॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
गणेशव्रतपुण्येन मोहितः शङ्करः सदा ।
तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥ १ ॥
हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः ।
नानाकलां प्रदर्श्यैव मोहयामास तं क्षणात् ॥ २ ॥
हिमाचलो जगादैव वरं वृणु यमिच्छसि ।
दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥ ३ ॥
द्विज उवाच ।
उमां देहि नगाधीश नान्यं याचे वरं परम् ।
ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥ ४ ॥
तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी ।
उमा तं देहि मां तात शिवोऽयं नात्र संशयः ॥ ५ ॥
ततः स हर्षितोऽत्यन्तं ददौ तस्मै सुतां प्रिये ।
शिवः स्वस्थानमागम्य देवैः सम्मानितोऽभवत् ॥ ६ ॥
लग्नं शुभं समालोक्य पूजयित्वा गजाननम् ।
देवादिभिः समायुक्तः पर्वतेशं ययौ शिवः ॥ ७ ॥
हिमाचलः प्रसन्नात्मा विवाहमकरोत्ततः ।
शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥ ८ ॥
शिवां गृह्य महेशानः कैलासमगमत् स्वयम् ।
तया रेमे महायोगी ततः स्कन्दो बभूव ह ॥ ९ ॥
[[६]]
गणेशानं समाराध्य तारकं दैत्यनायकम् ।
जघान सुखसंयुक्तं चकार सचराचरम् ॥ १० ॥
शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् ।
तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥ ११ ॥
कदाचित् पार्वती देवी सखीभिः संवृता स्थिता ।
मनसा धारयामास धन्याऽहं सर्वभावतः ॥ १२ ॥
शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता ।
देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥ १३ ॥
देवेशो मां ततस्त्यक्त्वा शङ्करः पर्वतान्तरे ।
गतः स्वयं स याचित्वाऽवृणोन् मां पितरं प्रभुः ॥ १४ ॥
किं त्यक्त्वा मां गतः शम्भुः किं पुनर्याचिता ह्युत ।
अधुना मदधीनः स वर्तते नात्र संशयः ॥ १५ ॥
मदीया ममता सर्वा पूर्णा जाता विशेषतः ।
मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥ १६ ॥
एवं मनसि हर्षेण धन्यात्मानं नगात्मजा ।
मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥ १७ ॥
सख्य ऊचुः ।
धन्या त्वं मानिनीमध्ये मानो जित्वा तु शङ्करम् ।
तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥ १८ ॥
तच्छ्रुत्वा जगदम्बा साऽतीव मानयुताऽभवत् ।
हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥ १९ ॥
तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः ।
ममनामा महाभागो महान् पर्वतसन्निभः ॥ २० ॥
सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह ।
कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि ॥ २१ ॥
पुरुष उवाच ।
तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे ।
आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥ २२ ॥
पार्वत्युवाच ।
मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् ।
ममनामा भवस्वाद्य पुत्र मानपरायणः ॥ २३ ॥
गणेशं भज भक्त्या त्वं स ते सर्वं प्रदास्यति ।
तेन सर्वत्र विश्वस्मिन् विख्यातः प्रभविष्यसि ॥ २४ ॥
ततस्तस्मै महादेवी ददौ मन्त्रं षडक्षरम् ।
गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥ २५ ॥
स तां प्रणम्य देवेशीं तपसे वनमाययौ ।
तत्राऽऽजगाम दैत्येशः शम्बरः कालचोदितः ॥ २६ ॥
पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति ।
किमर्थमिह संयातो वद मे कारणं महत् ॥ २७ ॥
शम्बर उवाच ।
विद्यां दातुं महाभाग समायातोऽहमादरात् ।
समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥ २८ ॥
एवमुक्त्वा महादैत्यो विद्यां नानाविधां ददौ ।
आसुरीं तां ममो नाम साधयामास यत्नतः ॥ २९ ॥
साधयित्वा स्वयं विद्यां कामरूपो बभूव ह ।
नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥ ३० ॥
शम्बरं प्रणिपत्यैव जगाद वचनं हितम् ।
भक्तियुक्तस्वभावेन कृताञ्जलिरुदारधीः ॥ ३१ ॥
ममासुर उवाच ।
त्वया कृतं महाभाग महत् कार्यं मदीयकम् ।
अधुना शिष्यभूतं ते शाधि मां किं करोम्यहम् ॥ ३२ ॥
शम्बर उवाच ।
गणेशं शक्तिदत्तेन मन्त्रेणाराध्य मानद ।
ब्रह्माण्डराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥ ३३ ॥
[[७]]
तत्त्वैश्च तत्त्वसम्भूतैर्न मे मृत्युर्भवेत् प्रभो ।
याचस्व सर्वभावेन नान्यं कञ्चिद्वरं परम् ॥ ३४ ॥
वरान् लब्ध्वा महाभाग मद्गेहे सङ्गतो भव ।
पश्चात् किञ्चित् कुरुष्व त्वमिति याचेऽहमादरात् ॥ ३५ ॥
तथेति शम्बरं सोऽपि ममनामा जगाद ह ।
शम्बरः स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥ ३६ ॥
ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् ।
वायुमात्राशनो देवि ध्यात्वा हृदि गजाननम् ॥ ३७ ॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥ ३८ ॥
आगतं गणनाथं स न बुबोध महासुरः ।
ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥ ३९ ॥
श्रीगणेश उवाच ।
वरान् ब्रूहि महाभाग मम ते हृदि संस्थितान् ।
दास्यामि तपसा तुष्टो मन्त्रसेवनतः परम् ॥ ४० ॥
गणेशवचनं श्रुत्वा मम उन्मील्य लोचने ।
पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥ ४१ ॥
उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ।
पुनः प्रणम्य तं स्तोतुं स्तोत्रं सोऽपि समारभत् ॥ ४२ ॥
ममासुर उवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३ ॥
विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे ।
भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४ ॥
अनाथानां प्रणानाथ नाथाय नाथदायिने ।
नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५ ॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ ४६ ॥
अमेयशक्तये चैव शक्तिरूपधराय ते ।
शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ ४७ ॥
परेशाय परेभ्यस्तु परपदप्रदायिने ।
पराय पररूपाय परात्पर नमोऽस्तु ते ॥ ४८ ॥
ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने ।
ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ ४९ ॥
विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे ।
सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ ५० ॥
किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् ।
स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ ५१ ॥
धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् ।
अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ ५२ ॥
वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा ।
न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ ५३ ॥
यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ।
आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ ५४ ॥
राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद ।
सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ ५५ ॥
सदा विजयसंयुक्तमजेयं शङ्करादिभिः ।
मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ ५६ ॥
श्रीगणेश उवाच ।
दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक ।
तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ ५७ ॥
स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ ५८ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मणां पतिः ।
ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ ५९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥