३९ कमलासुरवधः

॥ श्रीगणेशाय नमः ॥

आदिशक्तिरुवाच ।
गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः ।
चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥ १ ॥

तेषां मुनिसुतानां स तिरस्कारादिकं कदा ।
असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥ २ ॥

तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः ।
सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥ ३ ॥

कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः ।
यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥ ४ ॥

सुतो विनतया सोऽपि बोधितः प्रणनाम तम् ।
गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥ ५ ॥

आदौ मयूरनाम्ना संयुतं नाम त्वदीयकम् ।
भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥ ६ ॥

तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः ।
सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥ ७ ॥

कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः ।
जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥ ८ ॥

पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् ।
ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥ ९ ॥

गणेशमन्त्रसंयुक्ता नानाऽनुष्ठानतत्पराः ।
ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥ १० ॥

शेषवासुकिमुख्यैस्ता लालिताः परमादरात् ।
पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥ ११ ॥

गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् ।
नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥ १२ ॥

तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः ।
ब्रह्मेशो गणनाथस्तु स्वानन्दस्थो बभूव ह ॥ १३ ॥

[[१११]]

स कथं भवतां पुत्र्यो भविष्यति पतिः परः ।
अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥ १४ ॥

तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः ।
जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥ १५ ॥

पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम् ।
ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥ १६ ॥

नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् ।
अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥ १७ ॥

स्वगृहे गणनाथं ताः समानाय्य सुविह्वलाः ।
पुपूजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥ १८ ॥

ततः सोऽपि हृदा चक्रे ददौ योगं सुशान्तिदम् ।
ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥ १९ ॥

अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः ।
दिवानक्तं बुभुजिरे ह्यत्यन्तं पौरुषं सुखम् ॥ २० ॥

एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् ।
मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥ २१ ॥

एवं नानाविधान्येव चरित्राणि चकार ह ।
स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥ २२ ॥

भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः ।
न करोति महादेव्यो दासदास्यपरायणः ॥ २३ ॥

भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम् ।
अभक्तैः सादरतया स कृतं मन्यते विषम् ॥ २४ ॥

तिरस्कारादिकं देव्यस्ताडनादिकमुत्तमम् ।
सौख्यदं गणनाथस्य बभूवे भक्तिमोहतः ॥ २५ ॥

पार्वतीशिवमुख्यैश्चादितिकश्यपमुख्यकैः ।
तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥ २६ ॥

भक्तस्य वचनार्थं स दैत्यमस्तकधारकः ।
स्वाङ्गच्छेदकरश्चैव मलजोऽपि बभूव ह ॥ २७ ॥

इत्यादि विविधं चैव नीचवद्गणनायकः ।
चकार कर्म भक्त्या सम्मोहितो मोहनाशनः ॥ २८ ॥

ततो गौतममुख्याश्च गणेशमायया युताः ।
आययुः शङ्करं देवं जगुस्तं मोहिता भृशम् ॥ २९ ॥

गौतमाद्या ऊचुः ।
मयूरेशयुतः शम्भो गच्छ त्वं यत्र ते रुचिः ।
वयं पीडायुता नित्यं भवामो दैत्यसङ्गमात् ॥ ३० ॥

नित्यं दैत्येन्द्रमुख्यास्तं मयूरेशं समाययुः ।
प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥ ३१ ॥

मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो ।
दश द्वादश पञ्चत्रिशतविंशतियोजनम् ॥ ३२ ॥

तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम् ।
भञ्जते नित्यमेवातोऽस्माकं किं करवामहै ॥ ३३ ॥

अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः ।
अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥ ३४ ॥

तेषां वचनमाकर्ण्य शिवश्चिन्तातुरोऽवदत् ।
मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥ ३५ ॥

श्रीशिव उवाच ।

भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् ।
मदीयसङ्गदोषेण पीडिता मुनयः परम् ॥ ३६ ॥

स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः ।
गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥ ३७ ॥

मयूरेशस्य विप्रेशा नित्यं दुःखादिकं परम् ।
दैत्येन्द्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥ ३८ ॥

निर्विघ्नार्थं गणेशस्य स्थानं ब्रूत महर्षयः ।
तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः ॥ ३९ ॥

[[११२]]

गौतमाद्या ऊचुः ।
क्षेत्रं दक्षिणभागे तु वैघ्नेशं सर्वसिद्धिदम् ।
भूस्वानन्दं वदन्ते तद्ब्रह्मसायुज्यदायकम् ॥ ४० ॥

मूर्तिर्गणपतेस्तत्र सिन्धुदूतैः प्रखण्डिता ।
सिन्धोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥ ४१ ॥

जनैस्त्यक्तं महादेव दैत्यसन्त्रासतापितैः ।
तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥ ४२ ॥

तथेति शङ्करः सर्वैर्गणैर्विघ्नेशसंयुतः ।
निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥ ४३ ॥

एतस्मिन्नन्तरे तत्र सिन्धुना प्रेषितो महान् ।
कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥ ४४ ॥

ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुतम् ।
महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥ ४५ ॥

अहो शिवं परित्यज्य न स्थातुं शक्यते कदा ।
मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥ ४६ ॥

एवं विचार्य ते सर्वे पुनः शङ्करमाययुः ।
जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥ ४७ ॥

मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर ।
नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥ ४८ ॥

तेषां वचनमाकर्ण्य भयभीतः सदाशिवः ।
जगाद तान् वचो रम्यं द्विजपालनकारकः ॥ ४९ ॥

श्रीशिव उवाच ।

कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः ।
समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥ ५० ॥

अधुना मां समागृह्य कारागारे महाबलः ।
क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥ ५१ ॥

शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् ।
मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥ ५२ ॥

त्वं साक्षाद्गणनाथस्य कलाऽंशो भक्तनायकः ।
ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥ ५३ ॥

मरीचिना गणेशस्य कवचं मे महेश्वर ।
रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥ ५४ ॥

एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः ।
मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥ ५५ ॥

कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् ।
चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥ ५६ ॥

मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह ।
उदरं राजसदने प्रवाले जघनं तथा ॥ ५७ ॥

त्रिषु स्थानेषु दैत्येन्द्रः पपात त्रिविधोऽभवन् ।
गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥ ५८ ॥

शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ ।
क्षेत्रे मयूरसञ्ज्ञे तु तत्रसंस्था बभूविरे ॥ ५९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥

[[११३]]