॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् ।
शिवं दृष्ट्वा मयूरेशो मायामाविश्चकार ह ॥ १ ॥
समागत्य महेशानं तस्य भालस्थितं प्रभुः ।
चन्द्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥ २ ॥
मायया मोहिताः सर्वे शिवमुख्या विशेषतः ।
न जानन्ति स्म देवेशं चन्द्रतास्कर्यकारिणम् ॥ ३ ॥
ततः शिवः स्वभाले तं न ददर्श निशाकरम् ।
क्रोधयुक्तो गणान् प्राह कथं चन्द्रो गतो गणाः ॥ ४ ॥
ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् ।
चन्द्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥ ५ ॥
ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् ।
बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥ ६ ॥
ततो गणा ययुस्तं ते तेन निःश्वासवायुना ।
निक्षिप्ताः शङ्करस्याग्रे शुष्कपत्रसमप्रभाः ॥ ७ ॥
एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् ।
भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥ ८ ॥
ततो मायां समाश्रित्य शिवभाले निशाकरम् ।
मयूरेशः समागत्याऽऽस्थाप्य भ्रान्तांश्चकार ह ॥ ९ ॥
स्वभालस्थं महेशानो दृष्ट्वा चन्द्रं गणास्तथा ।
मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥ १० ॥
एवं शिवं पराधीनं कारयामास विघ्नपः ।
ततः कदाचिद्दैत्येन्द्रं वनं हन्तुं जगाम ह ॥ ११ ॥
व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः ।
न तं जानन्ति विप्राणां सुताः शार्दूलरूपिणम् ॥ १२ ॥
यत्र तत्र भ्रमन्ति स्म बालास्तद्दर्शनोत्सुकाः ।
ते सर्वे सुष्वपुः श्रान्ता निद्रां लेभुः श्रमान्विताः ॥ १३ ॥
पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः ।
तान् गृह्य निगडैर्बद्ध्वा चिक्षपे स्वपुरे यमः ॥ १४ ॥
हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ ।
न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥ १५ ॥
गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः ।
एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥ १६ ॥
दशपञ्च वयोवर्षाण्यतिक्रम्य गणेश्वरः ।
शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥ १७ ॥
अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् ।
उवाच शङ्करं सोऽपि हर्षयुक्तेन चेतसा ॥ १८ ॥
नारद उवाच ।
तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा ।
वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥ १९ ॥
तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् ।
मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥ २० ॥
तथेति तमुवाचाथ शङ्करस्तेन संयुतः ।
मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥ २१ ॥
मार्गमध्ये मयूरेशो ददर्श नगरं परम् ।
सिन्धोर्देवविमोक्षार्थं विचारमकरोत् परम् ॥ २२ ॥
ततो युद्धं महाघोरं चकार सिन्धुना स्वयम् ।
मयूरेशो गणैः सार्धं सोऽपि तेन महासुरः ॥ २३ ॥
ततः परशुना भित्वा नाभिं त्वमृतसंयुताम् ।
मारयामास सिन्धुं च नानादैत्येन्द्रनायकैः ॥ २४ ॥
विष्णुभक्तः पिता तस्य चक्रपाणिर्महायशाः ।
मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥ २५ ॥
[[११७]]
त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः ।
बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ २६ ॥
कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् ।
देवान् देवेन्द्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥ २७ ॥
तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके ।
सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥ २८ ॥
ते दृष्ट्वा कामसन्तप्ता देवेन्द्राश्च बभूविरे ।
देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥ २९ ॥
अस्मभ्यो देहि देवेश कन्ये परमसुन्दरे ।
न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥ ३० ॥
ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः ।
आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥ ३१ ॥
ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् ।
जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥ ३२ ॥
सिद्धिबुद्धी सुरेन्द्रेषु वृणुतं वरमीप्सितम् ।
ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥ ३३ ॥
ततो मात्रां समागृह्य चिन्तामणिं प्रदृश्य ते ।
सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥ ३४ ॥
मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः ।
तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥ ३५ ॥
ततः सर्वे प्रणेमुस्तं देवेन्द्रादय आदरात् ।
सिन्धोर्वधात् प्रहर्षेण युक्ताः सम्पूज्य तुष्टुवुः ॥ ३६ ॥
देवर्षय ऊचुः ।
नमस्ते शिखिवाहाय मयूरध्वजधारिणे ।
मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ ३७ ॥
अनाथानां प्रणाथाय गताहङ्कारिणां पते ।
मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ ३८ ॥
सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने ।
स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३९ ॥
अनादये परेशाय दैत्यदानवमर्दिने ।
विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ ४० ॥
शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ ४१ ॥
नानावताररूपैस्तु विश्वसंस्थाकराय ते ।
काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ ४२ ॥
सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते ।
देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ ४३ ॥
योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे ।
अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ ४४ ॥
अनन्तविभवायैव चित्तवृत्तिप्रचालक ।
सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ ४५ ॥
सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः ।
गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ ४६ ॥
किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो ।
योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ ४७ ॥
तेन तुष्टो भव स्वामिन् दया?धन प्रवर्तक ।
त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ ४८ ॥
एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् ।
वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ ४९ ॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ ५० ॥
[[११८]]
यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् ।
भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ ५१ ॥
मयूरेशवचः श्रुत्वा देवाः सर्षिगणाश्च तम् ।
प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥ ५२ ॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप ।
त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥ ५३ ॥
हतः सिन्धुर्महावीर्यस्तेन सर्वे कृतार्थकाः ।
अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया ॥ ५४ ॥
तथेति तानुवाचाथ मयूरेशः प्रतापवान् ।
दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम ह ॥ ५५ ॥
चक्रपाणिर्गणेशस्य पञ्चायतनमार्गतः ।
अभजत्तं मयूरेशमन्ते स्वानन्दगोऽभवत् ॥ ५६ ॥
मयूरेशः समायातो मयूरे सर्वसंयुतः ।
सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥ ५७ ॥
यदर्थमागता देवास्तत् सर्वं सुकृतं मया ।
अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥ ५८ ॥
एवमुक्त्वान्तर्दधेऽसौ मयूरेशः स्वलीलया ।
देवर्षयश्च खेदेन युक्तास्तत्रैव संस्थिताः ॥ ५९ ॥
पार्वतीशङ्करौ तत्र मूर्च्छितौ स बभूवतुः ।
तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ ॥ ६० ॥
भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः ।
न वियोगः कदा मे वां पितरौ नात्र संशयः ॥ ६१ ॥
बहिर्मूर्तिं समास्थाप्यापूज्य तत्रैव भक्तितः ।
सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥ ६२ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः ।
ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥ ६३ ॥
ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते ।
संस्थिताः कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥ ६४ ॥
पूर्णभावेन तत्रैव मयूरेशं सिषेविरे ।
क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः ॥ ६५ ॥
विकटस्यावतारोऽयं मयूरेश्वरसञ्ज्ञितः ।
भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥ ६६ ॥
यः पठेत् शृणुयाच्चेद्वा स लभेदीप्सितं फलम् ।
अन्ते स्वानन्दगो भूत्वा मोदते ब्रह्मतत्परः ॥ ६७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥
[[११९]]