गणेशानं चिन्त्य सङ्कटमुक्तये ।
मन्त्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥ १३ ॥

ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् ।
उपचारैरनेकैस्ते जेपुर्मन्त्रं हृदा परम् ॥ १४ ॥

एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् ।
सङ्गोप्य भयसंयुक्ता निराहारपरायणाः ॥ १५ ॥

एवं वर्षशते पूर्णे तान् ययौ गणनायकः ।
भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥ १६ ॥

तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् ।
प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥ १७ ॥

पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ।
साश्रुनेत्राः प्रिये देवा भक्तिनम्रात्मकन्धराः ॥ १८ ॥

[[१३]]

देवेन्द्रा ऊचुः ।
नमस्ते विघ्नराजाय भक्तविघ्नविदारण ।
अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ १९ ॥

गणेशाय परेशाय हेरम्बाय नमो नमः ।
चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ २० ॥

अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने ।
ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ २१ ॥

साङ्ख्याय बोधरूपाय पुरुषाय परात्मने ।
गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ २२ ॥

स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे ।
मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ २३ ॥

नानामायाप्रचालाय मायिभ्यो मायया प्रभो ।
मोहदाय विशेषेण मायिकाय नमो नमः ॥ २४ ॥

नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः ।
तत्रानन्दयुतायैव समभावाय ते नमः ॥ २५ ॥

सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् ।
भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ २६ ॥

भेदयुक्तं गणाधीश भेदहीनं त्वया परम् ।
सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ २७ ॥

आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् ।
दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ २८ ॥

तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा ।
धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ २९ ॥

एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः ।
स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ ३० ॥

श्रीविघ्नराज उवाच ।

वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् ।
दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ ३१ ॥

भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ ३२ ॥

गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः ।
प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥ ३३ ॥

देवा ऊचुः ।
तव पादेऽचलां भक्तिं देहि विघ्नेश नः पराम् ।
यया विघ्नविहीनाश्च शान्तिं प्राप्ताः सुयोगिनः ॥ ३४ ॥

ममासुरं नाथ जहि सर्वपीडाप्रदायकम् ।
धर्मध्वंसकरं पूर्णं वर्णसङ्करकारिणम् ॥ ३५ ॥

कारागारे वयं क्षिप्ता वरदानप्रभावतः ।
अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण च ॥ ३६ ॥

एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् ।
तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥ ३७ ॥

एतस्मिन्नन्तरे देवि तत्र चित्रं बभूव ह ।
दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥ ३८ ॥

ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् ।
गत्वा तं सर्ववृत्तान्तं कथयामासुरादरात् ॥ ३९ ॥

रक्षका ऊचुः ।
देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो ।
तं प्रणम्य महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥ ४० ॥

तथेति गणनाथेन कृतं सर्वं न संशयः ।
अधुना दैत्यनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ४१ ॥

तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः ।
सर्वानानाय्य वृत्तान्तं कथयामास विस्तरात् ॥ ४२ ॥

श्रुत्वा ते भयसंयुक्ता बभूवुर्जातसम्भ्रमाः ।
जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥ ४३ ॥

दैत्येन्द्रा ऊचुः ।
कारागारे स्थिता देवास्तैः कथं गणनायकः ।
आराधितो विशेषेण वरदश्च बभूव ह ॥ ४४ ॥

[[१४]]

दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः ।
तत्त्वहीनो न दैत्येन्द्र दृश्यते केनचित् कदा ॥ ४५ ॥

अतः सदेवकं तं तु हनिष्यामो न संशयः ।
किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् ॥ ४६ ॥

एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयङ्करम् ।
देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥ ४७ ॥

एतस्मिन्नन्तरे तत्र पुनश्चित्रं बभूव ह ।
नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥ ४८ ॥

प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः ।
जगाद तं महायोगी प्रभो जहि ममासुरम् ॥ ४९ ॥

मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै ।
समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥ ५० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥