॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
एवं नानावताराश्च धृतास्तेन महात्मना ।
विकटेन महादेव्यः सङ्ख्यातुं नैव शक्यते ॥ १ ॥
भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् ।
कुरुते स्वावतारान् स विकटः परमेश्वरः ॥ २ ॥
मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् ।
संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥ ३ ॥
तत्र विघ्नेश्वरं भक्त्या सेवध्वं शक्तयः पराः ।
तेन योगीन्द्रवन्द्याश्च भविष्यथ न संशयः ॥ ४ ॥
विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः ।
गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥ ५ ॥
वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् ।
तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥ ६ ॥
गणेशमूर्तेश्च हृदि चिन्तनं कुरुत प्रियाः ।
मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥ ७ ॥
विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा ।
गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥ ८ ॥
मुद्गल उवाच ।
एवमुक्त्वा ददौ ताभ्यो मन्त्रमेकाक्षरं परम् ।
सविधिं गणराजस्य ततो मौनं समादधे ॥ ९ ॥
प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः ।
महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥ १० ॥
मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः ।
प्रणम्यापूज्य तां ढुण्ढिं ततस्तेपुस्तपो महत् ॥ ११ ॥
शतवर्षे गते तासां पुरतो मयूरेश्वरः ।
समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥ १२ ॥
पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः ।
पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ॥ १३ ॥
महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः ।
मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे ।
विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ १४ ॥
लम्बोदराय देवाय मूषकध्वजिने नमः ।
अनाथानां सनाथाय नमो नाथाय ते नमः ॥ १५ ॥
परेशाय महेशेभ्यः सिद्धिदाय गजानन ।
अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ १६ ॥
ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ १७ ॥
[[१२६]]
हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे ।
कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ १८ ॥
सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने ।
सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ १९ ॥
मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे ।
योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ २० ॥
शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने ।
नानारूपधरायैव खेलकाय नमो नमः ॥ २१ ॥
किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे ।
वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ २२ ॥
भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके ।
तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ २३ ॥
इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ २४ ॥
एवं दक्ष महच्चित्रं चरितं कथितं मया ।
विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥ २५ ॥
नानेन सदृशं किञ्चित् सर्वदं कुत्र वर्तते ।
साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥ २६ ॥
इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः ।
श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥ २७ ॥
एकमावर्तनं नित्यं यः कुर्यात् स मतो परः ।
साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥ २८ ॥
यावन्ति साधनान्येव साधयेत् परमादृतः ।
शतवारं लभेत् पुण्यं खण्डस्यास्य श्रवाच्च तत् ॥ २९ ॥
इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः ।
तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥ ३० ॥
पुराणोपपुराणानि सेतिहासानि नित्यशः ।
शृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥ ३१ ॥
बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः ।
वर्णितो विकटस्तेन समं किं सम्भवेद्वद ॥ ३२ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षो हर्षयुतोऽत्यन्तं प्रणनाम च मुद्गलम् ॥ ३३ ॥
मया सम्पूर्णभावेन कथितं ते द्विजोत्तम ।
कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥ ३४ ॥
धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् ।
नानेन सदृशं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ ३५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खण्डः समाप्तः ॥
॥ श्रीगजाननार्पणमस्तु ॥