॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः ।
दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १ ॥
देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुङ्गवान् ।
अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥ २ ॥
रजस्तिमिरभावेन स्वपरज्ञानवर्जिताः ।
पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥ ३ ॥
दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् ।
ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥ ४ ॥
ततो रजोऽभवच्छान्तं प्रकाशसंयुताः पुनः ।
दैत्या देवा विवेकेन युयुधुर्जातसम्भ्रमाः ॥ ५ ॥
ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् ।
पपाल दैत्यसङ्घैस्तद्धतं हर्षसमन्वितैः ॥ ६ ॥
ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः ।
आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥ ७ ॥
तैः समन्तान् महास्त्रैस्तद्बलं सम्मर्दितं परम् ।
दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥ ८ ॥
ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते ।
जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेन्द्रकान् ॥ ९ ॥
दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसम्भ्रमाः ।
युद्धं तत्राऽभवद्घोरं दिनैकं जयमिच्छताम् ॥ १० ॥
ततो दैत्येन्द्रमुख्यास्ते पतिता मूर्च्छया युताः ।
पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥ ११ ॥
ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ ।
प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥ १२ ॥
ततः काव्येन दैत्येन्द्रा जीविताः पुनरुत्थिताः ।
युयुधुस्ते महावीरा देवैः परमदारुणाः ॥ १३ ॥
दैत्यैर्धर्मश्च सङ्क्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ ।
बभूवतुश्च देवेन्द्रान् मूर्च्छितांश्चक्रतुर्मृधे ॥ १४ ॥
न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् ।
असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥ १५ ॥
ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ ।
अनु तं जगदम्बा सा भानुर्विष्णुर्ययौ पुरः ॥ १६ ॥
तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् ।
न वक्तुं शक्यते देवि ब्रह्माण्डभयकारकम् ॥ १७ ॥
अधर्मो विष्णुना सार्धं धर्मः शङ्करमाययौ ।
कालजिद्भानुना सार्धं प्रेतः शक्त्या महाबलः ॥ १८ ॥
कपालः कालरुद्रेण काल्या धर्मघ्न एव च ।
नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १९ ॥
दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् ।
ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥ २० ॥
कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः ।
प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥ २१ ॥
त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् ।
चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥ २२ ॥
चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् ।
हतं सर्वत्र देवेशैर्हाहाकाररवाकुलम् ॥ २३ ॥
शोणितौघा महानद्यस्तत्र जाता भयानकाः ।
छिन्नभिन्नाश्च दैत्याद्याः पपलुः सर्वतोदिशम् ॥ २४ ॥
तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने ।
ततो ममासुरः क्रुद्धः सङ्ग्रामाय ययौ स्वयम् ॥ २५ ॥
पुरः स्थितं शिवं वीक्ष्य जगाद क्रोधसंयुतः ।
सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥ २६ ॥
[[११]]
ममासुर उवाच ।
तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् ।
दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥ २७ ॥
एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् ।
निष्का?श्य सुदृढं बाणं मुमोच दैत्यनायकः ॥ २८ ॥
तावत् त्रिशूलकं शम्भुश्चिक्षेप नाशकारकम् ।
ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥ २९ ॥
बाणेन स हतः शम्भुः पपात धरणीतले ।
मूर्च्छया पीडितोऽत्यन्तं सहसा दैत्यपालिनि ॥ ३० ॥
ततो ममासुरः क्रुद्धो बाणेनैकेन वक्षसि ।
विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥ ३१ ॥
शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् ।
ते सर्वे निष्फला बाणाः पेतुः परमदारुणाः ॥ ३२ ॥
ततो ममासुरः सूर्यं शक्तिं विव्याध वक्षसि ।
एकैकेन स बाणेन पतितौ धरणीतले ॥ ३३ ॥
बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः ।
तया देवेन्द्रमुख्याश्च देवाः सम्मर्दिता मृधे ॥ ३४ ॥
ततो देवान् मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् ।
पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥ ३५ ॥
देवान् शम्भुमुखान् गृह्य ययौ स्वस्थानमुत्तमम् ।
काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥ ३६ ॥
ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् ।
अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥ ३७ ॥
प्रेतं शक्तिपुरस्यापि कपालं स चकार ह ।
सौरलोकाधिपं वीरं धर्मघ्नं ब्रह्मणस्तथा ॥ ३८ ॥
कालजितं महेन्द्रस्य यमस्य कालकं परम् ।
लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥ ३९ ॥
ततः स्वपुरमागम्य कारागारे समाक्षिपत् ।
देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥ ४० ॥
ब्रह्माण्डाधिपतिर्दुष्टो बभूव स ममासुरः ।
कृतकृत्यमिवात्मानं मेने दैत्येन्द्रसंयुतः ॥ ४१ ॥
स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः ।
अविनाशं स्वमात्मानं मेने देहधरोऽपि सन् ॥ ४२ ॥
ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् ।
देवाङ्गना नराणां तु कन्या नागोद्भवा बलात् ॥ ४३ ॥
समानाय्यासुरेन्द्रैः स बुभुजे पापनिश्चयः ।
ततो बहुगते काले दैत्येन्द्रान् प्रेष्य दारुणान् ॥ ४४ ॥
खलः खण्डनकं चक्रे वर्णाश्रमसुकर्मणाम् ।
आसुरं कर्म सर्वत्र स्थापयामास दण्डतः ॥ ४५ ॥
न स्वाहा न स्वधा कुत्र भवति स्म कदाचन ।
न वषट्कारभावश्च वर्णसङ्करभावतः ॥ ४६ ॥
ऋषयस्ताडिताः केचित् केचिद्बन्धनसंयुताः ।
देवस्थानानि सर्वाणि खण्डितानि च दानवैः ॥ ४७ ॥
तीर्थानि पुण्यवृक्षास्ते बभञ्जुः पापकारकाः ।
ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥ ४८ ॥
प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमन्दिरे ।
इत्यादिकर्मनाशश्च बभूव जगतीतले ॥ ४९ ॥
हाहाकारयुताः सर्वे भ्रष्टा जाताः सुलोचने ।
वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥ ५० ॥
राज्यं चकार दैत्येशो ममासुरः सुहर्षितः ।
वृष्ट्यादिकमभूत्तत्र काले सर्वं भयाकुलम् ॥ ५१ ॥
[[१२]]
एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः ।
कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः ॥