४० विष्ण्वादिपराधीनतादर्शनम्

॥ श्रीगणेशाय नमः ॥

आदिशक्तिरुवाच ।
तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः ।
सिन्धुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥ १ ॥

ततोतिभयसंयुक्ता मुनयः शङ्करादयः ।
किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥ २ ॥

तत्रापि मायया युक्ता दैत्येन्द्राश्च समाययुः ।
हन्तुं शिवसुतं नित्यं तान् जघान मयूरपः ॥ ३ ॥

ततो विघ्नविनाशार्थमिन्द्रयज्ञं समारभत् ।
शङ्करस्तं मयूरेशो बभञ्ज क्रोधसंयुतः ॥ ४ ॥

तत इन्द्रः सुरेशानैर्मयूरेशमयोधयत् ।
तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥ ५ ॥

शक्तय ऊचुः ।
कारागारे स्थिता देवाः सिन्धोस्ते योद्धुमाययुः ।
कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥ ६ ॥

आदिशक्तिरुवाच ।
मेरुसंस्था महेशाना दैत्यैः सम्प्रधृताः पुरा ।
निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥ ७ ॥

तान् ग्रहीतुं न शक्ताश्च भवन्ते केऽपि शक्तयः ।
तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥ ८ ॥

देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः ।
तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥ ९ ॥

दीव्यन्ति सर्वभावेषु तेन देवाः प्रकीर्तिताः ।
देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥ १० ॥

शताश्वमेधयज्ञानां कर्तेन्द्रो भवति प्रियाः ।
तिष्ठन्ति कर्मजा देवास्तादृशाः काञ्चनाचले ॥ ११ ॥

मन्दारादिषु सर्वत्र नगराणि दिवौकसाम् ।
तान् जयन्ति समर्थाश्चासुरादयो न संशयः ॥ १२ ॥

ब्रह्मणो दिवसान्ते ते मन्वन्तरपरायणाः ।
लयं गच्छन्ति यज्ञानां फलं भुक्त्वा न संशयः ॥ १३ ॥

पुनर्जन्मधराः सर्वे भवन्ति नरजातिषु ।
कुर्वते यादृशं कर्म लभन्ते तादृशं फलम् ॥ १४ ॥

अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः ।
कुर्वते स्वाधिकारांश्च सदा कर्मपरायणाः ॥ १५ ॥

जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् ।
अधिकाराः समाख्याता यमस्य यातनादयः ॥ १६ ॥

दैत्या धर्षयितुं शक्तास्तान् भवन्ति न कर्मणा ।
सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदन्ति च ॥ १७ ॥

योगबलेन योगीशास्तान् देवांश्चालयन्ति च ।
नान्यबलेन देवेशाश्चलन्ति स्वाधिकारिणः ॥ १८ ॥

ब्रह्मणो दिवसान्ते ते न मृत्युं देवसत्तमाः ।
लभन्ते वै निराधाराः कर्मरूपप्रधारकाः ॥ १९ ॥

महालये लयं देवा गच्छन्त्यत्र न संशयः ।
सलोकपरिवारास्ते पुनर्देहधरा मताः ॥ २० ॥

मृत्युलोके नराः सर्वे भवन्ते कर्मयन्त्रिताः ।
यादृशं कुर्वते कर्म लभन्ते तादृशं फलम् ॥ २१ ॥

तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः ।
ते तत्त्वैर्विश्वमानन्दाद्भावयन्ति चराचरम् ॥ २२ ॥

उत्पत्तिस्थिसंहारकर्तारः सर्वरूपकाः ।
ब्रह्माकारस्वभावेन तिष्ठन्ति जगदीश्वराः ॥ २३ ॥

महाप्रलयवेलायां स्वविहारं समाप्य ते ।
योगनिद्रां प्रकुर्वन्ति योगाकारा विशेषतः ॥ २४ ॥

पुनः क्रीडन्ति सृष्ट्वा च ब्रह्माण्डं देवनायकाः ।
न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥ २५ ॥

योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः ।
वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥ २६ ॥

[[११४]]

तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः ।
न भवन्ति कदा देव्यो ज्ञातव्यं शास्त्रमार्गतः ॥ २७ ॥

सम्प्रज्ञाताऽसम्प्रज्ञातमयो योगः प्रकीर्तितः ।
द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥ २८ ॥

तेन योगबलेनैव तान् जयन्ति सुरान्नराः ।
साध्याः सर्वे भवन्त्येव देवास्तद्वशवर्तिनः ॥ २९ ॥

यं यमिच्छति योगीन्द्रस्तं तं कुर्वन्ति देवपाः ।
प्रारब्धं चालयन्त्येव योगिवश्यपरायणाः ॥ ३० ॥

यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् ।
योगभ्रष्टा भवन्त्येव जन्ममृत्युपरायणाः ॥ ३१ ॥

योगिनां योगभावेन भयं गच्छन्ति देवताः ।
तत्त्वरूपा न सन्देहो ज्ञातव्यं वेदवादतः ॥ ३२ ॥

कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् ।
सेवनाद्भञ्जनात्तस्य द्वन्द्वयुक्ता भवन्ति ते ॥ ३३ ॥

अधुना प्रकृतं देव्यः शृणुध्वं त्वेकचेतसः ।
अवतारचरित्रं तु विकटस्य महात्मनः ॥ ३४ ॥

प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके ।
समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥ ३५ ॥

विचारमकरोच्चित्ते शिवपुत्रोऽयमुच्यते ।
अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्तयः ॥ ३६ ॥

अयं गणेश्वरः साक्षात् कथितो नात्र संशयः ।
परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥ ३७ ॥

एवं विचार्य ब्रह्माण्डं शिवशक्तिसमन्वितम् ।
अन्तर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥ ३८ ॥

मयूरेशस्ततस्तच्च ज्ञात्वा चराचरं जगत् ।
निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥ ३९ ॥

ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् ।
तत्रानन्ताण्डकं दृष्ट्वा बभ्राम यत्र तत्र सः ॥ ४० ॥

गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना ।
बहिर्निःष्कासयामास मयूरेशो महायशाः ॥ ४१ ॥

बहिरागत्य वेधाः स क्षणमेकं ददर्श ह ।
ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥ ४२ ॥

स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः ।
मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमण्डलुः ॥ ४३ ॥

एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः ।
मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥ ४४ ॥

ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा ।
समागता च तस्यां ते मृण्मयीं चक्रुरादृताः ॥ ४५ ॥

स्वे स्वे गृहे तु सर्वे ते मुनयः शङ्करादयः ।
गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥ ४६ ॥

मयूरेशः स्वयं चक्रे मूर्तिं शुण्डादिचिह्निताम् ।
सम्पूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥ ४७ ॥

मयूरेश उवाच ।

नमस्ते गणनाथाय सर्वविघ्नविदारिणे ।
भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८ ॥

ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९ ॥

वक्रतुण्डाय वक्राणां नाशकार परात्मने ।
लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५० ॥

चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे ।
हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१ ॥

योगेशाय सदा शान्तिदात्रे शान्तिमयाय च ।
शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ ५२ ॥

[[११५]]

ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ ५३ ॥

अनादये च सर्वेषामादिरूपाय विघ्नप ।
विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ ५४ ॥

स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये ।
सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ ५५ ॥

महोदराय भीमाय पापिनां दण्डधारिणे ।
स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ ५६ ॥

मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥ ५७ ॥

किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ ५८ ॥

रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् ।
यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ ५९ ॥

एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् ।
पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥ ६० ॥

एवं शिवादयः सर्वे पुपूजुर्गणनायकम् ।
मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥ ६१ ॥

एतस्मिन्नन्तरे तत्र विश्वदेवो महायशाः ।
समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥ ६२ ॥

एकनिष्ठतया सोऽपि नारायणपरायणः ।
पुपूज नित्यमानन्दाच्छेषशायिनमादरात् ॥ ६३ ॥

अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः ।
गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥ ६४ ॥

पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः ।
अत्यन्तभक्तियोगेन गाणेशे योग्यतां गतः ॥ ६५ ॥

मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः ।
ज्ञानं सञ्छादयामास विश्वदेवस्य संस्मृतिम् ॥ ६६ ॥

विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः ।
अकारयत्तद्योगेशो विस्मृतं योगमायया ॥ ६७ ॥

आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् ।
अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥ ६८ ॥

अपोशनं स कृत्वा च सस्मार शेषशायिनम् ।
महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥ ६९ ॥

ततस्तं गणराजस्तु खेदयुक्तं विशेषतः ।
दृष्ट्वा नारायणो भूत्वा सान्त्वयामास भावतः ॥ ७० ॥

चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः ।
मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥ ७१ ॥

गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शान्तिदम् ।
गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥ ७२ ॥

विश्वदेवो ययौ स्थानं स्वकीयं शान्तिसंयुतः ।
एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥ ७३ ॥

एवं विस्मृतभावेन ज्ञानसञ्छादनेन च ।
विष्णोः पराक्रमं हत्वा चिक्रीड द्विजबालकैः ॥ ७४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥

[[११६]]