०१ दितिशोकवर्णनम्

॥ श्रीगणेशाय नमः ॥

[[१]]

शौनक उवाच ।

विकटस्य चरित्रं वै श्रुत्वा सूत महामते ।
हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥ १ ॥

यत्किञ्चिद्गणराजस्य चेष्टितं व्यासशिष्यक ।
तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥ २ ॥

धन्यं भाग्यं मुनीन्द्राणां मदीयं येन ते द्विज ।
दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥ ३ ॥

योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः ।
पीत्वा न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥ ४ ॥

अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् ।
ममासुरविनाशाख्यं ब्रह्मप्राप्तिकरं परम् ॥ ५ ॥

सूत उवाच ।

मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः ।
विकटस्य पुनस्तं च जगादैव स हर्षितः ॥ ६ ॥

दक्ष उवाच ।

धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः ।
वदसे योगदां पूर्णां कथां योगीन्द्रवन्दित ॥ ७ ॥

आङ्गिरसकुले साक्षाद्योगरूपधरः प्रभो ।
त्वं जातोऽसि न सन्देहः कुलतारक एव च ॥ ८ ॥

अधुना वद माहात्म्यं विघ्नराजस्य सर्वदम् ।
श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥ ९ ॥

कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः ।
किं कर्मा कुत्र वासः सन्तिष्ठते विघ्ननायकः ॥ १० ॥

कस्य दैत्यस्य हन्ताऽसौ चरित्रं वद सर्वपम् ।
विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥ ११ ॥

मुद्गल उवाच ।

दक्ष त्वं योगिवन्द्यश्च भविष्यसि न संशयः ।
कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥ १२ ॥

समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् ।
चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥ १३ ॥

अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं कश्यपस्य दित्याः संवादसंयुतम् ॥ १४ ॥

महासुरौऽदितेः पुत्रौ हिरण्यकशिपुर्महान् ।
हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ॥ १५ ॥

ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ ।
सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥ १६ ॥

एवं बहौ गते काले काश्यपस्तोषमाययौ ।
तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥ १७ ॥

दितिरुवाच ।
मम पुत्रौ हतौ तेन विष्णुना मघवार्थतः ।
अत इन्द्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥ १८ ॥

तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह ।
अहो साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥ १९ ॥

अधुना किं करिष्यामि धर्मपालकमुत्तमम् ।
साधुं गुणयुतं पुत्रमिन्द्रं रक्षामि वै कथम् ॥ २० ॥

अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः ।
व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥ २१ ॥

तदा ते भविता पुत्रो हन्तेन्द्रस्य न संशयः ।
छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥ २२ ॥

एवमुक्त्वा गणेशं स ध्यात्वा रेमे तया सह ।
तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥ २३ ॥

प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता ।
व्रतं चकार यत्नेन नियमस्था प्रजापते ॥ २४ ॥

तत इन्द्रेण वृत्तान्तो ज्ञातो नारदवाक्यतः ।
गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥ २५ ॥

[[२]]

ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ ।
इन्द्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥ २६ ॥

दितिं सिषेवे नित्यं स व्रतयुक्तां प्रणम्य ह ।
छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥ २७ ॥

नवमासा गतास्तत्र तथापि छिद्रकं परम् ।
किञ्चिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥ २८ ॥

विघ्नराजं हृदि ध्यात्वा चिन्तायुक्तः सुराधिपः ।
तां सिषेवे युतो भक्त्या सदा तन्मयचेतसा ॥ २९ ॥

दशभिर्दिवसैर्न्यूनं वर्षं तत्र गतं किल ।
ततोऽतितापसंयुक्तः किं भविष्यति विह्वलः ॥ ३० ॥

ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
स्वयं सा मोहिता देवी भ्रान्ता जाता सहर्षतः ॥ ३१ ॥

विचारमकरोच्चित्ते व्रते संवत्सरो गतः ।
किञ्चिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥ ३२ ॥

हित्वा त्रिलोकगं राज्यं सुत ऐन्द्रं करिष्यति ।
ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि साम्प्रतम् ॥ ३३ ॥

ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा ।
जानुमध्ये समाकृत्य सुष्वाप मोहसंयुता ॥ ३४ ॥

दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह ।
जानुमध्ये शिरस्तेन द्वे छिद्रे सम्बभूवतुः ॥ ३५ ॥

इन्द्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् ।
स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥ ३६ ॥

तत्र तेजोयुतं गर्भं ददर्श देवनायकः ।
चकार तस्य वज्रेण सप्त खण्डानि वैरतः ॥ ३७ ॥

तपसोग्रेण दित्याः स न ममार तथाप्यहो ।
रुरोद सप्तदेहस्थो गर्भस्तेजस्विनां वरः ॥ ३८ ॥

दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः ।
एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥ ३९ ॥

तथापि न ममाराऽसौ गर्भः परमपावनः ।
तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥ ४० ॥

जगाद मघवन्तं स गर्भो हंसि सुरेश्वर ।
किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥ ४१ ॥

तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् ।
वैरभावं परित्यज्य भविष्यथ दिवौकसः ॥ ४२ ॥

तथेति तैः कृतं तत्र बहिरिन्द्रः समाययौ ।
ततो दितिः प्रजानाथ जजागार शुशोच ह ॥ ४३ ॥

एतस्मिन्नन्तरे तत्र पुत्रान् सा सुषुवे परान् ।
एकोनपञ्चाशत्कांस्तु वीक्ष्य चेन्द्रमुवाच सा ॥ ४४ ॥

दितिरुवाच ।
इन्द्र किं बहवः पुत्रा एकः सङ्कल्पितोऽभवत् ।
वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥ ४५ ॥

इन्द्र उवाच ।

मया ज्ञातं त्वदीयं यच्चेष्टितं मेऽत्र नाशकम् ।
मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥ ४६ ॥

छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया ।
वज्रेण जठरे गत्वा गर्भं छित्वा बहिर्गतः ॥ ४७ ॥

तपोबलेनैव नव न मृतास्ते सुता इमे ।
स्वयं प्राणधरा जाता वायवश्च भवन्तु हि ॥ ४८ ॥

तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा ।
सत्यभाषणसंयुक्तमिन्द्रं तुष्टा बभूव ह ॥ ४९ ॥

कदा दैत्यान् समालोक्य दीनान् शोकपरायणा ।
पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥ ५० ॥

[[३]]

जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः ।
विनयेन समायुक्ता स्वार्थमोहयुता परा ॥ ५१ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥