४२ सूर्यावतारचरितम्

॥ श्रीगणेशाय नमः ॥

आदिशक्तिरुवाच ।
विकटेन महादेव्यो रचितं मायया परम् ।
नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥ १ ॥

तेन नानाविधं ब्रह्म जगन्नानाविधं तथा ।
सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥ २ ॥

ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् ।
एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥ ३ ॥

तुष्टस्तानि ययौ देवो वरदानार्थमादरात् ।
रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः ॥ ४ ॥

तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् ।
तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥ ५ ॥

आत्माकारोऽयमेकश्च विकटः सूर्यरूपधृक् ।
न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥ ६ ॥

तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः ।
स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥ ७ ॥

नानाब्रह्माण्यूचुः ।
विकटाय परेशाय सर्वजीवनधारिणे ।
आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ ८ ॥

सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने ।
हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ ९ ॥

सञ्ज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे ।
छायानाथाय देवेश देवदेवेश ते नमः ॥ १० ॥

अनामयाय नित्याय सहस्रकरधारिणे ।
अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ ११ ॥

सर्वादये सदा सर्वाधाराय विश्वमूर्तये ।
कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ १२ ॥

आदित्याय परेशाय परात्परतराय ते ।
दिनस्य पतये नाथ दिनपालाय वै नमः ॥ १३ ॥

अर्यम्णे काश्यपायैव तेजसां पतये नमः ।
अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ १४ ॥

किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः ।
योगिनं सततं सर्व आत्माकारं परात्परम् ॥ १५ ॥

एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः ।
वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ १६ ॥

एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः ।
तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ १७ ॥

सूर्य उवाच ।

वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः ।
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ १८ ॥

यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ १९ ॥

सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु ।
जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥ २० ॥

ब्रह्माण्यूचुः ।
तुष्टश्चेद्ब्रह्मब्रह्मेश जीवयुक्तानि नित्यदा ।
कुरुष्व सर्वभावेन स्वस्य सौख्यपराणि तु ॥ २१ ॥

भक्तिं देहि सदा नाथ तव पादाम्बुजे पराम् ।
मायामोहविनाशार्थं योगं देहि परात्परम् ॥ २२ ॥

तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह ।
मायामोहविनाशार्थं गाणेशं योगशान्तिदम् ॥ २३ ॥

सूर्य उवाच ।

असत् सत् समनेतीनां संयोगे योग उच्यते ।
स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥ २४ ॥

स्वस्वरूपेण हीनोऽयमयोगो योग उच्यते ।
णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥ २५ ॥

तयोर्योगे गणेशानः शान्तीनां शान्तिदायकः ।
चित्ते चिन्तामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥ २६ ॥

[[१२०]]

संयोगायोगरूपं यन्मायामयं विशेषतः ।
तस्या विकटभावेन भजध्वं विकटं सदा ॥ २७ ॥

स्वस्वब्रह्मणि संस्थं तु कर्म कृत्वा स्वभावजम् ।
गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥ २८ ॥

एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः ।
अन्तर्दधे महादेव्यः स्वानन्दस्थो बभूव ह ॥ २९ ॥

ततो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च ।
जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥ ३० ॥

यथा सूर्येण सन्दिष्टो योगो विकटसञ्ज्ञितः ।
साधयित्वा तथा तानि सुशान्तानि बभूविरे ॥ ३१ ॥

हृदि चिन्तामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः ।
समर्प्य विकटं देव्यो भजन् ब्रह्माणि रेमिरे ॥ ३२ ॥

एवं विकटमाहात्म्यं सूर्यावतारसञ्ज्ञितम् ।
कथितं विस्तरेणैव समासेनापि निश्चितम् ॥ ३३ ॥

अयं सूर्यात्मकश्चैव विकटस्य महात्मनः ।
अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥ ३४ ॥

शृणुयाद्यः पठेद्वापि स सिद्धिं परमां लभेत् ।
ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥ ३५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥