॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः ।
तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥ १ ॥
मायायां बिम्बितं ब्रह्म विकटस्य महात्मनः ।
आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥ २ ॥
सञ्ज्ञा जाता ततस्तस्य विकटस्य परात्मनः ।
सा सञ्ज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥ ३ ॥
तस्यां बिम्बमयाद्वीर्यान्नाना जीवा बभूविरे ।
तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥ ४ ॥
सञ्ज्ञया संयुतः सूर्यो ज्ञानहीनो बभूव ह ।
तपस्तताप घोरं स गणेशस्य महात्मनः ॥ ५ ॥
दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः ।
प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥ ६ ॥
उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् ।
दास्यामि तपसा तुष्टो भवेद्यदपि दुर्लभम् ॥ ७ ॥
ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः ।
सञ्ज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥ ८ ॥
पुनः पुनर्ननामाथ तं सम्पूज्य महायशाः ।
कृत्वा करपुटं सञ्ज्ञायुतः स्तोतुं प्रचक्रमे ॥ ९ ॥
सूर्य उवाच ।
नमस्ते विकटायैव मायामायिकरूपिणे ।
वामाङ्गे सञ्ज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १० ॥
तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः ।
गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११ ॥
एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् ।
धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२ ॥
गजाननाय सर्वादिपूज्याय परमात्मने ।
हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ १३ ॥
परेशाय महाविघ्ननाशनाय महात्मने ।
दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ १४ ॥
अनाथाय सनाथानां नाथाय सर्वदायिने ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ १५ ॥
अनन्तविभवायैवानन्तमायाप्रधारिणे ।
ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ १६ ॥
मूषकवाहनायैव सर्वान्तरप्रचारिणे ।
मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ १७ ॥
किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक ।
अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ १८ ॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ १९ ॥
श्रीगणेश उवाच ।
मदीयस्तवनं चेदं सर्वदं सम्भविष्यति ।
त्वया कृतं पठेद्यश्च शृणुयात्तस्य सर्वदा ॥ २० ॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
सन्तुष्टोऽन्ते ब्रह्ममयं करिष्यामि महामते ॥ २१ ॥
दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः ।
सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥ २२ ॥
भानुरुवाच ।
प्रसन्नोऽसि यदा ढुण्ढे देहि भक्तिं त्वदीयिकाम् ।
ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥ २३ ॥
परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् ।
मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥ २४ ॥
त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः ।
तत्र त्वां पुत्रभावेन भजिष्यामि निरन्तरम् ॥ २५ ॥
हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् ।
तेनाहं कृतकृत्यश्च भविष्यामि गजानन ॥ २६ ॥
[[१२४]]
ओमित्युक्त्वा गणाधीशस्ततोऽन्तर्धानगोऽभवत् ।
सूर्यस्तं चिन्त्य स्वस्थानं जगाम प्रियया सह ॥ २७ ॥
सूर्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् ।
असद्ब्रह्म ततः सर्वं नानारूपमकल्पयत् ॥ २८ ॥
गणेशवरदानेन मोहहीनो बभूव ह ।
अभजत्तं सदा भानुर्भक्त्या योगीन्द्रवन्दितः ॥ २९ ॥
एकदा प्रियया युक्तः सस्मार गणनायकम् ।
तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥ ३० ॥
स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् ।
बालं शुण्डाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥ ३१ ॥
सूर्य उवाच ।
कोऽसि त्वं वद मां बाल गणेशाकृतिधारक ।
किमर्थमिह चायातः किं गणेशो भवान् परः ॥ ३२ ॥
सूर्यस्य वचनं श्रुत्वा तं जगाद गजाननः ।
स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥ ३३ ॥
पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः ।
पालयस्व पितर्मां त्वं सञ्ज्ञया सह मानद ॥ ३४ ॥
तस्य तद्वचनं श्रुत्वा सञ्ज्ञया सह चार्यमा ।
प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥ ३५ ॥
एतस्मिन्नन्तरे तत्राऽऽजगाम सुरसत्तमः ।
तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥ ३६ ॥
उत्थाय गणनाथस्तं जघान मुष्टिघाततः ।
पातयामास भूम्यां स निर्जीवं दैत्यपुङ्गवम् ॥ ३७ ॥
मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः ।
तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥ ३८ ॥
मोहितः सञ्ज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् ।
लालयामास हर्षेण पुत्रभावपरायणः ॥ ३९ ॥
गणेशमायया तत्र सञ्ज्ञा स्तन्यमपाययत् ।
वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥ ४० ॥
ततः सोऽन्तर्हित पुत्रो भानुः सम्मूर्च्छितोऽभवत् ।
सञ्ज्ञया च तयोर्ढुण्ढिर्हृदि संस्थो बभूव ह ॥ ४१ ॥
मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् ।
मूर्तिं कृत्वा सदा तत्र पूजयेथां निरन्तरम् ॥ ४२ ॥
ततस्तौ सावधानौ तु तथा चक्रतुरादरात् ।
भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥ ४३ ॥
शक्तय ऊचुः ।
कोऽसौ तामिस्रसञ्ज्ञश्चासुरस्तस्य चरित्रकम् ।
वद शक्ते यदर्थं तु वरदः सम्बभूव ह ॥ ४४ ॥
आदिशक्तिरुवाच ।
सूर्योऽहङ्कारसंयुक्तो बभूवे जीवनात्मकः ।
सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥ ४५ ॥
एवं बहौ गते काले विस्मृतो गणनायकम् ।
छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥ ४६ ॥
तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् ।
अन्धकारकरं पूर्णं वरदस्तमुवाच ह ॥ ४७ ॥
भानुरुवाच ।
त्रिगुणान्नभयं पुत्र भविष्यति कदाचन ।
त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥ ४८ ॥
यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल ।
भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥ ४९ ॥
तं प्रणम्य महादैत्यः पातालमगमन्मुदा ।
शुक्रेण प्रेरितैर्दैत्यैः कृतो राजा सुरद्विषाम् ॥ ५० ॥
सह तैर्मदसंयुक्तो जिग्ये ब्रह्माण्डमण्डलम् ।
राज्यं चकार दैत्येशैर्महाबलयुतो बभौ ॥ ५१ ॥
रविं तेजस्विनं दृष्ट्वा वैरभावेन संयुतः ।
अन्धकारेण नित्यं सञ्छादयामास शक्तयः ॥ ५२ ॥
[[१२५]]
निरर्थकं चकारासौ सूर्यं तेजस्विनां वरम् ।
नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥ ५३ ॥
ततोऽहङ्कारहीनः स सस्मार गणनायकम् ।
गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥ ५४ ॥
एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् ।
वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥ ५५ ॥
शृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् ।
भविष्यति सदा चान्ते ब्रह्मभूयप्रदायकम् ॥ ५६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥