३८ बालखेलावर्णनम्

॥ श्रीगणेशाय नमः ॥

आदिशक्तिरुवाच ।
ततः सिन्धुचरास्तत्र गुप्तरूपेण संस्थिताः ।
ज्ञात्वा सङ्कथयामासुर्वृत्तान्तं सिन्धवे परम् ॥ १ ॥

एतस्मिन्नन्तरे वाणी बभूवे तत्र शक्तयः ।
अशरीरा च तां सिन्धुं शुश्राव भयदायिनीम् ॥ २ ॥

अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः ।
स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥ ३ ॥

श्रुत्वा सम्मूर्च्छितो दैत्यः सावधानो बभूव ह ।
मुहूर्तेन महायत्नैस्ततः शुशोच मन्दधीः ॥ ४ ॥

तं हन्तुं प्रेषयामास दैत्येन्द्रान् दैत्यनायकः ।
गुप्तरूपेण ते सर्वे त्रिसन्ध्याक्षेत्रमाययुः ॥ ५ ॥

नानामायां समाश्रित्य तं हन्तुं तान् समागतान् ।
पशुपक्ष्यादिरूपस्थान् जघान शिवनन्दनः ॥ ६ ॥

ततः सा पार्वती देवी शुशोच बहुधा सती ।
अहा सङ्ख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥ ७ ॥

तथापि दैत्या राजानः किं करिष्यन्ति मे सुतम् ।
हनिष्यन्ति गुणाधीशं न जानामि विचारतः ॥ ८ ॥

साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह ।
भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥ ९ ॥

ततो मायां गुणेशानश्चकार मोहिनीं पराम् ।
तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥ १० ॥

एतस्मिन्नन्तरे योगी मरीचिर्गणपं भजन् ।
प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥ ११ ॥

ततः सोऽपि महायोगी शुश्राव स्ववचोऽमलम् ।
शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥ १२ ॥

श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह ।
प्रणम्यापूज्य सम्भोज्य प्रार्थयामास तं मुनिम् ॥ १३ ॥

त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् ।
त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥ १४ ॥

यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् ।
अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥ १५ ॥

दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् ।
समायाति गणेशानं हन्तुं भवन्ति ते मृताः ॥ १६ ॥

अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः ।
स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥ १७ ॥

शङ्करेण गणेशानः सेवितोऽभून् महामुने ।
तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥ १८ ॥

[[१०८]]

पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः ।
साक्षाच्छक्तिरियं भ्रान्ता सुतं जानाति विघ्नपम् ॥ १९ ॥

गणेशकवचं तस्मै ददौ शम्भुसुताय सः ।
तं प्रणम्य च संस्तुत्य ययौ स्वस्याश्रमं मुनिः ॥ २० ॥

तथापि दैत्यराजान् स तं हन्तुं नित्यमागतान् ।
नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥ २१ ॥

एकदा पार्वती प्रातः समुत्थाय शिवे रता ।
मूर्तिं लिङ्गमयीं कृत्वा वामहस्ते दधार ताम् ॥ २२ ॥

आवाह्य शङ्करं तस्यां पूजने संरताऽभवत् ।
एतस्मिन्नन्तरे तत्र गुणेशोऽभवदुत्थितः ॥ २३ ॥

स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत् ।
पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥ २४ ॥

ततस्तां स जगादैव किमर्थं पूजने रता ।
मां त्यक्त्वा तेऽधिकं देवि ददते शङ्करः कुतः ॥ २५ ॥

स्तन्यं देहि च मे मातस्तत्रानन्तशिवादयः ।
सन्तुष्टाः प्रभविष्यन्ति ब्रह्माणि शैलनन्दिनि ॥ २६ ॥

तथापि हास्यसंयुक्ता न ददौ स्तनपानकम् ।
ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥ २७ ॥

तलाघातेन देव्याः स हस्तस्थं शिवलिङ्गकम् ।
पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥ २८ ॥

ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः ।
जघान तलघातेन महाक्रोधवती परम् ॥ २९ ॥

ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम् ।
ददंशाङ्गुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥ ३० ॥

हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः ।
भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥ ३१ ॥

दृष्ट्वा रुरोदातिदुःखसंयुक्ता शङ्करप्रिया ।
प्राणप्रतिष्ठया युक्तं भग्नं लिङ्गं शिवस्य च ॥ ३२ ॥

शिवहत्यासमं पापं मया प्राप्तं न संशयः ।
अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥ ३३ ॥

अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः ।
वन्ध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥ ३४ ॥

अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् ।
देहत्यागं करिष्यमि विघ्नराज नमोऽस्तु ते ॥ ३५ ॥

गणेशस्मरणेनैव बुद्धिभेदो बभूव ह ।
ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥ ३६ ॥

यष्टिहस्ता ययौ देवी हन्तुं पुत्रं परात्परम् ।
पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥ ३७ ॥

सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया ।
मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥ ३८ ॥

मोहिता शङ्करं देवी मायया दृश्य दुःखिता ।
किमर्थं यष्टिहस्ताऽहं महेशं हन्तुमुद्यता ॥ ३९ ॥

त्यक्त्वा तं दुःखिताऽत्यन्तं देहत्यागे समुद्यता ।
बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥ ४० ॥

पलन्तं भयसंयुक्तं देवी हन्तुं समुद्यता ।
ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥ ४१ ॥

एतस्मिन्नन्तरे तत्र दैत्यः कर्दमसञ्ज्ञितः ।
शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥ ४२ ॥

किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः ।
यत्र माता न जानाति तत्र तस्मात् स्थिरो भव ॥ ४३ ॥

[[१०९]]

तथेति बालभावेन गुणेशेन कृतं वचः ।
बालं ?जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥ ४४ ॥

अहो सिन्धोर्महाशत्रुर्मया सम्भक्षितोऽभवत् ।
सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥ ४५ ॥

एतस्मिन्नन्तरे तत्र जगदम्बा तमाययौ ।
शैवं द्विजं प्रदृश्यैव प्रणनाम जगाद च ॥ ४६ ॥

पार्वत्युवाच ।
स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ ।
त्वदीये नात्र सन्देहः पादं पश्यामि नो पुरः ॥ ४७ ॥

पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् ।
परश्वादिकचिह्नेन वद सत्यं महामते ॥ ४८ ॥

द्विज उवाच ।

न दृष्टः शैलजे पुत्रो मया तव न संशयः ।
शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥ ४९ ॥

ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् ।
ततस्तस्य मुखाम्भोजान्निःसृतो गणनायकः ॥ ५० ॥

निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः ।
स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥ ५१ ॥

ततः सा हर्षिताऽत्यन्तं क्रोधहीना बभूव ह ।
पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगाऽभवत् ॥ ५२ ॥

पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः ।
पुनः पुनः स जृम्भां च चकार विकटाननः ॥ ५३ ॥

तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता ।
किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥ ५४ ॥

ततः सा तन्मुखे विश्वं ददर्श भयसङ्कुला ।
अनन्ताण्डसमायुक्तं पपात धरणीतले ॥ ५५ ॥

स्वगुरुं शङ्करं सा तु सस्मार स्वेष्टदेवकम् ।
गणेशं तेन मोहेन हीना बभूव पार्वती ॥ ५६ ॥

विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् ।
तं त्यक्त्वा लिङ्गसेवायां निरता मूर्खवत् किल ॥ ५७ ॥

पतिभावेन देवेशं शङ्करं देहधारिणम् ।
भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥ ५८ ॥

स्तनपानं गणेशाय न दत्तं मूढभावतः ।
अनन्ता वै मया यत्र संस्थिताः शङ्करादयः ॥ ५९ ॥

तेन तुष्टेन सर्वे ते सन्तुष्टाः सम्भवन्ति च ।
गणेशो ब्रह्मणां नाथः सोऽपि सन्तुष्ट एव वै ॥ ६० ॥

अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ ।
गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥ ६१ ॥

अतः परं गणेशानं पुत्रभावेन चागतम् ।
सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥ ६२ ॥

अयं पतिरयं तातो माता पुत्रः सुहृत्तथा ।
देवो ब्रह्म न सन्देहो गुणेशो मे सुशान्तिदः ॥ ६३ ॥

एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् ।
तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकन्धरा ॥ ६४ ॥

स्तुवन्तीं तां समालोक्य गणेशो मोहमादधे ।
ततः सम्मोहिता देवी विस्मृतिं परमां ययौ ॥ ६५ ॥

पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् ।
गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥ ६६ ॥

शक्तय ऊचुः ।
बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः ।
पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥ ६७ ॥

किमर्थमखिलं विश्वं नानाब्रह्माण्डसंयुतम् ।
शिवरूपं किमर्थं स दर्शयामास शक्तये ॥ ६८ ॥

दर्शयित्वा किमर्थं स लोपयामास तद्भवम् ।
ज्ञानं कुतूहलं चेदं वद संशयनाशनात् ॥ ६९ ॥

[[११०]]

आदिशक्तिरुवाच ।
पुत्रभावमयी भक्तिग्रहणे लालसः सदा ।
वरदानप्रभावेण तपः फलप्रदोऽभवत् ॥ ७० ॥

कार्यं कृत्वा सुरर्षीणामन्तर्धानं करिष्यति ।
तदा ज्ञानस्य देव्यास्तु स्मरणं सम्भविष्यति ॥ ७ ॥

गणेशः पुत्रभावेनागतो मे नात्र संशयः ।
अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥ ७२ ॥

पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् ।
ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥ ७३ ॥

तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् ।
तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥ ७४ ॥

एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः ।
शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥ ७५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेषष्ठे खण्डे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥