०४ शिवममासुरसमागमः

॥ श्रीगणेशाय नमः ॥

कश्यप उवाच ।

शम्बरं प्रणिपत्यादौ कथयामास विस्तरात् ।
वृत्तान्तं ममनामाऽसौ हर्षितं तं चकार ह ॥ १ ॥

मोहिनीं प्रददौ तस्मै स्वपुत्रीं शम्बरासुरः ।
तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥ २ ॥

ततः स्वल्पे गते काले शम्बरः शुक्रमाययौ ।
तं प्रणम्य महाभागं वृत्तान्तं प्रजगाद ह ॥ ३ ॥

ततः शुक्रेण दैत्येन्द्राः प्रेरिताः सर्व आययुः ।
स्वयं शम्बरसंयुक्तो जगाम ह ममासुरम् ॥ ४ ॥

शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् ।
तं प्रणम्य महाभागं कृताञ्जलिः पुरः स्थितः ॥ ५ ॥

पूजयामास तं विप्रं हर्षयुक्तेन चेतसा ।
प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥ ६ ॥

ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः ।
तान् सर्वान् मानयामास यथाविधि ममासुरः ॥ ७ ॥

ततः सर्वमतं गृह्य काव्यो नीतिविशारदः ।
ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥ ८ ॥

प्रधानाः पञ्च तस्यापि बभूवुर्बलसंयुताः ।
प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥ ९ ॥

दैत्या दानवभूपाश्च राक्षसादय आदरात् ।
हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गताः ॥ १० ॥

चिन्तानाशं ममो भूम्यां निर्ममे नगरं परम् ।
सर्वशोभासमायुक्तं परिखावलयाङ्कितम् ॥ ११ ॥

तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः ।
वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥ १२ ॥

दैत्याद्यास्तत्र संरेजुर्विशेषेण निवासकाः ।
राजा ममासुरस्तान् वै पालयामास हर्षितः ॥ १३ ॥

पुत्रौ द्वौ समशीलौ तु मोहिन्यां सम्बभूवतुः ।
ममासुरान् महातेजो युक्तौ दैत्यविवर्धिनौ ॥ १४ ॥

धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः ।
ताभ्यां ममासुरोऽत्यन्तं रेजे तेजोयुतो महान् ॥ १५ ॥

एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् ।
उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥ १६ ॥

ममासुर उवाच ।

तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः ।
प्रजेष्यामि विशेषेण ब्रह्माण्डं लोकसङ्कुलम् ॥ १७ ॥

आज्ञापय महायोगिन् त्वदाज्ञावशवर्तिनम् ।
दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥ १८ ॥

[[९]]

कश्यप उवाच ।

ममासुरस्य वाक्यं स श्रुत्वा वेदविदां वरः ।
शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥ १९ ॥

शुक्र उवाच ।

गणेशवरदानेन समर्थोऽसि महासुर ।
गणेशभक्तिसंयुक्तो जय त्वं विश्वमञ्जसा ॥ २० ॥

कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च ।
मा कुरुष्व तदा राज्यं करिष्यसि विशेषतः ॥ २१ ॥

तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः ।
ततोऽसुरान् समाहूय वृत्तमाकथयत्परम् ॥ २२ ॥

ते सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः ।
द्विजैर्मुहूर्तमालोक्य निर्ययौ च ममासुरः ॥ २३ ॥

अपारसेनया युक्तश्चतुरङ्गप्रभूतया ।
नानावाहनगा दैत्या दैत्येन्द्रा रेजुरञ्जसा ॥ २४ ॥

सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् ।
महाबला महावीर्याः पर्वतोन्मूलने क्षमाः ॥ २५ ॥

प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् ।
ममासुरो रथे संस्थः शुशुभे तेजसा युतः ॥ २६ ॥

पृथ्वीं जेतुं महावीरा जग्मुर्द्वीपसमन्विताम् ।
जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥ २७ ॥

ततः पातालगाः सर्वे शेषं जित्वा महाबलम् ।
ययुः स्वर्गेषु दैत्येन्द्रा इन्द्रं क्रोधसमन्विताः ॥ २८ ॥

इन्द्रः सुरगणैः सार्धं योद्धुं समुद्यतोऽभवत् ।
ऐरावतसमारूढो ययौ सङ्ग्राममण्डलम् ॥ २९ ॥

दैत्येन्द्रा शस्त्रसङ्घातैर्मर्दयित्वा सुरेन्द्रकान् ।
ममासुरं ययुः सर्वे धृत्वेन्द्रं ते प्रहर्षिताः ॥ ३० ॥

इन्द्रासनसमारूढो ममासुरः प्रतापवान् ।
शुशुभे दानवेन्द्रैः स सेव्यमानः सदारुणैः ॥ ३१ ॥

सत्यलोकागतं वीक्ष्य दूतं सम्प्रेष्य दारुणम् ।
योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥ ३२ ॥

विष्णुं गत्वा विधाताऽसौ रक्ष रक्षेति चाब्रवीत् ।
विष्णुस्तं गृह्य शम्भुं वै शरणं प्रजगाम ह ॥ ३३ ॥

ज्ञात्वा वृत्तान्तमेवं स ममासुरः प्रतापवान् ।
कैलासमाययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥ ३४ ॥

शिवलोके समायातो भानुः शक्तिस्तथा भयात् ।
विचार्य देवपाः सर्वे दैत्येद्रं जग्मुरावृताः ॥ ३५ ॥

मरणे निश्चयं कृत्वा शम्भुमुख्याः सुरेश्वराः ।
ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥ ३६ ॥

ममासुरस्य सैन्यं तु सन्नद्धं क्रोधसंयुतम् ।
देवेन्द्रान योद्धुमायातं नानावीरप्रपालितम् ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥