०२ शिवपार्वतीसमागमः

॥ श्रीगणेशाय नमः ॥

दितिरुवाच ।
स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः ।
पुत्रो जातो महेन्द्रस्य मित्रं नानास्वरूपधृक् ॥ १ ॥

दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् ।
निष्फलो मे समारम्भो भवति स्म निरन्तरम् ॥ २ ॥

मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् ।
मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥ ३ ॥

पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः ।
स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥ ४ ॥

मुद्गल उवाच ।

तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः ।
जगाद स्मयमानः स योगीन्द्रः परमार्थवित् ॥ ५ ॥

कश्यप उवाच ।

मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी ।
संसारो दुःखमोहादियुक्तः शास्त्रे निगद्यते ॥ ६ ॥

दैत्याः पापसमाचारा देवाः पुण्यतमा मताः ।
पापिनां न सुखं देवि शाश्वतं वेदवादतः ॥ ७ ॥

कथितं वेदवादेषु वचनं सत्यमेव तत् ।
भविष्यति न सन्देहो ममतां तत्र मा कुरु ॥ ८ ॥

पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः ।
एवं परम्परा जाता भविष्यति निरन्तरम् ॥ ९ ॥

न वंशच्छेदिता ते तु भविष्यति कदाचन ।
दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥ १० ॥

कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् ।
शोकसन्तप्तगात्रा सा पतिं तेजस्विनां वरम् ॥ ११ ॥

दितिरुवाच ।
सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः ।
अकर्ते कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥ १२ ॥

ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम ।
संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥ १३ ॥

अहं मोहसमायुक्ता सदा तापत्रयान्विता ।
दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥ १४ ॥

येन शान्तिं समालभ्य स्थास्यामि दाहवर्जिता ।
तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥ १५ ॥

तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः ।
शान्तिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥ १६ ॥

कश्यप उवाच ।

अत्र तेऽहं वदिष्यामीतिहासं च पुरातनम् ।
तं ज्ञात्वा शान्तियुक्ता त्वं भजिष्यसि गजाननम् ॥ १७ ॥

[[४]]

हिमाचलसुता जाता पार्वती भगिनी च ते ।
तपसाऽऽराधिता तेन महामाया परात्परा ॥ १८ ॥

हिमाचलं समाश्रित्य शिवो ध्यानपरायणः ।
तताप तप उग्रं स गणेशं चिन्त्य सर्वदा ॥ १९ ॥

अत्रागत्य महेशानं पार्वती सेवनोत्सुका ।
पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥ २० ॥

महादेवो विदित्वा तां मनसि क्रोधमादधे ।
मामुल्लङ्घ्य गता दक्षाध्वरे चेयं विशेषतः ॥ २१ ॥

स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् ।
अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥ २२ ॥

एवं मनसि सन्धार्य न तां मेने महेश्वरः ।
समागतां तया सोऽपि भाषणं न चकार ह ॥ २३ ॥

ततोऽतिखेदसंयुक्ता पार्वती तं महेश्वरम् ।
सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥ २४ ॥

हावभावसमायुक्तां नित्यं सेवापरायणाम् ।
जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥ २५ ॥

गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता ।
देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥ २६ ॥

तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि ।
विचारमकरोच्चित्ते शिवा दुःखसमन्विता ॥ २७ ॥

मां त्यक्त्वा शङ्करो देवो गतो मानसमन्वितः ।
न वृणोति कदाचित् स निश्चितं शङ्करेण तत् ॥ २८ ॥

वेदे सङ्कथितं वाक्यं तपसा दुर्लभं कदा ।
किञ्चिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥ २९ ॥

एवं निश्चित्य सा देवी तताप तप उत्तमम् ।
ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥ ३० ॥

पञ्चाक्षरविधानेन तोषयामास शङ्करम् ।
लिङ्गपूजापरा देवी नानातपःपरायणा ॥ ३१ ॥

एवं बहौ गते काले न तुतोष सदाशिवः ।
क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥ ३२ ॥

ततो विघ्नेश्वरं देवी मन्त्रेणैकाक्षरेण च ।
तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥ ३३ ॥

त्यक्त्वा सदाशिवं देवी गणेशभजने रता ।
ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥ ३४ ॥

श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् ।
कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥ ३५ ॥

वायुमात्राशना देवी तां मूर्तिं भावसंयुता ।
पूज्य ध्यानपरा भूत्वा जजाप मन्त्रमुत्तमम् ॥ ३६ ॥

पुरश्चरणमार्गेण मन्त्रं जजाप नित्यदा ।
ततस्तां शङ्करो देवो मनसा सङ्गतोऽभवत् ॥ ३७ ॥

शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता ।
अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥ ३८ ॥

देहभृदपराधैश्च संयुक्तो जायते कदा ।
अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥ ३९ ॥

एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः ।
दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥ ४० ॥

ब्रह्मचारिस्वरूपेण निन्दयामास शङ्करम् ।
सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥ ४१ ॥

ततोऽतितोषसंयुक्तः शङ्करो रूपमादधे ।
स्वकीयं तद्विलोक्यैव ननाम जगदम्बिका ॥ ४२ ॥

तुष्टाव तं महादेवं ततः स वरदोऽभवत् ।
जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥ ४३ ॥

[[५]]

शिव उवाच ।

वरं वृणु महाभागे तपसा विजितस्त्वया ।
दास्यामि नात्र सन्देहस्त्वदधीनोऽहमादरात् ॥ ४४ ॥

त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमञ्जसा ।
भार्या मे भव कल्याणि पतिस्तेऽहं पुरातनः ॥ ४५ ॥

पार्वत्युवाच ।
यदि प्रसन्नभावेन वरं दास्यसि शङ्कर ।
तदा मे पितरं गत्वा भार्यार्थं याचयस्व माम् ॥ ४६ ॥

पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् ।
तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥ ४७ ॥

शिव उवाच ।

त्वयोक्तं सफलं सर्वं भविष्यति न संशयः ।
पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥ ४८ ॥

अहो तपो ह्यहो धैर्यमतस्ते देहजो मलः ।
सर्वपूज्यो महादेवि भविष्यति न संशयः ॥ ४९ ॥

कश्यप उवाच ।

तस्मिन् दिने तृतीया तु भाद्री शुक्ला बभूव ह ।
शिवेन संयुता देवी गणेशानं पुपूज ह ॥ ५० ॥

ततश्चतुर्थिकायां सा होमं चकार हर्षिता ।
पञ्चम्यां ब्राह्मणैः सार्धं पारणं जगदम्बिका ॥ ५१ ॥

महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता ।
जले चिक्षेप विघ्नेशं प्रार्थयामास यत्नतः ॥ ५२ ॥

ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः ।
गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥ ५३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥