॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कश्यपस्य च भार्याऽऽसीद्विनता रूपशालिनी ।
तस्यामण्डे समुत्पन्ने द्वेऽतीव तेजसा युते ॥ १ ॥
ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च ।
अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥ २ ॥
सारथिः स रवेरासीन्नित्यं तद्भक्तिसंयुतः ।
सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥ ३ ॥
गणेशं नित्यमानन्दात् सूर्यो भेजे विशेषतः ।
प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥ ४ ॥
अरुण उवाच ।
स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा ।
एक एवाद्वितीयोऽसि भजसे कं गजाननम् ॥ ५ ॥
कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज ।
मोहं करोषि देवेश स्वरूपच्छादनाय ते ॥ ६ ॥
योगिनो देवमुख्याश्च त्वां ज्ञात्वा शान्तिमादधुः ।
त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥ ७ ॥
सूर्य उवाच ।
त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः ।
न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥ ८ ॥
पूर्णभावमविज्ञाय शान्तिं धृत्वा त्वमञ्जसा ।
संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥ ९ ॥
गणेशादहमुत्पन्नस्तस्यान्ये शङ्करादयः ।
ज्येष्ठराजश्च तेनायं तस्य ज्येष्ठो न विद्यते ॥ १० ॥
[[१२१]]
असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः ।
तयोः समानभावे त्वाऽऽनन्दो विष्णुः प्रकीर्तितः ॥ ११ ॥
आनन्दाच्च परो व्यक्तः शङ्करस्तुर्यसञ्ज्ञितः ।
तेषां योगे गणेशानः स्वानन्दाख्यः प्रकीर्तितः ॥ १२ ॥
सर्वसंयोगकर्तृत्वात् मायायुक्तो गणेश्वरः ।
स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥ १३ ॥
तस्मात्परो ह्ययोगश्च स्वसंवेद्यविवर्जितः ।
तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥ १४ ॥
ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल ।
अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥ १५ ॥
एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह ।
जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥ १६ ॥
अरुण उवाच ।
गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् ।
भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥ १७ ॥
सूर्य उवाच ।
एकाक्षरविधानेन तं भजस्व तु काश्यप ।
हृदि चिन्तामणिं दृष्ट्वा योगिवन्द्यो भविष्यसि ॥ १८ ॥
एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः प्रभुः ।
स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥ १९ ॥
तताप तप उग्रं स गणेशध्यानतत्परः ।
योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥ २० ॥
ततो योगीन्द्रवन्द्यः स बभूवे योगसेवया ।
चित्तं पञ्चविधं त्यक्त्वा रसयुक्तं जपे रतः ॥ २१ ॥
एवं वर्षशतेष्वेनं गतेषु द्विरदाननः ।
आययौ वरदानार्थं भक्तिसम्भावितः प्रभुः ॥ २२ ॥
ततः सोऽपि गणेशानं न बुबोध महायशाः ।
हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥ २३ ॥
सञ्ज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह ।
पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥ २४ ॥
हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः ।
अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥ २५ ॥
ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् ।
पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥ २६ ॥
यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् ।
रविं सञ्ज्ञायुतं दृष्ट्वा विस्मयं परमं ययौ ॥ २७ ॥
गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना ।
गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥ २८ ॥
नानाभेदमयी माया तत्रात्मा भेदवर्जितः ।
अतो विकटसञ्ज्ञोऽयमात्माकारो गजाननः ॥ २९ ॥
विकटरूपिणं सूर्यं भजिष्यामि निरन्तरम् ।
कलांशं गणेराजस्य तेन तुष्टोऽयमञ्जसा ॥ ३० ॥
एतदर्धं गणेशेन रूपं सूर्यात्मकं परम् ।
स्वकीयाभेदभावाख्यं दर्शितं मेऽत्र साम्प्रतम् ॥ ३१ ॥
ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह ।
नियम्यात्मानमानन्दयुक्तस्तोत्रं प्रचक्रमे ॥ ३२ ॥
अरुण उवाच ।
नमस्ते गणनाथाय तेजसां पतये नमः ।
अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३ ॥
ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।
आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४ ॥
स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।
चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५ ॥
[[१२२]]
सिद्धिबुद्धिपते तुभ्यं सञ्ज्ञानाथाय ते नमः ।
विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ३६ ॥
अनन्तविभवायैव नामरूपप्रधारिणे ।
मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ३७ ॥
ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।
गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ३८ ॥
विवस्वते भानवे ते रवये ज्योतिषां पते ।
लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ३९ ॥
यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।
भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ४० ॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ४१ ॥
एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।
वामाङ्गे सञ्ज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ ४२ ॥
तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।
तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ४३ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ ४४ ॥
शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।
भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ ४५ ॥
गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च ।
जगाद साश्रुनेत्रः सन् सरोमाञ्चो गजाननम् ॥ ४६ ॥
अनूरुरुवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजाश्रिताम् ।
गाणपत्यप्रियत्वं मे सदा सङ्गं महात्मनाम् ॥ ४७ ॥
तथेति तमथोक्त्वाऽसौ विकटोऽन्तर्दधे स्वयम् ।
अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ४८ ॥
ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः ।
भानुविनायक इति नाम चक्रे सुहर्षितः ॥ ४९ ॥
पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् ।
अरुणस्तं प्रणम्यैव वृत्तान्तं कथयत् परम् ॥ ५० ॥
तेनैवं स्थापितं तत्रारुणो गणपतिं परम् ।
अभजद्रथसंस्थश्च योगशान्तिपरोऽभवत् ॥ ५१ ॥
एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् ।
तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥ ५२ ॥
शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल ।
स ईप्सितफलं प्राप्यान्ते स्वानन्दमवाप्नुयात् ॥ ५३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥
[[१२३]]